शुकसप्ततिः /70
This page has been fully proofread twice.
नाद्राक्षीत् । तद्भीत्या कीराभावात्तित्तिरिविहगमेकं निहत्यापाक्षीद्भोजनाय तस्याः । तर्हि प्रभावति
त्वमप्येतादृशं बुद्धिवैभवं विधातुं प्रगल्भसे यदि तदा विधेयं विधेहि ॥
इत्येकोनसप्ततिकथा ॥ ६९ ॥
पुनः प्रभावती प्रश्नीकृतवती पतत्रिणम् । शुको भणति स्म । देवि तस्यैव धूर्तचकोरस्य शुकस्येव मति -
र्यद्यात्मनो ऽपायमाकृष्टुमत्यते तदानीमटतु भवती । ततः प्रभावती प्रोवाच । तद्वृत्तान्तं वावदीतु भवा -
निति । तदा तज्जगाद द्रुमसद्मा । तदा तु किंचिदुल्लुञ्चितपुच्छः शुक उड्डीय गतवान् । इन्दुवासरेन्दुव -
दना कामसेना तत्रेन्दुशेखरप्रासादे नृत्यति । ततः शुकः पूर्वमेव तत्र गत्वा लिङ्गस्याश्रये करप्रचेयपत्त्रे
बिल्वद्रुमकोटरे निलीय तस्थौ । तदनु कामसेनानृत्तावसाने संपूर्णे जाते शिवलिङ्गमहिमरूपाद्रुममध्या -
दुदस्थात्कश्चन शब्दः । कामसेने मदीयसेवां गतया त्वया बहूनि दिवसानि अतीतानि । तुभ्यं भवत्या
भक्त्यतिशयभावनया प्रसन्नो ऽस्मि । आगामिनि सोमवारे प्रथमप्रहरसमये कामिकविमानमारुह्य कैला -
सपर्वते मत्संनिधानमवाप्स्यसि पश्यतां सकललोकानाम् । तावता भक्त्या पूर्वजननेSऽभजनदुरन्तदुरित -
निकरपरिपाका दूरतः पलायन्ते । तदनु सौदामिनीतरलं सकलवैभवमर्थिसाद्विधेहि संभृतम् । तदनु
सर्वप्रायश्चित्तस्य मुख्याङ्गभूतं क्षौरमपि द्वाभ्यां भवतीभ्यां विधाय देवस्य मम प्रासादाग्रभूमिमारुह्य
स्थातव्यम् । प्रथमघटीचतुष्टयादुपरि तत्र स्थित्वा नृत्तगीतादिकं कुर्वाणाया यामद्वयवरिवस्यादत्त -
चित्ताया भवत्याः सविधमापतिष्यति विमानयुगलं प्रथमयामे पूर्णे सति । तदनु सर्वेषु साश्चर्यं दत्ता -
वधानेषु नारीजनेषु कामसेना निशम्य बिल्वद्रुमभाषितमाश्चर्यचरणानुरचितसरणीमवतीर्णेव परां
प्रहर्षकोटिमटकिष्टमुच्चरिता । ततः कामसेना देवसेना च प्रसादरूपं परमेश्वरस्य निशम्य वचनं निर -
तिशयं सर्वलोकातिरिक्तं समुत्सेकितमनीषा बहुमन्यमाना पुनः प्राणंसीत्पार्वतीप्राणनाथम् । तद -
न्वीश्वरवचनं नान्यथा भवतीति निश्चितमतिः सर्वपुरश्चरणपुरःसरं सर्वामपि संपदं सत्पात्रसात्प्रकल्प्य
शिरोमुण्डनं विधाय काषायवसनं परिधाय देवसेनया सह मृदङ्गवाद्यादिमङ्गलघोषनृत्तगीताद्यनेका -
