This page has been fully proofread once and needs a second look.

381
 
मदीयं विरुदं जगति प्रसिद्धम् । तदीयं वचनमाकर्ण्य चोराः क्षणं स्थित्वा तं विहायैव यथागतं

निरगुः । तर्हि प्रभावत्येवंविधं बुद्धिवैभवं जानासि यदि तदा साधय ॥
 

इत्येकषष्टिकथा ॥ ६१ ॥
 

 

 
पुन: प्रभावती प्रष्टुं प्रावर्तत शुकम् । शुको ऽभ्यधात्प्रभावतीम् । भुक्कुण्डवदात्मनो मरणमन्यथा कर्तु
तुं
जानीषे यदि तदाङ्गीकरोतु भवती । तदा प्रभावती पप्रच्छ । भुक्कुण्ड इति को नामासौ । कथं मर - 5

णमन्यथयत् । तद्वृत्तान्तं व्याहरतां भवान् । प्रभावतीं प्रत्यवदच्छुकः । शृणु प्रभावति । सर्वतोभद्रं नाम

नगरम् । तत्र भुक्कुण्डनामा कितवो निवसति स च सर्वदा द्यूतेन दीद्वीप्यति । एकस्मिन्दिने दीव्यन्प्र -

तिकितवैः पराजितः । तेषामङ्गीकृतपणार्पणाय न किमप्यस्ति । तदानीं चौर्याय प्रायतत । तदा चौर्
यं
कुर्वाणो रात्रिरक्षकैर्विधृतो ऽसौ । ते च तं राजसमक्षमानिन्युः । राजा च वधाय भटानादिष्टवान् ।

गच्छतैनं नीत्वा शूलप्रोतं कुरुत । तर्हि प्रभावति भवत्यपि व्याहरतु । केन प्रकारेणात्मनो मरणमन्यथयत् । 10

तदा प्रभावती विचारवत्यपि नाज्ञासीत् । तदाप्राक्षोच्छुकम् । सो ऽब्रवीत् । आकर्णय प्रभावति । तदा

तांस्तस्करो ऽभिहितवान् । राजा व्यापादयितुमुदितवानस्ति । यतो राज्ञामेव स्वाभाविको ऽयं धर्मः

परिपालयितव्यो दुष्टाश्च नियमनीया इत्येतादृशं सारासारं विचारयति महीपतिः । तदानीमसावै -

हिकेनामुष्मिकेण च सुकृतेन संयुज्यते । अत एव मयि दण्डं पातितवान् । तत्सम्यगुचितं कृतवानसि ।

परं विज्ञप्तिरेका विद्यते । अहं श्लोकमेकं व्याहरामि तदाकर्णनायावधानं दातव्यम् ।
 
15
 

भट्टिर्नष्टो भारविश्चापि नष्टो भिक्षुर्नष्टो भीमसेनोऽपि नष्टः ।

भुक्कुण्डो ऽहं भूपतिस्त्वं हि राजन्पङ्गीक्तौ भस्याप्यन्तकः संनिविष्टः ॥
 

राजा एतस्य पद्यस्यार्थं व्याख्याहीति व्याजहार । ततो दस्युरवदत् । श्लोको ऽयं भविष्योत्तरपुराणे ।

एतस्यायमर्थः । तेषामादिवर्णी भकारः तेषु नामसु परिपाट्यामन्तकः संनिविष्टः । भट्टाचार्यमपि कलि -

तवान्कालः । तदनु भारविमपि निगीर्णवान्कालः । भिक्षुषुं तथा भीमसेनं च कलितवान्कालः । एतांश्चतुरो 20

ऽप्यग्रहीत्कालः । भुक्कुण्ड इति मदीयं नाम भूपतिरिति त्वदीयं नाम । मयि निहते त्वमेक एवाव -

शिष्टो ऽसि । यावदहं भवतः पुरतो भवामि न तावत्कालकलितं भयम् । यथा जानासि तथानुसंधेहि ।

तदनु नृपतिस्तदाकर्ण्य मनस्येवमेवेति निश्चित्य तं चोरममोचयत् । तर्हि प्रभावति एतादृशमुपायविशेषं

यदि जानीषे तर्हि विधेहि विधेयविशेषम् ॥
 

इति द्विषष्टिकथा ॥ ६२ ॥
 

 
पुनरपि निशासमये विनयकन्दर्पसंनिधानगमनाय प्रेरयामास पतत्रिणं प्रभावती । तदा शुको ऽप्य -

भिदधे।देवि देवशर्मवत्संकीर्णावसरापाते यद्युत्तरं कर्तुतुं पारयसि तदा याहि । तदा प्रभावती बभाषे ।

देवशर्मा कथं संकीर्णं निस्तीर्णवानुत्तरविशेषकल्पनेन । व्याचष्टां भवानिति तया पृष्टः शुको व्याचष्टे ।

प्रभावति एलानगर्यामेलनामधेयो राजा राज्यं प्रशास्ति । तस्य संधिविग्रहकारी शिष्ट एको ऽभवत् ।

तस्य तनयो देवशमीर्मा । स तु पितरि प्रमीते स्वकीयं पौर्वापर्यमनपेक्ष्यानिरर्गलो यथारुचि व्यवहर्तुं 30

प्रयतते । केषांचिदपि वर्षीयसां वचनं न शृणोति । तदन्वेलमहीपतिस्तमवजानाति स्म । राजा तस्मै न

किमपि प्रयच्छति । इत्यंथं धनहारिभिः सीदत्कुटुम्बो तीव क्षामतामापन्नः । ततो ऽमात्यो राजानं

विज्ञप्तवान्।देव देवशर्मासौ श्रीमताममात्यभूतः । एतस्य चिन्ता न कर्तव्या । एतस्य कस्मिन्नपि कार्य -

विशेषे विनियोगो दातव्यः । यदि तद्विधेयं सत्तया समर्थितं तदानीं पुरस्तादेतदङ्गीकारं पुरस्कृत्या -

जीविका कल्पनीया । तदानीममात्यवचनान्नगरनाथो निजप्रयोजनसाधनाय तमादिदेश । तस्मिन्पश्यति 35
 
Abh. d. I. Cl. d. k. Ak. d. Wiss. XXI. Bd. II. Abth.
 
50
 
25