शुकसप्ततिः /67
This page has been fully proofread twice.
मदीयं विरुदं जगति प्रसिद्धम् । तदीयं वचनमाकर्ण्य चोराः क्षणं स्थित्वा तं विहायैव यथागतं
निरगुः । तर्हि प्रभावत्येवंविधं बुद्धिवैभवं जानासि यदि तदा साधय ॥
इत्येकषष्टिकथा ॥ ६१ ॥
पुन:नः प्रभावती प्रष्टुं प्रावर्तत शुकम् । शुको ऽभ्यधात्प्रभावतीम् । भुक्कुण्डवदात्मनो मरणमन्यथा कर्तुं
जानीषे यदि तदाङ्गीकरोतु भवती । तदा प्रभावती पप्रच्छ । भुक्कुण्ड इति को नामासौ । कथं मर -
णमन्यथयत् । तद्वृत्तान्तं व्याहरतां भवान् । प्रभावतीं प्रत्यवदच्छुकः । शृणु प्रभावति । सर्वतोभद्रं नाम
नगरम् । तत्र भुक्कुण्डनामा कितवो निवसति स च सर्वदा द्यूतेनद्वीप्य<error>इईप्य</error><fix>दीव्य</fix>ति । एकस्मिन्दिने दीव्यन्प्र -
तिकितवैः पराजितः । तेषामङ्गीकृतपणार्पणाय न किमप्यस्ति । तदानीं चौर्याय प्रायतत । तदा चौर्यं
कुर्वाणो रात्रिरक्षकैर्विधृतो ऽसौ । ते च तं राजसमक्षमानिन्युः । राजा च वधाय भटानादिष्टवान् ।
गच्छतैनं नीत्वा शूलप्रोतं कुरुत । तर्हि प्रभावति भवत्यपि व्याहरतु । केन प्रकारेणात्मनो मरणमन्यथयत् ।
तदा प्रभावती विचारवत्यपि नाज्ञासीत् । तदाप्राक्षोषीच्छुकम् । सो ऽब्रवीत् । आकर्णय प्रभावति । तदा
तांस्तस्करो ऽभिहितवान् । राजा व्यापादयितुमुदितवानस्ति । यतो राज्ञामेव स्वाभाविको ऽयं धर्मः
परिपालयितव्यो दुष्टाश्च नियमनीया इत्येतादृशं सारासारं विचारयति महीपतिः । तदानीमसावै -
हिकेनामुष्मिकेण च सुकृतेन संयुज्यते । अत एव मयि दण्डं पातितवान् । तत्सम्यगुचितं कृतवानसि ।
परं विज्ञप्तिरेका विद्यते । अहं श्लोकमेकं व्याहरामि तदाकर्णनायावधानं दातव्यम् ।
भट्टिर्नष्टो भारविश्चापि नष्टो भिक्षुर्नष्टो भीमसेनो ऽपि नष्टः ।
भुक्कुण्डो ऽहं भूपतिस्त्वं हि राजन्पङ्क्तौ भस्याप्यन्तकः संनिविष्टः ॥
राजा एतस्य पद्यस्यार्थं व्याख्याहीति व्याजहार । ततो दस्युरवदत् । श्लोको ऽयं भविष्योत्तरपुराणे ।
एतस्यायमर्थः । तेषामादिवर्णी भकारः तेषु नामसु परिपाट्यामन्तकः संनिविष्टः । भट्टाचार्यमपि कलि -
तवान्कालः । तदनु भारविमपि निगीर्णवान्कालः । भिक्षुं तथा भीमसेनं च कलितवान्कालः । एतांश्चतुरो
ऽप्यग्रहीत्कालः । भुक्कुण्ड इति मदीयं नाम भूपतिरिति त्वदीयं नाम । मयि निहते त्वमेक एवाव -
शिष्टो ऽसि । यावदहं भवतः पुरतो भवामि न तावत्कालकलितं भयम् । यथा जानासि तथानुसंधेहि ।
तदनु नृपतिस्तदाकर्ण्य मनस्येवमेवेति निश्चित्य तं चोरममोचयत् । तर्हि प्रभावति एतादृशमुपायविशेषं
यदि जानीषे तर्हि विधेहि विधेयविशेषम् ॥
इति द्विषष्टिकथा ॥ ६२ ॥
पुनरपि निशासमये विनयकन्दर्पसंनिधानगमनाय प्रेरयामास पतत्रिणं प्रभावती । तदा शुको ऽप्य -
भिदधे। । देवि देवशर्मवत्संकीर्णावसरापाते यद्युत्तरं कर्तुं पारयसि तदा याहि । तदा प्रभावती बभाषे ।
देवशर्मा कथं संकीर्णं निस्तीर्णवानुत्तरविशेषकल्पनेन । व्याचष्टां भवानिति तया पृष्टः शुको व्याचष्टे ।
प्रभावति एलानगर्यामेलनामधेयो राजा राज्यं प्रशास्ति । तस्य संधिविग्रहकारी शिष्ट एको ऽभवत् ।
तस्य तनयो देवशर्मा । स तु पितरि प्रमीते स्वकीयं पौर्वापर्यमनपेक्ष्यानिरर्गलो यथारुचि व्यवहर्तुं
प्रयतते । केषांचिदपि वर्षीयसां वचनं न शृणोति । तदन्वेलमहीपतिस्तमवजानाति स्म । राजा तस्मै न
किमपि प्रयच्छति । इत्थं धनहारिभिः सीदत्कुटुम्बो ऽतीव क्षामतामापन्नः । ततो ऽमात्यो राजानं
