शुकसप्ततिः /64
This page has been fully proofread twice.
गत्वा कस्यचिच्छरीरे संचरिष्यामि । त्वया तु तत्र नागन्तव्यम् । यदि तत्र त्वमागमिष्यसि तदानीं
त्वामेव भक्षयिष्यामि । इत्यभिधायैव ग्रहो निरगात् । तदानीं राजकुमार्याः स्वास्थ्यमजायत । तदा
राजापि तं प्रियजल्पकमग्रजन्मानमतीव संभावयन्प्रस्थापयामास । तर्हि प्रभावति एवंविधा बुद्धिर्यदि
पोस्फुरीति भवत्यास्तदा गमनमङ्गीकुरु ॥
इति षट्पञ्चाशत्कथा ॥ ५६ ॥
पुनरपि निशासमये प्रभावती विनयकन्दर्पनिवेशनमियासुः विहंगमं वाक्प्रसंगतमचीकरत् । निशम्य
तदा तां प्रति विहंगो ऽप्यगाहत गिरां परिचयम् । देवि तस्यैव प्रियजल्पकस्य ब्राह्मणस्य पुरो
पतितं संकीर्णं निस्तरितुं पारयसि यदि तदा गन्तव्यम् । ततः प्रभावती बभाषे । स कथं संकीर्णं
निस्तीर्णवान् । इति तद्वृत्तान्तमावेदयतु नाम भवान् । सो ऽप्यवोचत् । प्रभावति स त्वसौ प्रियजल्पको
जगतीपतिवितीर्णविभवसमुद्भवपरिपूर्णतया सुखेन स्थातुं प्रावर्तत । राजा च राज्यस्यार्धं प्रादात् ।
इति सत्यसौ ब्राह्मग्रहो ऽन्यस्य राजकुमारस्य कलेवरं प्राविक्षत् । तदानीं तस्य महीभृतो मनुष्याः
समागतास्तं मन्त्रवादिनमाह्वातुम् । तदा स राजा प्रास्थापयत्तम् । स तत्र गतवान् । तत्र तस्य ग्रहस्य
दर्शनमघटिष्ट । ततो ऽसौ जगाद ग्रहः । अरे प्रियजल्पक मया त्वं वारितो ऽपि तर्हि कस्मादत्रागतो
ऽसि । इदानीं त्वामेवाहं भक्षयिष्यामि प्रथमम् । तर्हि प्रभावति वावदीतु भवती । तदा किमुत्तरं
विधाय ग्रहविग्रहान्मोचितवानात्मानम् । तदा विचारणाय प्रवर्तते स्म परं तु न तदुत्तरमज्ञासीत् ।
तदा शुकमनुयुक्तवती । तदा जगाद विहगः । देवि तदासौ प्रियजल्पको ग्रहपरिगृहीतविग्रहं ग्रहमेव
गत्वाञ्जलिं बद्धाध्वा विज्ञापितुमादृतवान् । प्रभो स्वामिन्किमिति भवानमर्षितो भवति । अहमत्रैकेन
प्रयोजनेन समागतो ऽस्मि । मत्पत्नी कर्कशा नाम मामत्र स्थितमाकर्ण्य निजमन्दिरं परित्यज्यात्र
मत्संनिधानमागतवती । तर्हि मदीयं मित्रभूतं त्वामवगत्य कां बुद्धिं विदधामीति प्रष्टुमागतवान् ।
तर्हि त्वया मद्विधातव्या बुद्धिर्मह्यमावेदनीया । तदाकर्ण्य बभाषे ग्रहः । त्वं भवच्चित्तसमुचितं विधेहि ।
परमहं तु स्थानादेतस्मात्पलाव्य्य गमिष्यामि प्रदेशान्तरमित्यभिधाय राजकुमारं समुत्थापितवान् । तदा