डम्बरप्रसृमरसंभ्रमोत्सवा महानन्दोर्मिलहरीपरिरब्धान्तरापघना घटीचतुष्टयमध्ये कृत्यशेषं संपूर्णं वि -
धाय परमेश्वरस्य महतीं पूजां च निर्माय निर्मर्यादं प्रदक्षिणं कृत्वा प्रीतिपूर्वं परमेश्वरस्याज्ञां
शिरस्याधाय प्रासादोपरितनप्रदेशमारुरोह । समस्तो ऽपि लोक आहारनिद्रादिकं विमुच्य सज्जीभूय
वर्तते स्म। । मुण्डितयोर्मुण्डयोरुपरि चण्डांशोस्तीव्राः करा वह्व्न्यङ्गारदाहगरिमाणं पुष्णन्ति । यामयुग्म -
मप्यजनिष्ट परं नागते विमाने । तदनु बिल्वपादपस्योपरि स्थितः पक्षी व्याजहार गिरं स कीरः ।
यत उक्तम् । शठे प्रतिशठं कुर्यादादरे च तथादरम् ।
त्वया मे लुञ्चिताः पक्षा:षाः मया ते मुण्डितं शिरः ॥
तर्हि प्रभावति बुद्धिरियं प्रोत्स्फुरति यदि तदिदानीं यातु भवती ॥
इति सप्ततिकथा ॥ ७० ॥
अन्येद्युर्विनयकन्दर्पः पृथिवीपतिः प्रभावतीमन्दिरमियाय । प्रभावती च निजमन्दिरमागतं महीपालं
महता प्रेमभरेण संदर्शनेन संभाव्य तत्रोपवेष्टुं सिंहासनमचीकरत् । राजा च सिंहासनमध्यरुक्षत् । तदा
पञ्जरशायिनं कीरं निरीक्ष्य तं जिघांसुर्मार्जारः क्रियासमभिहारेण विरौति स्म । ततो रोरूयमाणं
मार्जारं प्रोवाच शुकः ।
किं त्वं रोदिषि मार्जार न चारिर्न च तस्करः ।
नन्दभूपकुमारो ऽयं परनारीसहोदरः ॥
इत्थं कीरगिरमाकर्ण्य बद्धमौन एव निरगाद्विनयकन्दर्पः ॥ .
इति कथाकोशे शुकसप्ततिः समाप्ता ॥
॥ श्रीरस्तु ॥
त्वमप्येतादृशं बुद्धिवैभवं विधातुं प्रगल्भसे यदि तदा विधेयं विधेहि ॥
इत्येकोनसप्ततिकथा ॥ ६९ ॥
पुनः प्रभावती प्रश्नीकृतवती पतत्रिणम् । शुको भणति स्म । देवि तस्यैव धूर्तचकोरस्य शुकस्येव मति
र्यद्यात्मनो ऽपायमाकृष्टुमत्यते तदानीमटतु भवती । ततः प्रभावती प्रोवाच । तद्वृत्तान्तं वावदीतु भवा
निति । तदा तज्जगाद द्रुमसद्मा । तदा तु किंचिदुल्लुञ्चितपुच्छः शुक उड्डीय गतवान् । इन्दुवासरेन्दुव
दना कामसेना तत्रेन्दुशेखरप्रासादे नृत्यति । ततः शुकः पूर्वमेव तत्र गत्वा लिङ्गस्याश्रये करप्रचेयपत्त्रे
बिल्वद्रुमकोटरे निलीय तस्थौ । तदनु कामसेनानृत्तावसाने संपूर्णे जाते शिवलिङ्गमहिमरूपाद्रुममध्या
दुदस्थात्कश्चन शब्दः । कामसेने मदीयसेवां गतया त्वया बहूनि दिवसानि अतीतानि । तुभ्यं भवत्या
भक्त्यतिशयभावनया प्रसन्नो ऽस्मि । आगामिनि सोमवारे प्रथमप्रहरसमये कामिकविमानमारुह्य कैला