विज्ञप्तवान्। । देव देवशर्मासौ श्रीमताममात्यभूतः । एतस्य चिन्ता न कर्तव्या । एतस्य कस्मिन्नपि कार्य -
विशेषे विनियोगो दातव्यः । यदि तद्विधेयं सत्तया समर्थितं तदानीं पुरस्तादेतदङ्गीकारं पुरस्कृत्या -
जीविका कल्पनीया । तदानीममात्यवचनान्नगरनाथो निजप्रयोजनसाधनाय तमादिदेश । तस्मिन्पश्यति
निरगुः । तर्हि प्रभावत्येवंविधं बुद्धिवैभवं जानासि यदि तदा साधय ॥
इत्येकषष्टिकथा ॥ ६१ ॥
पु
जानीषे यदि तदाङ्गीकरोतु भवती । तदा प्रभावती पप्रच्छ । भुक्कुण्ड इति को नामासौ । कथं मर
णमन्यथयत् । तद्वृत्तान्तं व्याहरतां भवान् । प्रभावतीं प्रत्यवदच्छुकः । शृणु प्रभावति । सर्वतोभद्रं नाम
नगरम् । तत्र भुक्कुण्डनामा कितवो निवसति स च सर्वदा द्यूतेन
तिकितवैः पराजितः । तेषामङ्गीकृतपणार्पणाय न किमप्यस्ति । तदानीं चौर्याय प्रायतत । तदा चौर्यं
कुर्वाणो रात्रिरक्षकैर्विधृतो ऽसौ । ते च तं राजसमक्षमानिन्युः । राजा च वधाय भटानादिष्टवान् ।
गच्छतैनं नीत्वा शूलप्रोतं कुरुत । तर्हि प्रभावति भवत्यपि व्याहरतु । केन प्रकारेणात्मनो मरणमन्यथयत् ।
तदा प्रभावती विचारवत्यपि नाज्ञासीत् । तदाप्राक्
तांस्तस्करो ऽभिहितवान् । राजा व्यापादयितुमुदितवानस्ति । यतो राज्ञामेव स्वाभाविको ऽयं धर्मः
परिपालयितव्यो दुष्टाश्च नियमनीया इत्येतादृशं सारासारं विचारयति महीपतिः । तदानीमसावै
हिकेनामुष्मिकेण च सुकृतेन संयुज्यते । अत एव मयि दण्डं पातितवान् । तत्सम्यगुचितं कृतवानसि ।
परं विज्ञप्तिरेका विद्यते । अहं श्लोकमेकं व्याहरामि तदाकर्णनायावधानं दातव्यम् ।
भट्टिर्नष्टो भारविश्चापि नष्टो भिक्षुर्नष्टो भीमसेनो ऽपि नष्टः ।
भुक्कुण्डो ऽहं भूपतिस्त्वं हि राजन्पङ्क्तौ भस्याप्यन्तकः संनिविष्टः ॥
राजा एतस्य पद्यस्यार्थं व्याख्याहीति व्याजहार । ततो दस्युरवदत् । श्लोको ऽयं भविष्योत्तरपुराणे ।
एतस्यायमर्थः । तेषामादिवर्णी भकारः तेषु नामसु परिपाट्यामन्तकः संनिविष्टः । भट्टाचार्यमपि कलि
तवान्कालः । तदनु भारविमपि निगीर्णवान्कालः । भिक्षुं तथा भीमसेनं च कलितवान्कालः । एतांश्चतुरो
ऽप्यग्रहीत्कालः । भुक्कुण्ड इति मदीयं नाम भूपतिरिति त्वदीयं नाम । मयि निहते त्वमेक एवाव
शिष्टो ऽसि । यावदहं भवतः पुरतो भवामि न तावत्कालकलितं भयम् । यथा जानासि तथानुसंधेहि ।
तदनु नृपतिस्तदाकर्ण्य मनस्येवमेवेति निश्चित्य तं चोरममोचयत् । तर्हि प्रभावति एतादृशमुपायविशेषं
यदि जानीषे तर्हि विधेहि विधेयविशेषम् ॥
इति द्विषष्टिकथा ॥ ६२ ॥
पुनरपि निशासमये विनयकन्दर्पसंनिधानगमनाय प्रेरयामास पतत्रिणं प्रभावती । तदा शुको ऽप्य
भिदधे
देवशर्मा कथं संकीर्णं निस्तीर्णवानुत्तरविशेषकल्पनेन । व्याचष्टां भवानिति तया पृष्टः शुको व्याचष्टे ।
प्रभावति एलानगर्यामेलनामधेयो राजा राज्यं प्रशास्ति । तस्य संधिविग्रहकारी शिष्ट एको ऽभवत् ।
तस्य तनयो देवशर्मा । स तु पितरि प्रमीते स्वकीयं पौर्वापर्यमनपेक्ष्यानिरर्गलो यथारुचि व्यवहर्तुं
प्रयतते । केषांचिदपि वर्षीयसां वचनं न शृणोति । तदन्वेलमहीपतिस्तमवजानाति स्म । राजा तस्मै न
किमपि प्रयच्छति । इत्थं धनहारिभिः सीदत्कुटुम्बो ऽतीव क्षामतामापन्नः । ततो ऽमात्यो राजानं
विज्ञप्तवान्
विशेषे विनियोगो दातव्यः । यदि तद्विधेयं सत्तया समर्थितं तदानीं पुरस्तादेतदङ्गीकारं पुरस्कृत्या
जीविका कल्पनीया । तदानीममात्यवचनान्न