शुकसप्ततिः /68
This page has been fully proofread twice.
पेशीद्वयमानीय भस्मना पूरयित्वोपरि राजमुद्रया मुद्रयित्वा देवशर्माणमाहूय त्वया शत्रुसूदनमे -
दिनीपतिसमीपं गत्वा एलराजेन वार्षिको दण्डः प्रस्थापितो ऽस्तीति अभिधाय तस्मै दातव्यमदः
पेशीद्वयमित्युक्त्वा पेशिके ते देवशर्मणः पाणावर्पयामास । तेन राज्ञा समं सौजन्यमतितरामैधिष्ट ।
तथा विधातव्यं भवतेति व्याहृत्य देवशर्माणं व्यस्राक्षीदेलमहीपतिः । तदा तदादेशाच्छत्रुसूदनमहीन्द्रं
संगत्य तस्य पुरस्तात्पेशिकाद्वयं निधाय विज्ञप्तवान् । अमुं वार्षिककरमेलमहीपतिर्भवतां प्रस्थापया -
मास । इत्यभिधाय मुद्रामुन्मुच्य पश्यति पेशीद्वयं यावता तावता भसितपूरितान्तरमालक्ष्य शत्रुसूदनो
मेदिनीपतिः कोपपरवशो भूत्वा शिष्टस्य शिरश्छेत्तुं मतिमकार्षीत् । तर्ह्याचाचक्ष्व प्रभावति । तथाविधे
तस्मिन्समये देवशर्मा कं प्रकारमचीकरत् । ततस्तन्निशम्य प्रभावती विचारचातुर्यं बिभ्राणापि ना -
विन्दत । तदानीमतीतायां तमस्विन्यां शुकमन्वयुङ्क्त । ततः शुको व्याजहार । तदानीं देवशर्माभिधत्ते ।
देवास्मदीयो महीपालो यज्ञमकार्षीत् । तत्कुण्डसंभवां विभूतिं भवतामर्थे प्रस्थापितवान् । विभूतिरियं
यत्र विद्यते तत्र दैवदशा राज्याभ्युदयश्च युगपत्संभवतः । ग्रहपीडाश्च नश्यन्ति । शत्रवो ऽपि मित्राणि
भवन्ति । आयुश्च वर्धते । एतावन्तो गुणा विभूतेरस्या इत्यवधार्य एलामहीपालो युष्मत्कृते प्राहिणोत् ।
तदनु दूतोदितं निशम्य सम्यकक्समतुष्यत् शत्रुसूदनः । ववन्दे विभूतिं राज्ञीकुमारिकाणां मूर्ध्नि प्रा -
क्षिपत् । राजा तं देवशर्माामाणं यथावत्संभावयामास । तर्हि व्याहरतात् । प्रभावति त्वमप्येतादृशमुत्तरं
दातुमीशिषे यदि तदा मनीषितं कुरु ॥
इति त्रिषष्टिकथा ॥ ६३ ॥
पुनः प्रभावती अभाषत नभोगं शुको ऽप्यवदत् । देवि सुमतिरिव संकीर्णनिस्तरणोपायं यदि वेत्स्यसि
तदाभिसार आद्रियताम् । प्रभावत्या पृष्टस्तद्वृत्तान्तं शुको ऽपि रराण । आकर्णय देवि । मङ्गलपुरनाम्नि
ग्रामे सुमतिर्नाम विपणिः । स धनार्जनायोद्यममुद्दिश्य प्रदेशविशेषे कुत्रचिद्गतो ऽभवत् । तत्र भूरिधन -
मार्जितवान्सधनः समागच्छन्मध्यमार्गे दस्यूनद्राक्षीत् । तर्हि प्रभावति व्याहर । तदा स कथंकारमुपाय -
विशेषं विशेषयति स्म । तदा प्रभावती विचार्य नाज्ञासीत् । तदा प्रातः शुकमप्राक्षीत् । शुको ऽप्यवोचत् ।
