2025-05-30 19:29:56 by tylergneill
This page has been fully proofread twice.
साक्रान्तस्वान्तो जनः कथमेकहेलयैवानयितुं शक्यः । हृदयान्तःस्थगितप्रथमरसावस्थोद्गाढा न किं सेवन्ते ।
अन्तःकरण गुणहार्दबद्धसंबन्धशैथिल्यपरिपाव्ट्या परिमृदितरणरणकतासमाश्रये व्यावहारिकी बुद्धिरिय-
मुपवर्णयितुमुदर्कसंपर्कोपयोगिनी भवति । ........ त्रिविक्रम त्वं जोषमास्स्व । अहमेव शनैः शनैरुपपत्तिविशेषैस्तं
शिक्षिष्ये इत्यभिधाय हरदत्तो निजमन्दिरं समासदत् । तदनु हरदत्तः पुत्रस्य विषयोपभोगे निरत्युत्कर्ष-
विशेषमभिवीक्ष्य तदसोढतया देहमात्मीयं परित्यक्तुं पर्यैच्छत् । त्रिविक्रमो वार्त्तामपि शुश्राव । ततस्त्वरमा-
णो हरदत्तोपान्तमाजग्मिवान् । तावतासौ हरदत्तः समग्रामपि प्रायोपवेशसामग्रीं निर्मायावस्थितो
वर्तते । ततः तमतिचुकोप । हरदत्त त्वां विहाय नान्यं कंचन मन्दमतिमुपलभे । त्वं देहत्यागाय किमर्थं
वृथैव प्रवृत्तो ऽसि । देहो ऽयं कियता महायासेनासाद्यते । देहेनानेन पदार्थचतुष्टयमपि साध्यं
संपाद्यते । अस्य देहस्य कृते योगिनः सिद्धाः साधकाश्च नानारसरसायनादिषु परिचिन्वते ।
अभिहितं च । पुनर्दाराः पुनर्मित्रं पुनः क्षेत्रं पुनः सुताः ।
पुनः शुभाशुभं कर्म न शरीरं पुनः पुनः ॥
किं च । आपदर्थं धनं रक्षेद्दारान्रक्षेद्धनैरपि ।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥
अत एव त्वमुचितं परिजिहानो ऽसि । आकर्णयतु नाम भवान् । पुत्रस्य श्रम ईदृशस्तव गृहीतुमयुक्तः ।
उदितं च । जायमानो हरेद्भार्यां वर्धमानो हरेद्धनम् ।
म्रियमाणो हरेत्प्राणान्नास्ति पुत्रसमो रिपुः ॥
ततो हरदत्तो ऽप्यभाषीत् । अहमेतस्मात्पुत्रव्यसनजनितदुःखाद्दवीयान्भविष्यामि । तादृशः प्रकारः कश्चि -
दस्ति चेत्तदानीमाचक्ष्व । तदानीं त्रिविक्रमस्तमाचष्ट । मलयपर्वते गुणसागरसंज्ञः शुको ऽस्ति । तथा
हिमवतः शृङ्गे मलयवती नाम शारिका वर्तते । तौ द्वावपि मुनिशापतः पक्षिणावजायेताम् । तौ
द्वावानेतव्यौ । ततस्तौ भवतः पुत्राय उपदेशं दास्यतः । ततो हरदत्तो ऽवादीत् । तौ कथं पक्षिणौ
जातौ । केन दोषेण मुनिना शप्तौ । त्वमप्येतत्कथं जानीषे । तदेतद्वृत्तान्तमनस्तमितसामान्यं भवानवादीत् ।
तच्छ्रुत्वा त्रिविक्रमः शुकशारिकयोः प्रथमवृत्तान्तमभ्युदितवान् । आकर्णय मित्र राजवैश्यवर्य मानसं
सर उत्तरस्यां दिशि योजनमात्रे पर्वते निवसत्येकम् । तत्र चैकस्तपोनिधिनामधेयस्तपोधनो बहुभि-
र्मुनिभिरुपासितः समास्ते । स चैकस्मिन्दिने विद्याधननामानं शिष्यं देवार्चनाय पुष्पाण्याहर्तुं प्रातिष्ठिपत् ।
स मुनीश्वरस्याज्ञासमयमनन्तरमेव निरगात् ।
उक्तं च । बण्ड:डः शाकुनिको मन्त्री किमेकः स्तम्भसेवकः ।
सद्यो ऽपवादी रोगी च सप्तैतान्सेवकांस्त्यजेत् ॥
तथा । अलसं निष्ठुरं व्यर्थं क्रूरं व्यसनिनं शठम् ।
असंतुष्टं कृतघ्नं च त्यजेद्दुष्टं महीपतिः ॥
ततो ऽसौ पुष्पाहरणाय गच्छन्पथि पुष्पवाटिकामपश्यत् । दृष्ट्वा च तां पुष्पाण्युपचेतुमन्तः प्राविशक्षत् ।
तत्र च घनसंपिण्डितपर्णपुञ्जसंपूरितं फलसमाहारात्समन्ततो नम्रं माकन्दतरुं मकरन्दरसोन्मदिष्णु-
मदनमङ्गलमहोदयं मनःसर्वस्वापहारकं लोचनगोचरं चकार । तस्य तले गन्धर्वमिथुनं ददर्श । सुरेश्व-
रपुरी गायको विश्वावसुसंज्ञको गन्धर्वराजः । तथा तस्य धर्मचारिणी मालावत्याह्वया । तद्द्वयमपि
क्रीडाकौतुकपरवशं विपञ्चीं गृहीत्वा मिलित्वा गानं कुर्वाणमभूत् । तयोगीर्गायतोः स को ऽ<error>पिः</error><fix>पि</fix> लयः
प्रादुरभूद्येन साक्षाच्छ्रीपार्वतीनाथश्चन्द्रमौलिरेव स्वयं परितुष्यति । तच्छ्रुत्वा स विद्याधन:नः स्वं विधेयं
विस्मृत्य तदेवाकर्णयंस्तत्रैवातिष्ठत् ।
अन्तःकरण
मुपवर्णयितुमुदर्कसंपर्कोपयोगिनी भवति । .....
