शुकसप्ततिः /69
This page has been fully proofread twice.
नमाजगाम । तदनूलूकराजानं व्याहार्षीत् । भवत्सु सर्वेषु विद्यमानेषु वायसाः संभूय मां तर्जयामासुः ।
तर्हि भवद्भिस्तेषां मन्निमित्तोंतो निष्कासनप्रकार :रः प्रत्यपकारस्य कर्तुं शक्यते यदि तर्हि क्रियताम् ।
ततस्तदीयं वचनं निशम्य सर्वे तज्जातीया बान्धवाः काकान्निहन्तुमुदचलन् । समागत्य तं वृक्षमवेष्टयन् ।
तत्रवसतीन्काकान्सर्वान्निजघ्नुः । तदनु सर्वे ऽप्युलूका निर्गत्य निजधानीं जग्मुः । तेषां मध्यादेको वायसो
ऽवततार । सर्वेषु मार्यमाणेषु काकेष्वसावेक एव कुत्रापि दलगहने निलीयात्मानं जुगोप । तदनु तदा -
स्कन्दनं दृष्ट्वा बलिपुष्टानामतिकष्टां दशां मनस्यनुभूय किंचिद्धैर्यमवलम्ब्य परामृश्य विमृश्य च विधेय -
विशेषं किमतः परं कर्तुं शक्यते । ते ऽस्मद्वैरिणो भूयांसः पूर्वकानां च वैरं केन बुद्धिविस्तरेण प्रतिकर्तुं
शक्येत । इत्यभिधाय तेषां निशादर्शिनामेव पार्श्वं वव्राज । तत्र गत्वा तेषां पुरस्तादपतत् । तदा तैर -
वादि । कस्त्वम् । सो ऽभ्यधात् । भवतां शरणमागतो ऽहं दासानुदासः । भवतामेव चरणान्मनसि धृत्वा
समायासिषम् । ये च दुष्टा भवतां वैरिणो ऽभूवंस्ते सर्वे भवद्भिस्तु व्यापादिताः । इदानीमहमेक एव
द्वारि स्थितो भवतां वरिवस्यां निर्वर्तयिष्यामि । निघ्नन्ति यदि निघ्नन्तु माम् । यदि वा गोपयन्ति
तदा गोपयन्तु । तदिति तस्य वचनं निशम्य केचिदवादिषु । अरिरयमस्माकमतीव विषमः । * * *
* * इति व्याजह्रुः । क्रममात्रो ऽयं तर्हि किं नामायं वराको वै करिष्यति काक इति तेषां पृथङ्मतीनां
वचोभिरन्तर्मायो ऽसौ तत्रैवातिष्ठत् । तदनु तत्र स्थित्वा तान्व्याहार्षीत् । मदीयः कश्चिदुपचारो भवतां
भवितव्यः । अहं भवतां कृते शय्यां साधीयसीं कल्पयिष्यामीत्यभिधाय शाल्मलतूलेन श्लक्ष्णेन तस्य
विटपिन:नः सर्वमपि कोटरं पूरितवान् । रात्रौ स्वयं द्वारि निवसति । इत्थं तृणादिसंग्रहं च सम्यक्कृ -
तवान् । तदनु कस्मिंश्चिद्दिने ज्वलन्तीं चितां विलोक्य तत्रत्यमलातमेकमाहृत्य कोटरद्वारि प्राक्षियपत् ।
कोटरान्तर्गततूलतृणादिकं दहनसादभवत् । समस्तानपि दिवान्धानधाक्षीत् । इत्थमसौ पूर्ववैरमसाधयत् ।
तर्हि सोमदत्त तादृशप्रकारो ममापि भविष्यति । येन समं पूर्ववैरमस्ति सो ऽपि न विश्वसनीयः ॥
इत्यष्टषष्टिकथा ॥ ६८ ॥
पुन:नः प्रभावती प्रष्टुं प्रावर्तत पतत्रिणम् । शुको ऽभ्यधात् । देवि तदा सा धूर्तचकोराभिहिता वार्त्ता
सोमदत्तस्य मानसे न स्थानमातनोति । तदनु सोमदत्तस्तं धूर्तचकोरं कामसेनासंनिधानं निनाय
कामसेनाहस्ते तत्पञ्जरं प्रादात् । सा च देवसेनां कुट्टिनीं प्रति तद्वृत्तान्तमभ्यधात् । तदनु तन्निशम्य
