This page has not been fully proofread.

382
 
पेशीद्वयमानीय भस्मना पूरयित्वोपरि राजमुद्रया मुद्रयित्वा देवशर्माणमाहय त्वया शत्रुसूदनमे-
दिनीपतिसमीपं गत्वा एलराजेन वार्षिको दण्ड प्रस्थापितो ऽस्तीति अभिधाय तस्मै दातव्यमदः
पेशीद्वयमित्युत्का पेशिके ते देवशर्मणः पाणावर्पयामास । तेन राज्ञा समं सौजन्यमतितरामैधिष्ट ।
तथा विधातव्यं भवतेति व्याहृत्य देवशमीणं व्यस्राक्षीदेलमहीपतिः । तदा तदादेशाच्छनुसूदनमहीन्द्रं
5 संगत्य तस्य पुरस्तात्पेशिकाद्वयं निधाय विज्ञप्तवान् । अमुं वार्षिककर मेलमहीपतिर्भवतां प्रस्थापया-
मास । इत्यभिधाय मुद्रामुन्युच्य पश्यति पेशीद्वयं यावता तावता भसितपूरितान्तरमालक्ष्य शत्रुसूदनो
मेदिनीपतिः कोपपरवशी भूत्वा शिष्टस्य शिर छेत्तुं मतिमकार्षीत् । तर्ह्याचा प्रभावति । तथाविधे
तस्मिन्समये देवशर्मा कं प्रकारमचीकरत् । ततस्तन्निशम्य प्रभावती विचारचातुर्य बिभ्राणापि ना-
विन्दत । तदानीमतीतायां तमस्विन्यां शुकमन्वयुत । ततः शुको व्याजहार । तदानीं देवशर्माभिधत्ते ।
10 देवास्मदीयो महीपालो यज्ञमकार्षीत् । तत्कुण्डसंभवां विभूतिं भवतामर्थे प्रस्थापितवान् । विभूतिरियं
यत्र विद्यते तत्र दैवदशा राज्याभ्युदयश्च युगपत्संभवतः । ग्रहपीडाश्च मश्यन्ति । शत्रवोsपि मित्राणि
भवन्ति । आयुञ्च वर्धते । एतावन्तो गुणा विभूतेरस्या इत्यवधार्य एलामहीपालो युष्मत्कृते प्राहिणोत् ।
तदनु दूतोदितं निशम्य सम्यकसमतुष्यत् शत्रुसूदनः । ववन्दे विभूतिं राज्ञीकुमारिकाणां मूर्ध्नि प्रा-
क्षिपत् । राजा तं देवशर्मााणं यथावत्संभावयामास । तर्हि व्याहरतात् । प्रभावति त्वमप्येतादृशमुत्तरं
15 दातुमीशिषे यदि तदा मनीषितं कुरु ॥
 
इति त्रिषष्टिकथा ॥ ६३ ॥
 
पुनः प्रभावती अभाषत नभोगं शुको ऽप्यवदत् । देवि सुमतिरिव संकीर्णनिस्तरणोपायं यदि वेत्स्यसि
तदाभिसार आद्रियताम् । प्रभावत्या पृष्टस्तद्वृत्तान्तं शुको ऽपि रराण । आकर्णय देवि । मङ्गलपुरनाम्नि
ग्रामे सुमतिनीम विपणिः । स धनार्जनायोद्यममुद्दिश्य प्रदेशविशेषे कुत्रचिद्गतो ऽभवत् । तत्र भूरिधन-
20 मार्जितवान्सधनः समागच्छन्मध्यमार्गे दस्यनद्राक्षीत् । तर्हि प्रभावति व्याहर । तदा स कथंकारमुपाय-
विशेषं विशेषयति स्म। तदा प्रभावती विचार्य बाजासीत् । तदा प्रातः शुकमप्राज्ञीत् । शुको ऽप्यवोचत् ।
देवि निशम्यावधत्स्व । स तु दस्यून्दृष्ट्वा समीपस्थितं गणेशप्रासादं प्राविक्षत । तत्र गणेशमूर्तेः पुरस्ता-
दुपविश्य द्रविणपेटिकां विवृत्य तदन्तःस्थितं धनं बहिर्विधाय पञ्चकीकरणेन पकिषु तद्धनं त्यक्तवान् ।
ततो घटिकां गृहीत्वा गणाधिपमभ्यधाद्वयमाणप्रकारेण । देव विघ्नराज इदमात्मीयं धनं गृहाण ।
26 द्द्दमेतावत्प्रथतो भवतो धनम् । अयं लाभो जातः । अनेनैव संचरतः चत्वारि हायनान्यजायन्त मम
भवदीयां सेवां कुर्वणस्य । अहं च तव वाणिज्य कती सत्यमसत्यं सेवां तावज्जामानो ऽस्मि । मदीया
सेवा भवदायत्ता । एतादृशानि वचांसि दस्यव अश्रीषुः । ततः परस्परमभिदधिरे । अयं वणिक् देवस्य
वचनकर्ता । एनं यदि निरीक्षामः तदान देवो ऽप्यस्माकमुपरि कमपि तादृशं विघ्नमापादयिष्यति
यादृशेनास्माकं सर्वनाशो भविता । इत्यभिधाय वणिजं / तत्यजुः । यदि प्रभावति त्वमपीदृशोपाय-
30 करणविचक्षणासि तदा साधयेप्सितम् ॥
 
इति चतुःषष्टिकथा ॥ ६४ ।
 
*
 
*
 
* * * तस्मिन्वटे उलका निवसन्ति । कदाचन रात्री पारणाय निरगुः समन्ततः । तेषां मध्यादेकोलको
भ्रान्तो मार्ग विहायैकस्य वटस्योपरि पर्यपतत् । तदा तत्र दिवसो ऽज्जायत भानुरप्युदयाचलमारुरोह ।
दिवान्धो गृह्णाति नासौ रूपं चक्षुर्म्यम् । तदा वटस्योपरि काका अभूवन । तैः पराभूतो ऽसावुलको
36 जीवशेषो आपादितः । तदनु मृतो ऽयमित्यभिधाय तत्वजुस्ते उलकम् । ततः शनैः शनैरुलको निजस्था-