सो ऽपि नरपतिस्तं मन्त्रवादिनं यथार्हमभ्यर्चयामास । तर्हि प्रभावति भवत्यप्येतादृशमायासमुपाय -
विशेषेण निस्तरसि यदि तदा यातु भवती ॥
इति सप्तपञ्चाशत्कथा ॥ ५७ ॥
पुनः प्रभावती शुकमप्राक्षीत् । शुको ऽपि व्याहार्षीत् । देवि शकलाटमन्त्रिवन्मतिचातुर्यं चरितार्थयसि
यदि ततस्ते जिगमिषा भवतु । तदाब्रवीत्प्रभावती । शकलाटः किंरूपो मतिमतां धुरि कथं श्लाघनीयः ।
तद्वृत्तान्तमनल्पमाकल्पकलितकलेवरो जल्पतु प्रतिभावितीर्णमानसः । तदा शुको ऽब्रवीत् । आकर्णय
कर्णविश्रान्तलोचने । शकलाटो ऽसौ मन्त्री नन्दमहीपालस्य । स तु बुद्धिमतां धुरि धौरेयः । इत्थं तस्य
तथाविधां प्रसिद्धिं निशम्य सम्य<flag>क्त्वा</flag>सम्य<flag>क्त्व</flag>परीक्षानिरीक्षणाय वडबाद्वयं न कुत्राप्यवयवविशेषे ऽपि
सादृश्यादविद्यमानं रूपतो वर्णतः स्वभावत आकारतश्च प्रस्थापयामास दर्शनपातनं विधायान्यज -
नपदस्य परिवृढ इत्यभिधायैतयोर्द्वयोर्मध्ये का नाम जननी तनया च का । इति विवेचनं विधा -
यास्मभ्यं ज्ञापयितव्यमिति । ततस्ते आगते अभिवीक्ष्य सर्वे ऽप्यहमहमित्यात्मनि परीक्षावैचक्षण्यं बिभ्राणाः
परिवार्यवोवीक्षितुं प्रावर्तिषन्त परं न कश्चन निर्णेतुमीष्टे । राजा तदा शकलाटनामानममात्यं व्या -
हृतवान् । निर्धारो ऽयं भवतैव विधातव्यः । इतरथास्मास्खेवेतस्मादेतदज्ञानजनितं महामन्दाक्षमुदेष्यति ।
तर्हि प्रभावति त्वमपि विचार्य व्याहर । स शकलाटस्तदा नन्दनरेन्द्रस्याज्ञां शिरस्याधाय कमुपा -
त्वामेव भक्षयिष्यामि । इत्यभिधायैव ग्रहो निरगात् । तदानीं राजकुमार्याः स्वास्थ्यमजायत । तदा
राजापि तं प्रियजल्पकमग्रजन्मानमतीव संभावयन्प्रस्थापयामास । तर्हि प्रभावति एवंविधा बुद्धिर्यदि
पोस्फुरीति भवत्यास्तदा गमनमङ्गीकुरु ॥
इति षट्पञ्चाशत्कथा ॥ ५६ ॥
पुनरपि निशासमये प्रभावती विनयकन्दर्पनिवेशनमियासुः विहंगमं वाक्प्रसंगतमचीकरत् । निशम्य
तदा तां प्रति विहंगो ऽप्यगाहत गिरां परिचयम् । देवि तस्यैव प्रियजल्पकस्य ब्राह्मणस्य पुरो
पतितं संकीर्णं निस्तरितुं पारयसि यदि तदा गन्तव्यम् । ततः प्रभावती बभाषे । स कथं संकीर्णं
निस्तीर्णवान् । इति तद्वृत्तान्तमावेदयतु नाम भवान् । सो ऽप्यवोचत् । प्रभावति स त्वसौ प्रियजल्पको
जगतीपतिवितीर्णविभवसमुद्भवपरिपूर्णतया सुखेन स्थातुं प्रावर्तत । राजा च राज्यस्यार्धं प्रादात् ।
