शुकसप्ततिः /66
This page has been fully proofread twice.
अन्येद्युर्दिनान्तोदये कुमुदकोशनन्दिनी विनयकन्दर्पनिकेतनं जिगमिषुर्द्विजं प्रश्नयति । तदन्ववादीत्प -
तत्री । देवि जयश्रीरिव बुद्धिवैभवं परिशीलयसि यदि तदा याहि । सा जयश्रियो वृत्तान्तमप्रा -
क्षीत् । शुको ऽपि व्याजहार । मङ्गलवर्धनाभिधाने नगरे धनदत्ताभिधानो धराधरः । तस्यामात्यस्य
कन्या जयश्रीनामधेया । एकदा तु तस्य नरपतेः संनिधौ विवदमानाश्चत्वारो देशान्तरादागताः
पुरुषाः । तदानीं तानपृच्छन्नरेश्वरः । भवतां किंनिबन्धनो व्यवहारः । वयं देशान्तरं गताः । रत्नचतुष्टयं
च तत्रास्माभिरलम्भि । तान्येकत्र स्थापितानि । ततो राजात्रावेवैतस्यां न जानीमः किमजायत । चतुर्णा -
मस्माकं मध्ये को नाम तानि गृहीतवान् । इति निशम्य व्याजहार । अमात्य एतेषां चतुर्णंणां मध्ये
कतमो रत्नान्यग्रहीत् । त्वं सम्यग्विचार्य व्याहरतात् । इत्थं राज्ञाभिहिते सचिवस्तांश्चतुरो निजम -
न्दिरमानयामास । तेषां भोजनं च विश्रामस्थानं च प्रायच्छत् । ततस्ते प्रधानसहिताश्चत्वारो ऽप्युप -
विविशुः । ततः सचिवतनया जयश्रीस्तेषां विवादं पृच्छति स्म । क एते कस्मात्प्रदेशात्केन प्रयोजन -
विशेषेणात्रागमनमकार्षुः । सचिवस्तेषामागमनकारणं सर्वमवादीत् । तन्निशम्य जगाद जयश्रीः । अहमे -
वामुष्य रत्नचतुष्टयस्य गृहीतारं विचारयिष्यामि । तर्हि प्रभावति केनोपायेन विशेषनिर्णयं विदधाति
स्म रत्नानाम् । सा विचारं कुर्वाणापि नावागच्छत् । तदा शुकं वक्ति स्म । शुको बभाषे । ततस्तेषां
चतुर्णां रात्रावभ्यवहारो ऽजायत । ततो निद्राकरणाय पृथक्पृथक्स्थाने चतुरो ऽपि प्रास्थापयत् ।
तदनु तमस्विन्यामात्मानमलंकृत्यैकस्योपकण्ठमाजगाम जयश्रीः । तावत्तमवोचत् । मम मानसं भवद्दर्श -
नप्रभृति स्मरशराहतिविकीर्णधैर्यं भवति । भवन्तं विहाय न कंचिदप्यभिलषति स्म । यदि पञ्चशतं
सुवर्णानां मह्यं दास्यसि तदानीमहं भवतः कुलपालिकात्वमङ्गीकरोमि । सो ऽप्यवोचत् । परमिदानीं
पाणिगतं न किमपि द्रव्यमस्ति । अहमार्जयित्वा भवत्यै वितरिष्यामि । ततस्तन्निशमनात्सापि तं विहाय
द्वितीयमनुससार । तमपि तथैवावोचत् । ततः सो ऽपि न किमपीत्यवोचत् । तथैव तृतीयोपकण्ठमा -
सेदुषी तं तथैवावादीत् । ततः संप्रति मम हस्ते न किमप्यस्तीति तस्य व्यवहारमाश्रुत्य चतुर्थं पश्यति
स्म दृशा धैर्यसर्वस्वहारिण्या । तं च तथैव प्राजल्पत् । ततस्त्वसौ अहं पञ्चाशत्सुवर्णपर्याप्तं वस्तुविशेषं
दास्यामि भवत्या हस्ते । इत्यभिधाय पाणौ प्रादाद्रत्नचतुष्टयं तस्याः । सा च तद्रत्नचतुष्टयं गृहीत्वा
