This page has been fully proofread once and needs a second look.

382
 
पेशीद्वयमानीय भस्मना पूरयित्वोपरि राजमुद्रया मुद्रयित्वा देवशर्माणमाहूय त्वया शत्रुसूदनमे -

दिनीपतिसमीपं गत्वा एलराजेन वार्षिको दण्डः प्रस्थापितो ऽस्तीति अभिधाय तस्मै दातव्यमदः

पेशीद्वयमित्युत्काक्त्वा पेशिके ते देवशर्मणः पाणावर्पयामास । तेन राज्ञा समं सौजन्यमतितरामैधिष्ट ।

तथा विधातव्यं भवतेति व्याहृत्य देवशमीर्माणं व्यस्राक्षीदेलमहीपतिः । तदा तदादेशाच्छनुत्रुसूदनमहीन्द्रं
5

संगत्य तस्य पुरस्तात्पेशिकाद्वयं निधाय विज्ञप्तवान् । अमुं वार्षिककर मेलमहीपतिर्भवतां प्रस्थापया -

मास । इत्यभिधाय मुद्रामुन्युमुच्य पश्यति पेशीद्वयं यावता तावता भसितपूरितान्तरमालक्ष्य शत्रुसूदनो

मेदिनीपतिः कोपपरवशीशो भूत्वा शिष्टस्य शिर श्छेत्तुं मतिमकार्षीत् । तर्ह्याचाक्ष्व प्रभावति । तथाविधे

तस्मिन्समये देवशर्मा कं प्रकारमचीकरत् । ततस्तन्निशम्य प्रभावती विचारचातुर्यं बिभ्राणापि ना -

विन्दत । तदानीमतीतायां तमस्विन्यां शुकमन्वयुङ्क्त । ततः शुको व्याजहार । तदानीं देवशर्माभिधत्ते ।
10

देवास्मदीयो महीपालो यज्ञमकार्षीत् । तत्कुण्डसंभवां विभूतिं भवतामर्थे प्रस्थापितवान् । विभूतिरियं

यत्र विद्यते तत्र दैवदशा राज्याभ्युदयश्च युगपत्संभवतः । ग्रहपीडाश्च श्यन्ति । शत्रवोsपि मित्राणि

भवन्ति । आयुञ्श्च वर्धते । एतावन्तो गुणा विभूतेरस्या इत्यवधार्य एलामहीपालो युष्मत्कृते प्राहिणोत् ।

तदनु दूतोदितं निशम्य सम्यकसमतुष्यत् शत्रुसूदनः । ववन्दे विभूतिं राज्ञीकुमारिकाणां मूर्ध्नि प्रा -

क्षिपत् । राजा तं देवशर्मााणं यथावत्संभावयामास । तर्हि व्याहरतात् । प्रभावति त्वमप्येतादृशमुत्तरं
15

दातुमीशिषे यदि तदा मनीषितं कुरु ॥
 

इति त्रिषष्टिकथा ॥ ६३ ॥
 

 
पुनः प्रभावती अभाषत नभोगं शुको ऽप्यवदत् । देवि सुमतिरिव संकीर्णनिस्तरणोपायं यदि वेत्स्यसि

तदाभिसार आद्रियताम् । प्रभावत्या पृष्टस्तद्वृत्तान्तं शुको ऽपि रराण । आकर्णय देवि । मङ्गलपुरनाम्नि

ग्रामे सुमतिनीर्नाम विपणिः । स धनार्जनायोद्यममुद्दिश्य प्रदेशविशेषे कुत्रचिद्गतो ऽभवत् । तत्र भूरिधन -
20

मार्जितवान्सधनः समागच्छन्मध्यमार्गे दस्यूनद्राक्षीत् । तर्हि प्रभावति व्याहर । तदा स कथंकारमुपाय -

विशेषं विशेषयति स्म। तदा प्रभावती विचार्य बाजानाज्ञासीत् । तदा प्रातः शुकमप्राज्ञीक्षीत् । शुको ऽप्यवोचत् ।

देवि निशम्यावधत्स्व । स तु दस्यून्दृष्ट्वा समीपस्थितं गणेशप्रासादं प्राविक्षत् । तत्र गणेशमूर्तेः पुरस्ता -

दुपविश्य द्रविणपेटिकां विवृत्य तदन्तःस्थितं धनं बहिर्विधाय पञ्चकीकरणेन पकिङ्क्तिषु तद्धनं त्यक्तवान् ।

ततो घटिकां गृहीत्वा गणाधिपमभ्यधाद्वक्ष्यमाणप्रकारेण । देव विघ्नराज इदमात्मीयं धनं गृहाण ।
26 द्द्

दमेतावत्प्रथतो भवतो धनम् । अयं लाभो जातः । अनेनैव संचरतः चत्वारि हायनान्यजायन्त मम

भवदीयां सेवां कुर्वणस्य । अहं च तव वाणिज्य तीर्ता सत्यमसत्यं सेवां तावज्जामानानो ऽस्मि । मदीया

सेवा भवदायत्ता । एतादृशानि वचांसि दस्यव अश्रीरौषुः । ततः परस्परमभिदधिरे । अयं वणिक् देवस्य

वचनकर्ता । एनं यदि निरीक्षामः तदानीं देवो ऽप्यस्माकमुपरि कमपि तादृशं विघ्नमापादयिष्यति

यादृशेनास्माकं सर्वनाशो भविता । इत्यभिधाय वणिजं / तत्यजुः । यदि प्रभावति त्वमपीदृशोपाय -
30

करणविचक्षणासि तदा साधयेप्सितम् ॥
 

इति चतुःषष्टिकथा ॥ ६४ ।
 

 
*
 
*
 
* * * तस्मिन्वटे उलूका निवसन्ति । कदाचन रात्रीरौ पारणाय निरगुः समन्ततः । तेषां मध्यादेकोलूको

भ्रान्तो मार्गं विहायैकस्य वटस्योपरि पर्यपतत् । तदा तत्र दिवसो ऽज्जायत भानुरप्युदयाचलमारुरोह ।

दिवान्धो गृह्णाति नासौ रूपं चक्षुर्म्यभ्याम् । तदा वटस्योपरि काका अभूवन् । तैः पराभूतो ऽसावुलूको
36

जीवशेषो आपादितः । तदनु मृतो ऽयमित्यभिधाय तत्जुस्ते उलूकम् । ततः शनैः शनैरुलूको निजस्था -