इति सत्यसौ ब्राह्मग्रहो ऽन्यस्य राजकुमारस्य कलेवरं प्राविक्षत् । तदानीं तस्य महीभृतो मनुष्याः
समागतास्तं मन्त्रवादिनमाह्वातुम् । तदा स राजा प्रास्थापयत्तम् । स तत्र गतवान् । तत्र तस्य ग्रहस्य
दर्शनमघटिष्ट । ततो ऽसौ जगाद ग्रहः । अरे प्रियजल्पक मया त्वं वारितो ऽपि तर्हि कस्मादत्रागतो
ऽसि । इदानीं त्वामेवाहं भक्षयिष्यामि प्रथमम् । तर्हि प्रभावति वावदीतु भवती । तदा किमुत्तरं
विधाय ग्रहविग्रहान्मोचितवानात्मानम् । तदा विचारणाय प्रवर्तते स्म परं तु न तदुत्तरमज्ञासीत् ।
तदा शुकमनुयुक्तवती । तदा जगाद विहगः । देवि तदासौ प्रियजल्पको ग्रहपरिगृहीतविग्रहं ग्रहमेव
गत्वाञ्जलिं बद्
प्रयोजनेन समागतो ऽस्मि । मत्पत्नी कर्कशा नाम मामत्र स्थितमाकर्ण्य निजमन्दिरं परित्यज्यात्र
मत्संनिधानमागतवती । तर्हि मदीयं मित्रभूतं त्वामवगत्य कां बुद्धिं विदधामीति प्रष्टुमागतवान् ।
तर्हि त्वया मद्विधातव्या बुद्धिर्मह्यमावेदनीया । तदाकर्ण्य बभाषे ग्रहः । त्वं भवच्चित्तसमुचितं विधेहि ।
परमहं तु स्थानादेतस्मात्पला
सो ऽपि नरपतिस्तं मन्त्रवादिनं यथार्हमभ्यर्चयामास । तर्हि प्रभावति भवत्यप्येतादृशमायासमुपाय
विशेषेण निस्तरसि यदि तदा यातु भवती ॥
इति सप्तपञ्चाशत्कथा ॥ ५७ ॥
पुनः प्रभावती शुकमप्राक्षीत् । शुको ऽपि व्याहार्षीत् । देवि शकलाटमन्त्रिवन्मतिचातुर्यं चरितार्थयसि
यदि ततस्ते जिगमिषा भवतु । तदाब्रवीत्प्रभावती । शकलाटः किंरूपो मतिमतां धुरि कथं श्लाघनीयः ।
तद्वृत्तान्तमनल्पमाकल्पकलितकलेवरो जल्पतु प्रतिभावितीर्णमानसः । तदा शुको ऽब्रवीत् । आकर्णय
कर्णविश्रान्तलोचने । शकलाटो ऽसौ मन्त्री नन्दमहीपालस्य । स तु बुद्धिमतां धुरि धौरेयः । इत्थं तस्य
तथाविधां प्रसिद्धिं निशम्य सम्य
सादृश्यादविद्यमानं रूपतो वर्णतः स्वभावत आकारतश्च प्रस्थापयामास दर्शनपातनं विधायान्यज
नपदस्य परिवृढ इत्यभिधायैतयोर्द्वयोर्मध्ये का नाम जननी तनया च का । इति विवेचनं विधा
यास्मभ्यं ज्ञापयितव्यमिति । ततस्ते आगते अभिवीक्ष्य सर्वे ऽप्यहमहमित्यात्मनि परीक्षावैचक्षण्यं बिभ्राणाः
परिवार्य
हृतवान् । निर्धारो ऽयं भवतैव विधातव्यः । इतरथास्मास्
तर्हि प्रभावति त्वमपि विचार्य व्याहर । स शकलाटस्तदा नन्दनरेन्द्रस्याज्ञां शिरस्याधाय कमुपा