अद्य त्वसाधुमुहूर्तं दिनं वर्तते प्रातस्त्वावयोरेकत्रोपवेशनाय सम्यङ्मुहूर्तमस्ति । इति तमभिधाय
स्वगृहमागत्य रत्नानि जनकस्य हस्ते प्रायच्छत् । स तु सचिवस्तद्रत्नचतुष्टयं गृहीत्वा भर्त्रे समर्पया -
मास । राजा तु तेभ्यो दत्तवान् । तर्हि प्रभावति उपायमेवं कलयसि यदि तर्हि स्वसाध्यसिद्धौ
दत्तावधाना भव ॥
इति षष्टिकथा ॥ ६० ॥
पुनः प्रभावती पप्रच्छ शुकम् । तदनु शुको बभाषे । भूधरब्राह्मणवदायासनिस्तरणे प्रगल्भसे यदि
तदा यातु भवती । सा भूधरवृत्तान्तं व्याहरेति व्याहार्षीत् । शुको ऽपि वक्ति स्म । देवि चमत्कारपुर्यां
भूधरनामा ब्राह्मणो निवसति । स तु पङ्गुः । तत एकस्मिन्नवसरे समस्तैर्ब्राह्मणैः सह देवतादर्शनाय
शकटारूढो निरगमत् । तदनु गच्छतां मार्गे दस्यव उदतिष्ठन् । ते सर्वे ऽपि बान्धवा दस्ययून्दृष्ट्वापला -
यिषत । स तु चरणविहीनत्वात्पलायनसामर्थ्यमबिभ्राणस्तथैवास्थात् । तर्ह्याचक्ष्व प्रभावति । स तु भूधरः
कमुपायं परिकल्प्य दस्युभ्य आत्मानमुदमोचयत् । तदा प्रभावती विचारयन्त्यपि न विवेद । ततः
पञ्जरगतं कीरं पृच्छति स्म प्रभावती । ततो ऽवदच्छुको ऽपि । आकर्णय प्रभावति । सर्वान्स्वयूध्या थ्या-
न्पलायनपरायणान्मलिम्बुलुचश्च धावतो दृष्ट्वा तदन्वेकाक्येव भूधरो वक्तुमुपाक्रमत धावमानान्पुनरा -
कारयन् । अहो भवन्तः किमिति पलायनं कुर्वन्ति । तत्र च न सन्ति पञ्श्चादशीतिशतपर्याप्ताः परिप -
न्थिकाः । एतेषां चतुःपञ्चषाणां भीत्या किमिति धावन्तः सन्ति । इयतामेतेषामहमेवालम् । शतहन्तेति
तत्री । देवि जयश्रीरिव बुद्धिवैभवं परिशीलयसि यदि तदा याहि । सा जयश्रियो वृत्तान्तमप्रा
क्षीत् । शुको ऽपि व्याजहार । मङ्गलवर्धनाभिधाने नगरे धनदत्ताभिधानो धराधरः । तस्यामात्यस्य
कन्या जयश्रीनामधेया । एकदा तु तस्य नरपतेः संनिधौ विवदमानाश्चत्वारो देशान्तरादागताः
पुरुषाः । तदानीं तानपृच्छन्नरेश्वरः । भवतां किंनिबन्धनो व्यवहारः । वयं देशान्तरं गताः । रत्नचतुष्टयं
च तत्रास्माभिरलम्भि । तान्येकत्र स्थापितानि । ततो रा
मस्माकं मध्ये को नाम तानि गृहीतवान् । इति निशम्य व्याजहार । अमात्य एतेषां चतुर्
कतमो रत्नान्यग्रहीत् । त्वं सम्यग्विचार्य व्याहरतात् । इत्थं राज्ञाभिहिते सचिवस्तांश्चतुरो निजम
न्दिरमानयामास । तेषां भोजनं च विश्रामस्थानं च प्रायच्छत् । ततस्ते प्रधानसहिताश्चत्वारो ऽप्युप
विविशुः । ततः सचिवतनया जयश्रीस्तेषां विवादं पृच्छति स्म । क एते कस्मात्प्रदेशात्केन प्रयोजन
विशेषेणात्रागमनमकार्षुः । सचिवस्तेषामागमनकारणं सर्वमवादीत् । तन्निशम्य जगाद जयश्रीः । अहमे
