This page has been fully proofread once and needs a second look.

322
 
10
 
अभिहितं च ।
 
सुभाषितेन गीतेन युवतीनां च लीलया
|
यस्य न द्रवति स्वान्तं स वै मुग्धो ऽथवा पशुः ॥
 

 
इत्यंथं तयोर्विनोदपरवशयोगीर्गानं कुर्वाणयोः कालातिक्रमः प्रावर्तिष्ट सुराधीशस्य सेवासमयो ऽपचक्राम ।

ततः पाकशासनस्तचाजगाम । शतक्रतुमाक्रान्तसंनिकृष्टप्रदेशं दृष्ट्वा प्रभुः कोपं करिष्यतीति भीत्या
5

विश्वावसुमालावतीभ्यां शुकशारिकयोरधारिषातां रूपे । रूपान्यत्वं रचितमभिवीच्क्ष्य सुत्रामा सासूयं

प्रोवाच । भवन्तौ मर्त्यलोके रूपाभ्यामेताभ्यां स्थास्यतः । तत्प्रभोः कोपप्रकर्षपरुषशापरूपं क्रकचसंपर्ककर्क-

शदुःसहं वचनमाकर्ण्य द्वावप्यवनतवदनावतिष्ठताम् । ततस्तौ दीनवदनावभिवीच्क्ष्य दिवस्पतेर्मनस्तरु-

णकरुणाभरेणास्वादीकृतम् ।
 

 
उदीरितं च ।
 
यस्य चित्तं द्रवीभूतं कृपया सर्वजन्तुषु ।
 

तस्य ज्ञानं च मोक्षश्च किं जटाभस्मचीवरैः ॥
 

 
एतल्लक्षणलचिक्षितं सतां चरितमभ्युपगन्तव्यम् । ततस्तेनाकृतकृत्ययोः शतक्रतुनानुग्रहः कृतः । मर्त्यलोके

निवसतोर्भवतोर्मदनसेनाख्यस्य हरदत्ततनयस्योपयोगो भविष्यति । ततो ऽसावनुज्ञास्यति संतुष्यैव

भवन्तौ । तदानीं पुनर्नगरमस्मदीयमवाप्स्यथ । इत्यभिधाय निरगात्सक्रन्दनः । तत्समस्तमपि चरितं वि-
बा

द्या
धनो ऽवेक्षमाण आसीत् । ततः पुष्पाणामपहरणाय समयो ऽप्यतिचक्राम । ततः सुमनसः समानीय
16

मुनिसमीपमुपयातः । ततो व्याहारि तपोधनेन । विद्याधन । वयं देवानर्चयितुं पुष्पाहरणाय प्रहिणुम

त्वाम् । तर्हि समयातिक्रमं कस्मादकार्षीस्त्वम् । अस्मदीया देवपूजा विघ्निता । ततो मलीमसमाननं

विधायास्थात् ।
 

 
उदितं च ।
 
जीवन्तो ऽपि मृताः पञ्च व्यासेन परिकीर्तिताः ।

दरिद्रो व्याधितो मूर्खः प्रवासी नित्यसेवकः ।
 

 
20

 
अथ तेन विद्याधनेन गन्धर्ववृत्तान्तं तपोनिधेस्तस्य पुरस्तादुपवर्णितम् । तदाकर्ण्य मुनीन्द्रो सातो

ऽदिष्ट । विद्याधन । विश्वावसुमालावत्यौ वासवो ऽभिशप्तवान् । ततस्तौ मर्त्यलोकमापततां ततस्त्वं मर्त्य-

लोकमवाप्स्यसि । ततस्तेनानुग्रहीहो याचितः । तदनु करुणाक्रान्तस्वान्तो मुनीन्द्रो व्याहृतवान् । त्वं मर्त्यलोके

निवसन् जातिमतीस्मर्ता भविष्यसि । हरदत्तेन समं मैत्रमुत्पत्स्यते तस्योपयोगाय भविष्यसि । ततः पुनर

प्याश्रममस्मदीयमागमिष्यसि । ततः सो ऽहं विद्याधनस्त्रिविक्रमो भूत्वावततार । अत एव शुकशारि-
25

कयो: प्रथमवृत्तान्तं जानानो ऽस्मि । तर्हि ते शुकशारिके ऽवात्रागच्छतः । तथा करवाणि । ततः शुचिः
ला

स्ना
तो भूत्वा सौपर्णं मन्त्रं जप्तवान् शुकशारिकयोरावाहनमुद्दिश्य । ततस्तज्जप्क्षण एव तौ पक्षिणी
णौ
पाणिप्राप्तावजायेताम् । तत एकस्मिन्पञ्जरे प्रतिष्क्षिप्य मदनसेनस्य मन्दिरे चित्रशालायाः पञ्जरे अन्तरा-

स्थापयत् । हरदत्तत्रिविक्रमीमौ नियतीतौ भूत्वा यथाभिलषितं निरगाताम् । इत्थं भूयांस्यतिक्रान्तानि

दिनानि । ततस्तया शारिकया बभाषे शुकः । भो प्राणनाथ । यस्मै कार्यायावामानीतीतौ तर्हि त्वं
30

प्रयोजनविशेषेणास्मै मदनसेनाय न किमप्यभिदधासि । ततो ऽस्मदागमनस्य को नामोपयोगविशेषः ।

तदाकर्ण्य कीरोsपि गिरामुद्गारमाविरभावयत् । प्रिये त्वं यदभिधत्से ममापि मानसं तद्विमृ-

शत्यहर्निशं परं प्रस्तावो न समापतति ।
 

 
उदितं च ।
 
प्रस्तावसदृशं वाक्यं स्वभावसदृशं प्रियम् ।
 

आत्मशक्तिसमं क्रोधं यो जानाति स पण्डितः ॥
 
86

 
इत्थं कस्मिंश्चिदवसरे मदनसेनः शुकं व्याजहार । भो रामचन्द्र । वार्त्तामेकां व्याचष्टां भवान् । ततः

शुकः प्रोवाच । शृणुष्वावहितो मदनसेन । अद्यतने समये त्वां विहाय नान्यः कञ्चन सर्वतोऽभिमानं