This page has not been fully proofread.

381
 
मदीयं विरुदं जगति प्रसिद्धम् । तदीयं वचनमाकर्ण्य चोराः क्षणं स्थित्वा तं विहायैव यथागतं
निरगुः । तर्हि प्रभावत्येवंविधं बुद्धिवैभवं जानासि यदि तदा साधय ॥
 
इत्येकषष्टिकथा ॥ ६१ ॥
 

 
पुन: प्रभावती प्रष्टुं प्रावर्तत शुकम् । शुको ऽभ्यधात्प्रभावतीम् । भुक्कुण्डवदात्मनो मरणमन्यथा कर्तु
जानीषे यदि तदाङ्गीकरोतु भवती । तदा प्रभावती पप्रच्छ । भुक्कुण्ड इति को नामासौ । कथं मर- 5
णमन्यथयत् । तद्वृत्तान्तं व्याहरतां भवान् । प्रभावतीं प्रत्यवदच्छुकः । शृणु प्रभावति । सर्वतोभद्रं नाम
नगरम् । तत्र भुक्कुण्डनामा कितवो निवसति स च सर्वदा यतेन दीप्यति । एकस्मिन्दिने दीव्यन्प्र-
तिकितवैः पराजितः । तेषामङ्गीकृतपणार्पणाय न किमप्यस्ति । तदान चौर्याय प्रायतत । तदा चौर्य
कुर्वाणो रात्रिरक्षकैर्विधृत । तेच तं राजसमक्षमानिन्युः । राजा च वधाय भटानादिष्टवान् ।
गच्छतैनं नीत्वा अलप्रोतं कुरुत । तर्हि प्रभावति भवत्यपि व्याहरतु । केन प्रकारेणात्मनो मरणमन्यथयत् । 10
तदा प्रभावती विचारवत्यपि नाज्ञासीत् । तदाप्राक्षोच्छुकम् । सो ऽब्रवीत् । आकर्णय प्रभावति । तदा
तांस्तस्करो ऽभिहितवान् । राजा व्यापादयितुमुदितवानस्ति । यतो राज्ञामेव स्वाभाविको ऽयं धर्मः
परिपालयितव्यो दुष्टाश्च नियमनीया इत्येतादृशं सारासारं विचारयति महीपतिः । तदानीमसावै-
हिकेनामुष्मिकेण च सुकृतेन संयुज्यते । अत एव मयि दण्डं पातितवान् । तत्सम्यगुचितं कृतवानसि ।
परं विज्ञप्तिरेका विद्यते । अहं श्लोकमेकं व्याहरामि तदाकर्णनायावधानं दातव्यम् ।
 
15
 
भट्टिर्नष्टो भारविश्चापि नष्टो भिक्षुर्नष्टो भीमसेनोऽपि नष्टः ।
भुक्कुण्डो ऽहं भूपतिस्त्वं हि राजन्पङ्गी भस्याप्यन्तकः संनिविष्टः ॥
 
राजा एतस्य पद्यस्यार्थं व्याख्याहीति व्याजहार । ततो दस्युरवदत् । श्लोकोऽयं भविष्योत्तरपुराणे ।
एतस्यायमर्थः । तेषामादिवर्णी भकारः तेषु नामसु परिपाट्यामन्तकः संनिविष्टः । भट्टाचार्यमपि कलि-
तवान्कालः । तदनु भारविमपि निगीर्णवान्कालः । भिक्षु तथा भीमसेनं च कलितवान्कालः । एतांश्चतुरो 20
ऽप्यग्रहीत्कालः । भुक्कुण्ड इति मदीयं नाम भूपतिरिति त्वदीयं नाम । मयि निहते त्वमेक एवाव -
शिष्टोऽसि । यावदहं भवतः पुरतो भवामि न तावत्कालकलितं भयम् । यथा जानासि तथानुसंधेहि ।
तदनु नृपतिस्तदाकर्ण्य मनस्येवमेवेति निश्चित्य तं चोरममोचयत् । तर्हि प्रभावति एतादृशमुपायविशेषं
यदि जानीषे तर्हि विधेहि विधेयविशेषम् ॥
 
इति द्विषष्टिकथा ॥ ६२ ॥
 
पुनरपि निशासमये विनयकन्दर्पसंनिधानगमनाय प्रेरयामास पतत्रिणं प्रभावती । तदा शुकोऽप्य-
भिदधे।देवि देवशर्मवत्संकीर्णावसरापाते ययुत्तरं कर्तु पारयसि तदा याहि । तदा प्रभावती बभाषे ।
देवशर्मा कथं संकीर्ण निस्तीर्णवानुत्तरविशेषकल्पनेन । व्याचष्टां भवानिति तया पृष्टः शुको व्याचष्टे ।
प्रभावति एलानगर्यामेलनामधेयो राजा राज्यं प्रशास्ति । तस्य संधिविग्रहकारी शिष्ट एको ऽभवत् ।
तस्य तनयो देवशमी । स तु पितरि प्रमीते स्वकीयं पौर्वापर्यमनपेक्ष्यानिरर्गलो यथारुचि व्यवहतुं 30
प्रयतते । केषांचिदपि वर्षीयसां वचनं न शृणोति । तदन्वेलमहीपतिस्तमवजानाति स्म । राजा तस्मै न
किमपि प्रयच्छति । इत्यं धनहारिभिः सीदत्कुटुम्बो तीव क्षामतामापनः । ततो ऽत्यो राजानं
विज्ञप्तवान्।देव देवशर्मासौ श्रीमताममात्यभूतः । एतस्य चिन्ता न कर्तव्या । एतस्य कस्मिन्नपि कार्य-
विशेषे विनियोगो दातव्यः । यदि तद्विधेयं सत्तया समर्थितं तदान पुरस्तादेतदङ्गीकारं पुरस्कृत्या-
जीविका कल्पनीया । तदानीममात्यवचनागरनाथो निजप्रयोजनसाधनाय तमादिदेश । तस्मिन्पश्यति 35
 
Abh. d. I. Cl. d. k. Ak. d. Wiss. XXI. Bd. II. Abth.
 
50
 
25