2025-05-30 20:14:28 by tylergneill
This page has been fully proofread twice.
अभिहितं च । सुभाषितेन गीतेन युवतीनां च लीलया |।
यस्य न द्रवति स्वान्तं स वै मुग्धो ऽथवा पशुः ॥
इत्थं तयोर्विनोदपरवशयोर्गानं कुर्वाणयोः कालातिक्रमः प्रावर्तिष्ट सुराधीशस्य सेवासमयो ऽपचक्राम ।
ततः पाकशासनस्तचात्राजगाम । शतक्रतुमाक्रान्तसंनिकृष्टप्रदेशं दृष्ट्वा प्रभुः कोपं करिष्यतीति भीत्या
विश्वावसुमालावतीभ्यां शुकशारिकयोरधारिषातां रूपे । रूपान्यत्वं रचितमभिवीक्ष्य सुत्रामा सासूयं
प्रोवाच । भवन्तौ मर्त्यलोके रूपाभ्यामेताभ्यां स्थास्यतः । तत्प्रभोः कोपप्रकर्षपरुषशापरूपं क्रकचसंपर्ककर्क-
शदुःसहं वचनमाकर्ण्य द्वावप्यवनतवदनावतिष्ठताम् । ततस्तौ दीनवदनावभिवीक्ष्य दिवस्पतेर्मनस्तरु-
णकरुणाभरेणास्वादीकृतम् ।
उदीरितं च । यस्य चित्तं द्रवीभूतं कृपया सर्वजन्तुषु ।
तस्य ज्ञानं च मोक्षश्च किं जटाभस्मचीवरैः ॥
एतल्लक्षणलक्षितं सतां चरितमभ्युपगन्तव्यम् । ततस्तेनाकृतकृत्ययोः शतक्रतुनानुग्रहः कृतः । मर्त्यलोके
निवसतोर्भवतोर्मदनसेनाख्यस्य हरदत्ततनयस्योपयोगो भविष्यति । ततो ऽसावनुज्ञास्यति संतुष्यैव
भवन्तौ । तदानीं पुनर्नगरमस्मदीयमवाप्स्यथ । इत्यभिधाय निरगात्सक्रन्दनः । तत्समस्तमपि चरितं वि-
द्याधनो ऽवेक्षमाण आसीत् । ततः पुष्पाणामपहरणाय समयो ऽप्यतिचक्राम । ततः सुमनसः समानीय
मुनिसमीपमुपयातः । ततो व्याहारि तपोधनेन । विद्याधन । वयं देवानर्चयितुं पुष्पाहरणाय प्रहिणुम
त्वाम् । तर्हि समयातिक्रमं कस्मादकार्षीस्त्वम् । अस्मदीया देवपूजा विघ्निता । ततो मलीमसमाननं
विधायास्थात् ।
उदितं च । जीवन्तो ऽपि मृताः पञ्च व्यासेन परिकीर्तिताः ।
दरिद्रो व्याधितो मूर्खः प्रवासी नित्यसेवकः ।
अथ तेन विद्याधनेन गन्धर्ववृत्तान्तं तपोनिधेस्तस्य पुरस्तादुपवर्णितम् । तदाकर्ण्य मुनीन्द्रो ऽसावतो
ऽदिष्ट । विद्याधन । विश्वावसुमालावत्यौ वासवो ऽभिशप्तवान् । ततस्तौ मर्त्यलोकमापततां ततस्त्वं मर्त्य-
लोकमवाप्स्यसि । ततस्तेनानुग्रहो याचितः । तदनु करुणाक्रान्तस्वान्तो मुनीन्द्रो व्याहृतवान् । त्वं मर्त्यलोके
निवसन् जातिस्मर्ता भविष्यसि । हरदत्तेन समं मैत्रमुत्पत्स्यते तस्योपयोगाय भविष्यसि । ततः पुनर-
प्याश्रममस्मदीयमागमिष्यसि । ततः सो ऽहं विद्याधनस्त्रिविक्रमो भूत्वावततार । अत एव शुकशारि-
कयो:योः प्रथमवृत्तान्तं जानानो ऽस्मि । तर्हि ते शुकशारिके ऽत्रागच्छतः । तथा करवाणि । ततः शुचिः
स्नातो भूत्वा सौपर्णं मन्त्रं जप्तवान् शुकशारिकयोरावाहनमुद्दिश्य । ततस्तज्जप्तक्षण एव तौ पक्षिणौ
पाणिप्राप्तावजायेताम् । तत एकस्मिन्पञ्जरे प्रक्षिप्य मदनसेनस्य मन्दिरे चित्रशालायाः पञ्जरे अन्तरा-
स्थापयत् । हरदत्तत्रिविक्रमौ नियतौ भूत्वा यथाभिलषितं निरगाताम् । इत्थं भूयांस्यतिक्रान्तानि
दिनानि । ततस्तया शारिकया बभाषे शुकः । भो प्राणनाथ । यस्मै कार्यायावामानीतौ तर्हि त्वं
प्रयोजनविशेषेणास्मै मदनसेनाय न किमप्यभिदधासि । ततो ऽस्मदागमनस्य को नामोपयोगविशेषः ।
तदाकर्ण्य कीरो ऽपि गिरामुद्गारमाविरभावयत् । प्रिये त्वं यदभिधत्से ममापि मानसं तद्विमृ-
शत्यहर्निशं परं प्रस्तावो न समापतति ।
उदितं च । प्रस्तावसदृशं वाक्यं स्वभावसदृशं प्रियम् ।
आत्मशक्तिसमं क्रोधं यो जानाति स पण्डितः ॥