वामुष्य रत्नचतुष्टयस्य गृहीतारं विचारयिष्यामि । तर्हि प्रभावति केनोपायेन विशेषनिर्णयं विदधाति
स्म रत्नानाम् । सा विचारं कुर्वाणापि नावागच्छत् । तदा शुकं वक्ति स्म । शुको बभाषे । ततस्तेषां
चतुर्णां रात्रावभ्यवहारो ऽजायत । ततो निद्राकरणाय पृथक्पृथक्स्थाने चतुरो ऽपि प्रास्थापयत् ।
तदनु तमस्विन्यामात्मानमलंकृत्यैकस्योपकण्ठमाजगाम जयश्रीः । तावत्तमवोचत् । मम मानसं भवद्दर्श
नप्रभृति स्मरशराहतिविकीर्णधैर्यं भवति । भवन्तं विहाय न कंचिदप्यभिलषति स्म । यदि पञ्चशतं
सुवर्णानां मह्यं दास्यसि तदानीमहं भवतः कुलपालिकात्वमङ्गीकरोमि । सो ऽप्यवोचत् । परमिदानीं
पाणिगतं न किमपि द्रव्यमस्ति । अहमार्जयित्वा भवत्यै वितरिष्यामि । ततस्तन्निशमनात्सापि तं विहाय
द्वितीयमनुससार । तमपि तथैवावोचत् । ततः सो ऽपि न किमपीत्यवोचत् । तथैव तृतीयोपकण्ठमा
सेदुषी तं तथैवावादीत् । ततः संप्रति मम हस्ते न किमप्यस्तीति तस्य व्यवहारमाश्रुत्य चतुर्थं पश्यति
स्म दृशा धैर्यसर्वस्वहारिण्या । तं च तथैव प्राजल्पत् । ततस्त्वसौ अहं पञ्चाशत्सुवर्णपर्याप्तं वस्तुविशेषं
दास्यामि भवत्या हस्ते । इत्यभिधाय पाणौ प्रादाद्रत्नचतुष्टयं तस्याः । सा च तद्रत्नचतुष्टयं गृहीत्वा
अद्य त्वसाधुमुहूर्तं दिनं वर्तते प्रातस्त्वावयोरेकत्रोपवेशनाय सम्यङ्मुहूर्तमस्ति । इति तमभिधाय
स्वगृहमागत्य रत्नानि जनकस्य हस्ते प्रायच्छत् । स तु सचिवस्तद्रत्नचतुष्टयं गृहीत्वा भर्त्रे समर्पया
मास । राजा तु तेभ्यो दत्तवान् । तर्हि प्रभावति उपायमेवं कलयसि यदि तर्हि स्वसाध्यसिद्धौ
दत्तावधाना भव ॥
इति षष्टिकथा ॥ ६० ॥
पुनः प्रभावती पप्रच्छ शुकम् । तदनु शुको बभाषे । भूधरब्राह्मणवदायासनिस्तरणे प्रगल्भसे यदि
तदा यातु भवती । सा भूधरवृत्तान्तं व्याहरेति व्याहार्षीत् । शुको ऽपि वक्ति स्म । देवि चमत्कारपुर्यां
भूधरनामा ब्राह्मणो निवसति । स तु पङ्गुः । तत एकस्मिन्नवसरे समस्तैर्ब्राह्मणैः सह देवतादर्शनाय
शकटारूढो निरगमत् । तदनु गच्छतां मार्गे दस्यव उदतिष्ठन् । ते सर्वे ऽपि बान्धवा दस्
यिषत । स तु चरणविहीनत्वात्पलायनसामर्थ्यमबिभ्राणस्तथैवास्थात् । तर्ह्याचक्ष्व प्रभावति । स तु भूधरः
कमुपायं परिकल्प्य दस्युभ्य आत्मानमुदमोचयत् । तदा प्रभावती विचारयन्त्यपि न विवेद । ततः
पञ्जरगतं कीरं पृच्छति स्म प्रभावती । ततो ऽवदच्छुको ऽपि । आकर्णय प्रभावति । सर्वान्स्वयू
न्पलायनपरायणान्मलिम्
कारयन् । अहो भवन्तः किमिति पलायनं कुर्वन्ति । तत्र च न सन्ति प
न्थिकाः । एतेषां चतुःपञ्चषाणां भीत्या किमिति धावन्तः सन्ति । इयतामेतेषामहमेवालम् । शतहन्तेति