सपर्वते मत्संनिधानमवाप्स्यसि पश्यतां सकललोकानाम् । तावता भक्त्या पूर्वजनने
निकरपरिपाका दूरतः पलायन्ते । तदनु सौदामिनीतरलं सकलवैभवमर्थिसाद्विधेहि संभृतम् । तदनु
सर्वप्रायश्चित्तस्य मुख्याङ्गभूतं क्षौरमपि द्वाभ्यां भवतीभ्यां विधाय देवस्य मम प्रासादाग्रभूमिमारुह्य
स्थातव्यम् । प्रथमघटीचतुष्टयादुपरि तत्र स्थित्वा नृत्तगीतादिकं कुर्वाणाया यामद्वयवरिवस्यादत्त
चित्ताया भवत्याः सविधमापतिष्यति विमानयुगलं प्रथमयामे पूर्णे सति । तदनु सर्वेषु साश्चर्यं दत्ता
वधानेषु नारीजनेषु कामसेना निशम्य बिल्वद्रुमभाषितमाश्चर्यचरणानुरचितसरणीमवतीर्णेव परां
प्रहर्षकोटिमटकिष्टमुच्चरिता । ततः कामसेना देवसेना च प्रसादरूपं परमेश्वरस्य निशम्य वचनं निर
तिशयं सर्वलोकातिरिक्तं समुत्सेकितमनीषा बहुमन्यमाना पुनः प्राणंसीत्पार्वतीप्राणनाथम् । तद
न्वीश्वरवचनं नान्यथा भवतीति निश्चितमतिः सर्वपुरश्चरणपुरःसरं सर्वामपि संपदं सत्पात्रसात्प्रकल्प्य
शिरोमुण्डनं विधाय काषायवसनं परिधाय देवसेनया सह मृदङ्गवाद्यादिमङ्गलघोषनृत्तगीताद्यनेका
डम्बरप्रसृमरसंभ्रमोत्सवा महानन्दोर्मिलहरीपरिरब्धान्तरापघना घटीचतुष्टयमध्ये कृत्यशेषं संपूर्णं वि
धाय परमेश्वरस्य महतीं पूजां च निर्माय निर्मर्यादं प्रदक्षिणं कृत्वा प्रीतिपूर्वं परमेश्वरस्याज्ञां
शिरस्याधाय प्रासादोपरितनप्रदेशमारुरोह । समस्तो ऽपि लोक आहारनिद्रादिकं विमुच्य सज्जीभूय
वर्तते स्म
मप्यजनिष्ट परं नागते विमाने । तदनु बिल्वपादपस्योपरि स्थितः पक्षी व्याजहार गिरं स कीरः ।
यत उक्तम् । शठे प्रतिशठं कुर्यादादरे च तथादरम् ।
त्वया मे लुञ्चिताः पक्
तर्हि प्रभावति बुद्धिरियं प्रोत्स्फुरति यदि तदिदानीं यातु भवती ॥
इति सप्ततिकथा ॥ ७० ॥
अन्येद्युर्विनयकन्दर्पः पृथिवीपतिः प्रभावतीमन्दिरमियाय । प्रभावती च निजमन्दिरमागतं महीपालं
महता प्रेमभरेण संदर्शनेन संभाव्य तत्रोपवेष्टुं सिंहासनमचीकरत् । राजा च सिंहासनमध्यरुक्षत् । तदा
पञ्जरशायिनं कीरं निरीक्ष्य तं जिघांसुर्मार्जारः क्रियासमभिहारेण विरौति स्म । ततो रोरूयमाणं
मार्जारं प्रोवाच शुकः ।
किं त्वं रोदिषि मार्जार न चारिर्न च तस्करः ।
नन्दभूपकुमारो ऽयं परनारीसहोदरः ॥
इत्थं कीरगिरमाकर्ण्य बद्धमौन एव निरगाद्विनयकन्दर्पः ॥
इति कथाकोशे शुकसप्ततिः समाप्ता ॥
॥ श्रीरस्तु ॥