सा जगाद । अद्य मम ललाटतटघर्मः परामृष्टः । ततः प्रभाते कुट्टिनी राजमन्दिरमगादस्याः पुरस्ता -
दित्यावेद्य शुको ऽयं निहन्तव्यः । एतदीयं मांसं साधुरुचि पक्तव्यम् । इति तस्यै निदेशं दत्त्वा निरगात् ।
तदनु दासी कीरमानीय केशानुल्लुञ्चितुमाददार । तर्हि वावदीहि प्रभावति । स शुकः केन प्रकारेणा -
त्मानं जुगोप । तदा प्रभावती चारु विचारं कुर्वाणापि नाज्ञासीत् । तदनु तया पृष्टः शुकः पुनर्ज -
गाद । शृणु प्रभावति । तदा दासी मारणाय तमादृतवती । तदनु शुको दासींंसीं जगाद । त्वमतीव
साधीयसी । व्यसनं तव धर्मपरमेव । भवदीयौ हस्तौ प्राणिनां वधे भग्नोद्यमौ । तर्ह्यहं किमप्यनागतं
जानामि । तद्भवत्याः पुरस्तादावेदयामि तवैव हितम् । तदनु त्वं मां व्यापादय । तदन्ववादीद्दासी। ।
तर्ह्याचष्टां नाम भवान् । तदाभ्यधात्पक्षी । त्वमेतस्य मांसस्य मध्ये गरीयसीं संपदमवाप्स्यसि । त्वं यथा
चार्वङ्गी भविष्यसि तथौषधं दास्यामि पश्चाद्यास्यामि तव वशम् । तुलसीदलं कुशदर्भांश्चानय गोमयोप -
लिप्तायां भूमौ कुशानास्तीर्य तुलसीदलं गृहीत्वोपविश्य कंचन मन्त्रं स्मृत्वा तदौषधमाकर्षयिष्यामि ।
आत्मीयमायुरखिलमपि भवत्यै वितरिष्यामि त्वं शुचिर्भूत्वा समागच्छेत्यभिहिते शुकेन दासी तद्भेषजा -
कर्षदिदृक्षया तदुक्तं सर्वमनुतिष्ठति । तदनु तुलसीदलाद्यानेतुं गतां दासीं निरीक्ष्य शनैः शनैर्गत्वा
स्नानभूमिकायाः प्रणाल्या निर्गतवान् । इति ब्रुवन्ननैषीदनैषीन्मार्जार इति वीप्सावचनं वितन्वन्द्रुम -
कोटरमाजग्मिवान् । एतच्छब्दश्रवणात्तूर्णमागत्य दासी कीरं न पश्यति स्म । परितो दत्तदृष्टिरपि
तर्हि भवद्भिस्तेषां मन्निमित्
ततस्तदीयं वचनं निशम्य सर्वे तज्जातीया बान्धवाः काकान्निहन्तुमुदचलन् । समागत्य तं वृक्षमवेष्टयन् ।
तत्रवसतीन्काकान्सर्वान्निजघ्नुः । तदनु सर्वे ऽप्युलूका निर्गत्य निजधानीं जग्मुः । तेषां मध्यादेको वायसो
ऽवततार । सर्वेषु मार्यमाणेषु काकेष्वसावेक एव कुत्रापि दलगहने निलीयात्मानं जुगोप । तदनु तदा
स्कन्दनं दृष्ट्वा बलिपुष्टानामतिकष्टां दशां मनस्यनुभूय किंचिद्धैर्यमवलम्ब्य परामृश्य विमृश्य च विधेय
विशेषं किमतः परं कर्तुं शक्यते । ते ऽस्मद्वैरिणो भूयांसः पूर्वकानां च वैरं केन बुद्धिविस्तरेण प्रतिकर्तुं
शक्येत । इत्यभिधाय तेषां निशादर्शिनामेव पार्श्वं वव्राज । तत्र गत्वा तेषां पुरस्तादपतत् । तदा तैर
वादि । कस्त्वम् । सो ऽभ्यधात् । भवतां शरणमागतो ऽहं दासानुदासः । भवतामेव चरणान्मनसि धृत्वा
समायासिषम् । ये च दुष्टा भवतां वैरिणो ऽभूवंस्ते सर्वे भवद्भिस्तु व्यापादिताः । इदानीमहमेक एव
द्वारि स्थितो भवतां वरिवस्यां निर्वर्तयिष्यामि । निघ्नन्ति यदि निघ्नन्तु माम् । यदि वा गोपयन्ति
