This page has been fully proofread once and needs a second look.

379
 
यमकल्पयत् । तदा शुकोदिता प्रभावती तद्विचारणाय चारु चातुर्यं दधानापि परं न विवेक्तुं

प्रभवति स्म । तदा शुकमेव पुनरप्राचीक्षीत् । तदा शुकस्तद्व्याहरणाय प्रारम्भते स्म । प्रभावति मदुक्ती
तौ
सावधाना भव । तदा स शकलाटस्तद्बावाद्वयमपि सपर्याणीकृतवान् । व्यायामं गरीयांसं च का -

रयामास तुरंगमादिभिः । तदनु पर्याणे पृथग्विधाय दामादिबन्धनमपाकृत्य नवतृणमेव चकितायां

मेदिन्यां चरणाय व्यस्राक्षीत् । तदानीं जननी तनयां रसनया लेढुं प्रावर्तिष्ट तनया च जनन्या: 6

स्तन्यं पातुमुदयत । इति निर्धारितवान्सचिवचूडामणिः । तर्हि प्रभावति त्वमप्येवंविधं कर्तुतुं निर्णयं

पारयसि यदि तदा गमनाय यत्नं तनुहि ॥
 

इत्यष्टपञ्चाशत्कथा ॥५८ ॥
 

 
पुनः प्रभावतोती पप्रच्छ शुकं शुको ऽभ्यधात् । धर्मबुद्धिवदुपायविवेचनं कर्तुमीशिषे यदि तदानीं सा -

धयेप्सितम् । ततः प्रभावती शुकं धर्मबुद्धिवृत्तान्तमप्राचीक्षीत् । विहगो जगाद गिरम् । कनकपुरी नाम 10

नगरी । तत्र धर्मबुद्धिदुष्टबुद्धिसंज्ञीञौ वणिजी । तीजौ । तौ सहैव समभागेन द्रव्यमार्जयितुमेकव्यवसायेनैव निर्ग -

च्छतः । तदनन्तरमार्जयित्वात्मनो नगरं पुनरागच्छन्तौ । तयोरेको दुष्टबुद्धिर्धर्मबुद्धिं बभाषे । समग्रं धनं

कस्माद्रामे गृहं नयावः । अर्ध धनं द्वयोः समभागावस्थितं विधास्यावः । तदर्धं ग्रामं नयावः । इत्य -

भिधायार्धं धनं तत्रैव बोधिवनस्पतिसमीपेंपे स्थापितवन्तौ । तदनु पापबुद्धिरन्यस्मिन्दिने तत्र गत्वा

द्रविणं तदाजहार । तद्धनम पहत्यापरेबुद्युर्धर्मबुद्धिं बभाण । गत्वा तत्र स्थापितं द्रव्यमानयावः । तदानीं 16

द्वावपि सहैव निरगाताम् । तत्स्थानमासाद्य द्रविणमालोकिषाताम् । तत्र द्रव्यमदृष्ट्वा तदा दुष्टबु -

द्धिर्धर्मबुद्धिमभाणीत् । त्वयापहृतं धनं त्वयापहृतं धनमित्युभयोर्विवादः प्रादुरासीत् । तदानीं राज्ञ

आवेदनाय गतवन्तौ । तदा दुष्टबुद्धिश्च राजानं निजगाद । देव धर्मबुद्धिरयं केवलया संज्ञयैव परि -

गृहोहीतसाधुत्वाभिमानो मदपत्यानां ग्रासमग्रहीत् । राजा । कः साक्षी । दुष्टबुद्धिः । एतस्मिन्नर्थे ऽरण्यस -

मुद्भव अश्वत्थवृक्षः साक्षीभावे स्थितः । तं वादयित्वा सर्वेषां प्रत्ययमुत्पादयिष्यामि । तस्य तद्वचनं 20

सर्वे ऽपि धर्मबुद्धय उररीकृतवन्तः । तदनु दुष्टबुद्धिर्निजसदनमासाद्य पितरं पिप्पलकोटरे प्रावेशयत् ।

तस्मै च संकेतं दत्तवान् । ततः प्रभातसमये संजाते राजपुरःसरः समस्तो ऽपि लोकस्तत्कौतुकालोकनाय

जग्मिवान् । तदा तौ वादिप्रतिवादिनीनौ समागमताम् । तदनु दुष्टबुद्धिर्व्याहार्षीत् । परमेश्वरश्रीमहा -

विष्णुस्वरूपपिप्पलतरो यथास्ति तथैव सत्यतया व्याहरतु भवान् । को नाम तव पुरस्तात्स्थापितद्र -

विणमग्रहोहीत् । तदानीमश्वत्तरोरुदतिष्ठद्वर्णात्मकः शब्दः । द्रव्यं धर्मबुद्धिना गृहीतमिति । तदाश्रुत्य 25

सर्वे विस्मयस्मितमानसा अवतस्थिरे । धर्मबुद्धिस्तु निग्रहस्थानमा सेदिवान् । तर्ह्याचक्ष्व प्रभावति ।

धर्मबुद्धिः कमुपायं विधायात्मनः सत्यमापादयामास । तदा तद्वचनात्प्रभावती तद्विचारणाय प्रवृत्ता

न जानाति स्म । ततः शुकमपृच्छत् । शुको पि जगाद । आकर्णय प्रभावति । तदानीं धर्मबुद्धिर्व्यचा -

रयत् । न तावद्वनस्पतिरसत्यं व्याहरति । अयं तु पिप्पलकोटरे कमपि मानुषं निवेश्य तद्वचनजनितो

ध्वनिरयं प्रत्ययमापादयति । यथार्थं मध्यस्थानमामृश्य राजानं व्यजिज्ञपत् । देव क्षणमात्रमत्र स्था - 30

तव्यम् । मया द्रविणं तदश्वत्थकोटरे विन्यस्तमस्ति । तत्प्रभुणा पिप्पलकोटरान्तरमात्मीयमानुषं प्रवे
श्य
विश्वासभूतं धनमानेतव्यम् । इति विज्ञाप्य जनमेकं तदन्तः प्रावेशयत् । तत्प्रविश्य स तु दुष्टबुद्धिपित -

रमपश्यत् । दृष्ट्वा स तु कोटरादवतोयतीर्यान्तः को वा निवसति न जाने । एक आस्ते मानुषः । तदा राजा

कोटरास्थितं बलादाचकर्ष । दुष्टबुद्धिं तर्जयामास धर्मबुद्धिं मानयामास । तर्हि देवि कर्तुमेतादृशमुपा -

यविशेषं यदि जानीषे तदा स्वचित्तचरितमाचर ॥
 

इत्येकोनषष्टिकथा ॥ ५९ ॥
 
35