इत्थं कस्मिंश्चिदवसरे मदनसेनः शुकं व्याजहार । भो रामचन्द्र । वार्त्तामेकां व्याचष्टां भवान् । ततः
शुकः प्रोवाच । शृणुष्वावहितो मदनसेन । अद्यतने समये त्वां विहाय नान्यः कञ्श्चन सर्वतो ऽभिमानं
यस्य न द्रवति स्वान्तं स वै मुग्धो ऽथवा पशुः ॥
इत्थं तयोर्विनोदपरवशयोर्गानं कुर्वाणयोः कालातिक्रमः प्रावर्तिष्ट सुराधीशस्य सेवासमयो ऽपचक्राम ।
ततः पाकशासनस्त
विश्वावसुमालावतीभ्यां शुकशारिकयोरधारिषातां रूपे । रूपान्यत्वं रचितमभिवीक्ष्य सुत्रामा सासूयं
प्रोवाच । भवन्तौ मर्त्यलोके रूपाभ्यामेताभ्यां स्थास्यतः । तत्प्रभोः कोपप्रकर्षपरुषशापरूपं क्रकचसंपर्ककर्क-
शदुःसहं वचनमाकर्ण्य द्वावप्यवनतवदनावतिष्ठताम् । ततस्तौ दीनवदनावभिवीक्ष्य दिवस्पतेर्मनस्तरु-
णकरुणाभरेणास्वादीकृतम् ।
उदीरितं च । यस्य चित्तं द्रवीभूतं कृपया सर्वजन्तुषु ।
तस्य ज्ञानं च मोक्षश्च किं जटाभस्मचीवरैः ॥
एतल्लक्षणलक्षितं सतां चरितमभ्युपगन्तव्यम् । ततस्तेनाकृतकृत्ययोः शतक्रतुनानुग्रहः कृतः । मर्त्यलोके
निवसतोर्भवतोर्मदनसेनाख्यस्य हरदत्ततनयस्योपयोगो भविष्यति । ततो ऽसावनुज्ञास्यति संतुष्यैव
भवन्तौ । तदानीं पुनर्नगरमस्मदीयमवाप्स्यथ । इत्यभिधाय निरगात्सक्रन्दनः । तत्समस्तमपि चरितं वि-
द्याधनो ऽवेक्षमाण आसीत् । ततः पुष्पाणामपहरणाय समयो ऽप्यतिचक्राम । ततः सुमनसः समानीय
मुनिसमीपमुपयातः । ततो व्याहारि तपोधनेन । विद्याधन । वयं देवानर्चयितुं पुष्पाहरणाय प्रहिणुम
त्वाम् । तर्हि समयातिक्रमं कस्मादकार्षीस्त्वम् । अस्मदीया देवपूजा विघ्निता । ततो मलीमसमाननं
विधायास्थात् ।
उदितं च । जीवन्तो ऽपि मृताः पञ्च व्यासेन परिकीर्तिताः ।
दरिद्रो व्याधितो मूर्खः प्रवासी नित्यसेवकः ।
अथ तेन विद्याधनेन गन्धर्ववृत्तान्तं तपोनिधेस्तस्य पुरस्तादुपवर्णितम् । तदाकर्ण्य मुनीन्द्रो ऽसावतो
ऽदिष्ट । विद्याधन । विश्वावसुमालावत्यौ वासवो ऽभिशप्तवान् । ततस्तौ मर्त्यलोकमापततां ततस्त्वं मर्त्य-
लोकमवाप्स्यसि । ततस्तेनानुग्रहो याचितः । तदनु करुणाक्रान्तस्वान्तो मुनीन्द्रो व्याहृतवान् । त्वं मर्त्यलोके
निवसन् जातिस्मर्ता भविष्यसि । हरदत्तेन समं मैत्रमुत्पत्स्यते तस्योपयोगाय भविष्यसि । ततः पुनर-
प्याश्रममस्मदीयमागमिष्यसि । ततः सो ऽहं विद्याधनस्त्रिविक्रमो भूत्वावततार । अत एव शुकशारि-
क
स्नातो भूत्वा सौपर्णं मन्त्रं जप्तवान् शुकशारिकयोरावाहनमुद्दिश्य । ततस्तज्जप्तक्षण एव तौ पक्षिणौ
पाणिप्राप्तावजायेताम् । तत एकस्मिन्पञ्जरे प्रक्षिप्य मदनसेनस्य मन्दिरे चित्रशालायाः पञ्जरे अन्तरा-
स्थापयत् । हरदत्तत्रिविक्रमौ नियतौ भूत्वा यथाभिलषितं निरगाताम् । इत्थं भूयांस्यतिक्रान्तानि
दिनानि । ततस्तया शारिकया बभाषे शुकः । भो प्राणनाथ । यस्मै कार्यायावामानीतौ तर्हि त्वं
प्रयोजनविशेषेणास्मै मदनसेनाय न किमप्यभिदधासि । ततो ऽस्मदागमनस्य को नामोपयोगविशेषः ।
तदाकर्ण्य कीरो ऽपि गिरामुद्गारमाविरभावयत् । प्रिये त्वं यदभिधत्से ममापि मानसं तद्विमृ-
शत्यहर्निशं परं प्रस्तावो न समापतति ।
उदितं च । प्रस्तावसदृशं वाक्यं स्वभावसदृशं प्रियम् ।
आत्मशक्तिसमं क्रोधं यो जानाति स पण्डितः ॥
इत्थं कस्मिंश्चिदवसरे मदनसेनः शुकं व्याजहार । भो रामचन्द्र । वार्त्तामेकां व्याचष्टां भवान् । ततः
शुकः प्रोवाच । शृणुष्वावहितो मदनसेन । अद्यतने समये त्वां विहाय नान्यः क