शुकसप्ततिः /65
This page has not been fully proofread.
379
यमकल्पयत् । तदा शुकोदिता प्रभावती तद्विचारणाय चारु चातुर्य दधानापि परं न विवेक्तुं
प्रभवति स्म । तदा शुकमेव पुनरप्राचीत् । तदा शुकस्तयाहरणाय प्रारम्भते स्म । प्रभावति मदुक्ती
सावधाना भव । तदा स शकलाटस्तद्डबाद्वयमपि सपर्याणीकृतवान् । व्यायामं गरीयांसं च का-
रयामास तुरंगमादिभिः । तदनु पर्याणे पृथग्विधाय दामादिबन्धनमपाकृत्य नवतृणमेव चकितायां
मेदिन्यां चरणाय व्यस्राक्षीत् । तदान जननी तनयां रसनया लेढुं प्रावर्तिष्ट तनया च जनन्या: 6
स्तन्यं पातुमुदयत । इति निर्धारितवान्सचिवचूडामणिः । तर्हि प्रभावति त्वमप्येवंविधं कर्तु निर्णयं
पारयसि यदि तदा गमनाय यत्नं तनुहि ॥
इत्यष्टपञ्चाशत्कथा ॥५८ ॥
पुनः प्रभावतो पप्रच्छ शुकं शुको ऽभ्यधात् । धर्मबुद्धिवदुपायविवेचनं कर्तुमीशिषे यदि तदान सा-
धयेप्सितम् । ततः प्रभावती शुकं धर्मबुद्धिवृत्तान्तमप्राचीत् । विहगो जगाद गिरम् । कनकपुरी नाम 10
नगरी । तत्र धर्मबुद्धिदुष्टबुद्धिसंज्ञी वणिजी । ती सहैव समभागेन द्रव्यमार्जयितुमेकव्यवसायेनैव निर्ग-
च्छतः । तदनन्तरमार्जयित्वात्मनो नगरं पुनरागच्छन्तौ । तयोरेको दुष्टबुद्धिर्धर्मबुद्धिं बभाषे । समग्रं धनं
कस्माद्रामे गृहं नयावः । अर्ध धनं द्वयोः समभागावस्थितं विधास्यावः । तदर्धं ग्रामं नयावः । इत्य-
भिधायार्धं धनं तत्रैव बोधिवनस्पतिसमीपें स्थापितवन्तौ । तदनु पापबुद्धिरन्यस्मिन्दिने तत्र गत्वा
द्रविणं तदाजहार । तद्धनम पहत्यापरेबुर्धर्मबुद्धिं बभाण । गत्वा तत्र स्थापितं द्रव्यमानयावः । तदानीं 16
द्वावपि सहैव निरगाताम् । तत्स्थानमासाद्य द्रविणमालोकिषाताम् । तत्र द्रव्यमदृष्ट्वा तदा दुष्टबु-
द्धिर्धर्मबुद्धिमभाणीत् । त्वयापहृतं धनं त्वयापहृतं धनमित्युभयोर्विवादः प्रादुरासीत् । तदानीं राज्ञ
आवेदनाय गतवन्तौ । तदा दुष्टबुद्धिश्च राजानं निजगाद । देव धर्मबुद्धिरयं केवलया संज्ञयैव परि-
गृहोतसाधुत्वाभिमानो मदपत्यानां ग्रासमग्रहीत् । राजा । कः साक्षी । दुष्टबुद्धिः । एतस्मिन्नर्थे ऽरण्यस-
मुद्भव अश्वत्थवृक्षः साक्षीभावे स्थितः । तं वादयित्वा सर्वेषां प्रत्ययमुत्पादयिष्यामि । तस्य तद्वचनं 20
सर्वे ऽपि धर्मबुद्धय उररीकृतवन्तः । तदनु दुष्टबुद्धिर्निजसदनमासाद्य पितरं पिप्पलकोटरे प्रावेशयत् ।
तस्मै च संकेतं दत्तवान् । ततः प्रभातसमये संजाते राजपुरःसरः समस्तो ऽपि लोकतत्कौतुकालोकनाय
जग्मिवान् । तदा तौ वादिप्रतिवादिनी समागमताम् । तदनु दुष्टबुद्धिर्व्याहार्षीत् । परमेश्वरश्रीमहा-
विष्णुस्वरूपपिप्पलतरो यथास्ति तथैव सत्यतया व्याहरतु भवान् । को नाम तव पुरस्तात्स्थापितद्र-
विणमग्रहोत् । तदानीमश्वत्यतरोरुदतिष्ठद्वर्णात्मकः शब्दः । द्रव्यं धर्मबुद्धिना गृहीतमिति । तदाश्रुत्य 25
सर्वे विस्मयस्मितमानसा अवतस्थिरे । धर्मबुद्धिस्तु निग्रहस्थानमा सेदिवान् । तर्ह्याचक्ष्व प्रभावति ।
धर्मबुद्धिः कमुपायं विधायात्मनः सत्यमापादयामास । तदा तद्वचनात्प्रभावती तद्विचारणाय प्रवृत्ता
न जानाति स्म । ततः शुकमपृच्छत् । शुको अपि जगाद । आकर्णय प्रभावति । तदानीं धर्मबुद्धिर्थचा-
रयत् । न तावद्वनस्पतिरसत्यं व्याहरति । अयं तु पिप्पलकोटरे कमपि मानुषं निवेश्य तद्वचनजनितो
ध्वनिरयं प्रत्ययमापादयति । यथार्थ मध्यस्थानमामृश्य राजानं व्यजिज्ञपत् । देव क्षणमात्रमत्र स्था- 30
तव्यम् । मया द्रविणं तदश्वत्थकोटरे विन्यस्तमस्ति । तत्प्रभुणा पिप्पलकोटरान्तरमात्मीयमानुषं प्रवेश
विश्वासभूतं धनमानेतव्यम् । इति विज्ञाप्य जनमेकं तदन्तः प्रावेशयत् । तत्प्रविश्य स तु दुष्टबुद्धिपित-
रमपश्यत् । दृष्ट्वा स तु कोटरादवतोयन्तः को वा निवसति न जाने । एक आस्ते मानुषः । तदा राजा
कोटरास्थितं बलादाचकर्ष । दुष्टबुद्धिं तर्जयामास धर्मबुद्धिं मानयामास । तर्हि देवि कर्तुमेतादृशमुपा-
यविशेषं यदि जानीषे तदा स्वचित्तचरितमाचर ॥
इत्येकोनषष्टिकथा ॥ ५९ ॥
35