देवि निशम्यावधत्स्व । स तु दस्यून्दृष्ट्वा समीपस्थितं गणेशप्रासादं प्राविक्षत् । तत्र गणेशमूर्तेः पुरस्ता -
दुपविश्य द्रविणपेटिकां विवृत्य तदन्तःस्थितं धनं बहिर्विधाय पञ्चकीकरणेन पङ्क्तिषु तद्धनं त्यक्तवान् ।
ततो घटिकां गृहीत्वा गणाधिपमभ्यधाद्वक्ष्यमाणप्रकारेण । देव विघ्नराज इदमात्मीयं धनं गृहाण ।
इदमेतावत्प्रथतो भवतो धनम् । अयं लाभो जातः । अनेनैव संचरतः चत्वारि हायनान्यजायन्त मम
भवदीयां सेवां कुर्ववाणस्य । अहं च तव वाणिज्यकर्ता सत्यमसत्यं सेवां तावज्जानानो ऽस्मि । मदीया
सेवा भवदायत्ता । एतादृशानि वचांसि दस्यव अश्रौषुः । ततः परस्परमभिदधिरे । अयं वणिक् देवस्य
वचनकर्ता । एनं यदि निरीक्षामः तदानीं देवो ऽप्यस्माकमुपरि कमपि तादृशं विघ्नमापादयिष्यति
यादृशेनास्माकं सर्वनाशो भविता । इत्यभिधाय वणिजं/ तत्यजुः । यदि प्रभावति त्वमपीदृशोपाय -
करणविचक्षणासि तदा साधयेप्सितम् ॥
इति चतुःषष्टिकथा ॥ ६४।॥
* * * तस्मिन्वटे उलूका निवसन्ति । कदाचन रात्रौ पारणाय निरगुः समन्ततः । तेषां मध्यादेकोलूको
भ्रान्तो मार्गं विहायैकस्य वटस्योपरि पर्यपतत् । तदा तत्र दिवसो ऽजायत भानुरप्युदयाचलमारुरोह ।
दिवान्धो गृह्णाति नासौ रूपं चक्षुर्भ्याम् । तदा वटस्योपरि काका अभूवन् । तैः पराभूतो ऽसावुलूको
जीवशेषो आपादितः । तदनु मृतो ऽयमित्यभिधाय तत्यजुस्ते उलूकम् । ततः शनैः शनैरुलूको निजस्था -
दिनीपतिसमीपं गत्वा एलराजेन वार्षिको दण्डः प्रस्थापितो ऽस्तीति अभिधाय तस्मै दातव्यमदः
पेशीद्वयमित्युक्त्वा पेशिके ते देवशर्मणः पाणावर्पयामास । तेन राज्ञा समं सौजन्यमतितरामैधिष्ट ।
तथा विधातव्यं भवतेति व्याहृत्य देवशर्माणं व्यस्राक्षीदेलमहीपतिः । तदा तदादेशाच्छत्रुसूदनमहीन्द्रं
संगत्य तस्य पुरस्तात्पेशिकाद्वयं निधाय विज्ञप्तवान् । अमुं वार्षिककरमेलमहीपतिर्भवतां प्रस्थापया
मास । इत्यभिधाय मुद्रामुन्मुच्य पश्यति पेशीद्वयं यावता तावता भसितपूरितान्तरमालक्ष्य शत्रुसूदनो
मेदिनीपतिः कोपपरवशो भूत्वा शिष्टस्य शिरश्छेत्तुं मतिमकार्षीत् । तर्ह्या
तस्मिन्समये देवशर्मा कं प्रकारमचीकरत् । ततस्तन्निशम्य प्रभावती विचारचातुर्यं बिभ्राणापि ना
विन्दत । तदानीमतीतायां तमस्विन्यां शुकमन्वयुङ्क्त । ततः शुको व्याजहार । तदानीं देवशर्माभिधत्ते ।