शिक्षिष्ये इत्यभिधाय हरदत्तो निजमन्दिरं समासदत् । तदनु हरदत्तः पुत्रस्य विषयोपभोगे निरत्युत्कर्ष-
विशेषमभिवीक्ष्य तदसोढतया देहमात्मीयं परित्यक्तुं पर्यैच्छत् । त्रिविक्रमो वार्त्तामपि शुश्राव । ततस्त्वरमा-
णो हरदत्तोपान्तमाजग्मिवान् । तावतासौ हरदत्तः समग्रामपि प्रायोपवेशसामग्रीं निर्मायावस्थितो
वर्तते । ततः तमतिचुकोप । हरदत्त त्वां विहाय नान्यं कंचन मन्दमतिमुपलभे । त्वं देहत्यागाय किमर्थं
वृथैव प्रवृत्तो ऽसि । देहो ऽयं कियता महायासेनासाद्यते । देहेनानेन पदार्थचतुष्टयमपि साध्यं
संपाद्यते । अस्य देहस्य कृते योगिनः सिद्धाः साधकाश्च नानारसरसायनादिषु परिचिन्वते ।
अभिहितं च । पुनर्दाराः पुनर्मित्रं पुनः क्षेत्रं पुनः सुताः ।
पुनः शुभाशुभं कर्म न शरीरं पुनः पुनः ॥
किं च । आपदर्थं धनं रक्षेद्दारान्रक्षेद्धनैरपि ।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥
अत एव त्वमुचितं परिजिहानो ऽसि । आकर्णयतु नाम भवान् । पुत्रस्य श्रम ईदृशस्तव गृहीतुमयुक्तः ।
उदितं च । जायमानो हरेद्भार्यां वर्धमानो हरेद्धनम् ।
म्रियमाणो हरेत्प्राणान्नास्ति पुत्रसमो रिपुः ॥
ततो हरदत्तो ऽप्यभाषीत् । अहमेतस्मात्पुत्रव्यसनजनितदुःखाद्दवीयान्भविष्यामि । तादृशः प्रकारः कश्चि
दस्ति चेत्तदानीमाचक्ष्व । तदानीं त्रिविक्रमस्तमाचष्ट । मलयपर्वते गुणसागरसंज्ञः शुको ऽस्ति । तथा
हिमवतः शृङ्गे मलयवती नाम शारिका वर्तते । तौ द्वावपि मुनिशापतः पक्षिणावजायेताम् । तौ
द्वावानेतव्यौ । ततस्तौ भवतः पुत्राय उपदेशं दास्यतः । ततो हरदत्तो ऽवादीत् । तौ कथं पक्षिणौ
जातौ । केन दोषेण मुनिना शप्तौ । त्वमप्येतत्कथं जानीषे । तदेतद्वृत्तान्तमनस्तमितसामान्यं भवानवादीत् ।
तच्छ्रुत्वा त्रिविक्रमः शुकशारिकयोः प्रथमवृत्तान्तमभ्युदितवान् । आकर्णय मित्र राजवैश्यवर्य मानसं
सर उत्तरस्यां दिशि योजनमात्रे पर्वते निवसत्येकम् । तत्र चैकस्तपोनिधिनामधेयस्तपोधनो बहुभि-
र्मुनिभिरुपासितः समास्ते । स चैकस्मिन्दिने विद्याधननामानं शिष्यं देवार्चनाय पुष्पाण्याहर्तुं प्रातिष्ठिपत् ।
स मुनीश्वरस्याज्ञासमयमनन्तरमेव निरगात् ।
उक्तं च । बण्
सद्यो ऽपवादी रोगी च सप्तैतान्सेवकांस्त्यजेत् ॥
तथा ।
असंतुष्टं कृतघ्नं च त्यजेद्दुष्टं महीपतिः ॥
ततो ऽसौ पुष्पाहरणाय गच्छन्पथि पुष्पवाटिकामपश्यत् । दृष्ट्वा च तां पुष्पाण्युपचेतुमन्तः प्रावि
तत्र च घनसंपिण्डितपर्णपुञ्जसंपूरितं फलसमाहारात्समन्ततो नम्रं माकन्दतरुं मकरन्दरसोन्मदिष्णु-
मदनमङ्गलमहोदयं मनःसर्वस्वापहारकं लोचनगोचरं चकार । तस्य तले गन्धर्वमिथुनं ददर्श । सुरेश्व-
रपुरी गायको विश्वावसुसंज्ञको गन्धर्वराजः । तथा तस्य धर्मचारिणी मालावत्याह्वया । तद्द्वयमपि
क्रीडाकौतुकपरवशं विपञ्चीं गृहीत्वा मिलित्वा गानं कुर्वाणमभूत् । तयो
प्रादुरभूद्येन साक्षाच्छ्रीपार्वतीनाथश्चन्द्रमौलिरेव स्वयं परितुष्यति । तच्छ्रुत्वा स विद्याध
विस्मृत्य तदेवाकर्णयंस्तत्रैवातिष्ठत् ।