तदा गोपयन्तु । तदिति तस्य वचनं निशम्य केचिदवादिषु । अरिरयमस्माकमतीव विषमः । * * *
* * इति व्याजह्रुः । क्रममात्रो ऽयं तर्हि किं नामायं वराको वै करिष्यति काक इति तेषां पृथङ्मतीनां
वचोभिरन्तर्मायो ऽसौ तत्रैवातिष्ठत् । तदनु तत्र स्थित्वा तान्व्याहार्षीत् । मदीयः कश्चिदुपचारो भवतां
भवितव्यः । अहं भवतां कृते शय्यां साधीयसीं कल्पयिष्यामीत्यभिधाय शाल्मलतूलेन श्लक्ष्णेन तस्य
विटपि
तवान् । तदनु कस्मिंश्चिद्दिने ज्वलन्तीं चितां विलोक्य तत्रत्यमलातमेकमाहृत्य कोटरद्वारि प्राक्षि
कोटरान्तर्गततूलतृणादिकं दहनसादभवत् । समस्तानपि दिवान्धानधाक्षीत् । इत्थमसौ पूर्ववैरमसाधयत् ।
तर्हि सोमदत्त तादृशप्रकारो ममापि भविष्यति । येन समं पूर्ववैरमस्ति सो ऽपि न विश्वसनीयः ॥
इत्यष्टषष्टिकथा ॥ ६८ ॥
पु
सोमदत्तस्य मानसे न स्थानमातनोति । तदनु सोमदत्तस्तं धूर्तचकोरं कामसेनासंनिधानं निनाय
कामसेनाहस्ते तत्पञ्जरं प्रादात् । सा च देवसेनां कुट्टिनीं प्रति तद्वृत्तान्तमभ्यधात् । तदनु तन्निशम्य
सा जगाद । अद्य मम ललाटतटघर्मः परामृष्टः । ततः प्रभाते कुट्टिनी राजमन्दिरमगादस्याः पुरस्ता
दित्यावेद्य शुको ऽयं निहन्तव्यः । एतदीयं मांसं साधुरुचि पक्तव्यम् । इति तस्यै निदेशं दत्त्वा निरगात् ।
तदनु दासी कीरमानीय केशानुल्लुञ्चितुमाददार । तर्हि वावदीहि प्रभावति । स शुकः केन प्रकारेणा
त्मानं जुगोप । तदा प्रभावती चारु विचारं कुर्वाणापि नाज्ञासीत् । तदनु तया पृष्टः शुकः पुनर्ज
गाद । शृणु प्रभावति । तदा दासी मारणाय तमादृतवती । तदनु शुको दा
साधीयसी । व्यसनं तव धर्मपरमेव । भवदीयौ हस्तौ प्राणिनां वधे भग्नोद्यमौ । तर्ह्यहं किमप्यनागतं
जानामि । तद्भवत्याः पुरस्तादावेदयामि तवैव हितम् । तदनु त्वं मां व्यापादय । तदन्ववादीद्दासी
तर्ह्याचष्टां नाम भवान् । तदाभ्यधात्पक्षी । त्वमेतस्य मांसस्य मध्ये गरीयसीं संपदमवाप्स्यसि । त्वं यथा
चार्वङ्गी भविष्यसि तथौषधं दास्यामि पश्चाद्यास्यामि तव वशम् । तुलसीदलं कुशदर्भांश्चानय गोमयोप
लिप्तायां भूमौ कुशानास्तीर्य तुलसीदलं गृहीत्वोपविश्य कंचन मन्त्रं स्मृत्वा तदौषधमाकर्षयिष्यामि ।
आत्मीयमायुरखिलमपि भवत्यै वितरिष्यामि त्वं शुचिर्भूत्वा समागच्छेत्यभिहिते शुकेन दासी तद्भेषजा
कर्षदिदृक्षया तदुक्तं सर्वमनुतिष्ठति । तदनु तुलसीदलाद्यानेतुं गतां दासीं निरीक्ष्य शनैः शनैर्गत्वा
स्नानभूमिकायाः प्रणाल्या निर्गतवान् । इति ब्रुवन्ननैषीदनैषीन्मार्जार इति वीप्सावचनं वितन्वन्द्रुम
कोटरमाजग्मिवान् । एतच्छब्दश्रवणात्तूर्णमागत्य दासी कीरं न पश्यति स्म । परितो दत्तदृष्टिरपि