देवास्मदीयो महीपालो यज्ञमकार्षीत् । तत्कुण्डसंभवां विभूतिं भवतामर्थे प्रस्थापितवान् । विभूतिरियं
यत्र विद्यते तत्र दैवदशा राज्याभ्युदयश्च युगपत्संभवतः । ग्रहपीडाश्च नश्यन्ति । शत्रवो ऽपि मित्राणि
भवन्ति । आयुश्च वर्धते । एतावन्तो गुणा विभूतेरस्या इत्यवधार्य एलामहीपालो युष्मत्कृते प्राहिणोत् ।
तदनु दूतोदितं निशम्य सम्य
क्षिपत् । राजा तं देवशर्
दातुमीशिषे यदि तदा मनीषितं कुरु ॥
इति त्रिषष्टिकथा ॥ ६३ ॥
पुनः प्रभावती अभाषत नभोगं शुको ऽप्यवदत् । देवि सुमतिरिव संकीर्णनिस्तरणोपायं यदि वेत्स्यसि
तदाभिसार आद्रियताम् । प्रभावत्या पृष्टस्तद्वृत्तान्तं शुको ऽपि रराण । आकर्णय देवि । मङ्गलपुरनाम्नि
ग्रामे सुमतिर्नाम विपणिः । स धनार्जनायोद्यममुद्दिश्य प्रदेशविशेषे कुत्रचिद्गतो ऽभवत् । तत्र भूरिधन
मार्जितवान्सधनः समागच्छन्मध्यमार्गे दस्यूनद्राक्षीत् । तर्हि प्रभावति व्याहर । तदा स कथंकारमुपाय
विशेषं विशेषयति स्म । तदा प्रभावती विचार्य नाज्ञासीत् । तदा प्रातः शुकमप्राक्षीत् । शुको ऽप्यवोचत् ।
देवि निशम्यावधत्स्व । स तु दस्यून्दृष्ट्वा समीपस्थितं गणेशप्रासादं प्राविक्षत् । तत्र गणेशमूर्तेः पुरस्ता
दुपविश्य द्रविणपेटिकां विवृत्य तदन्तःस्थितं धनं बहिर्विधाय पञ्चकीकरणेन पङ्क्तिषु तद्धनं त्यक्तवान् ।
ततो घटिकां गृहीत्वा गणाधिपमभ्यधाद्वक्ष्यमाणप्रकारेण । देव विघ्नराज इदमात्मीयं धनं गृहाण ।
इदमेतावत्प्रथतो भवतो धनम् । अयं लाभो जातः । अनेनैव संचरतः चत्वारि हायनान्यजायन्त मम
भवदीयां सेवां कुर्
सेवा भवदायत्ता । एतादृशानि वचांसि दस्यव अश्रौषुः । ततः परस्परमभिदधिरे । अयं वणिक् देवस्य
वचनकर्ता । एनं यदि निरीक्षामः तदानीं देवो ऽप्यस्माकमुपरि कमपि तादृशं विघ्नमापादयिष्यति
यादृशेनास्माकं सर्वनाशो भविता । इत्यभिधाय वणिजं
करणविचक्षणासि तदा साधयेप्सितम् ॥
इति चतुःषष्टिकथा ॥ ६४
* * * तस्मिन्वटे उलूका निवसन्ति । कदाचन रात्रौ पारणाय निरगुः समन्ततः । तेषां मध्यादेकोलूको
भ्रान्तो मार्गं विहायैकस्य वटस्योपरि पर्यपतत् । तदा तत्र दिवसो ऽजायत भानुरप्युदयाचलमारुरोह ।
दिवान्धो गृह्णाति नासौ रूपं चक्षुर्भ्याम् । तदा वटस्योपरि काका अभूवन् । तैः पराभूतो ऽसावुलूको
जीवशेषो आपादितः । तदनु मृतो ऽयमित्यभिधाय तत्यजुस्ते उलूकम् । ततः शनैः शनैरुलूको निजस्था