This page has been fully proofread twice.

शुकं पप्रच्छ । शुको ऽपि निजगाद । शृणु प्रभावति । विष्णुवर्धनस्तु द्वाराद्बहिरङ्गणभागे स्थित्वा या -
वता पश्यति तावता रात्रिमपि गरीयसीं न्यफालयत् । तदानीं द्वितीयवारं कुट्टिनो कुक्कुटनिनादं
करोति स्म । तदा सो ऽपि तच्चरितमद्राक्षीत् । ततो विष्णुवर्धनः कराश्मभिः तरुस्थितां कुट्टिनीं
निहत्य भूतले निपातितवान् । तदाक्रन्दमाना पपात । तदा रतिप्रियापि तद्देशमागतवती । सा रति -
प्रिया तं विष्णुवर्धनं क्षमस्वेति पादयोरपतत् । त्वमात्मीयं द्रविणं पुनर्गृहाण परमस्मासु कृपामुत्पा -
दय । इत्यभिधाय तदीयं द्रविणं पुनरस्मै प्रत्यर्पयामास । तर्हि प्रभावति त्वमप्युपायविशेषं परिशी -
लयसि यदि तदानीं ध्वंसताम् ॥

इति पञ्चपञ्चाशत्कथा ॥ ५५ ॥
 
पुनः प्रभावती पृच्छति स्म नभश्चरम् । ततः सो ऽपि बभाषे । देवि प्रियजल्पकवदायासनिस्तरणं जा -
नीषे यदि तदानीं समीहस्व विधेयविशेषम् । तदा प्रभावती प्राजल्पत । किंरूपमायासं निस्तीर्णवा -
न्प्रियजल्पकः । तदावेदयतुतरां भवानिति तया पृष्टः शुको बभाषे । अवधेहि प्रभावति । आशापूरा
नाम देवता । तत्रत्यः परिचर्याकरः प्रियजल्पकः । तस्य भार्या कर्कशानामधेया । साहर्निशं प्रतिक्षणं
नूतनं कलहमुद्भावयति मुहूर्तमपि कलहविहीना नावतिष्ठति । तस्य द्वारि पिप्पलतरुरेको निवसति ।
तस्मिंस्तरौ ग्रह एको निवसति । स ग्रहस्तस्याः कर्कशाया अश्रान्तकलहविग्रहपरिगृहीतविग्रहो दुर्ग्रहग्रस्त
इव परित्यक्तनिजगृहो धावनमकार्षीत् । ततो ग्रामाद्बहिःस्थितं शल्मलीविटपिनमेकमधिरुह्य तस्थिवान्
इत्थं बहुभिरहोभिः प्रियजल्पकस्य मनसि कर्कशाकलहदूषिते वैराग्यमुदयति स्म । गृहिणीं परित्यज्य
देशत्यागं चिकीर्षितवान्प्रियजल्पकः । ततो ऽसौ निर्गच्छन्दृष्टवान्पुरद्वारि तमात्मनो ऽङ्गणतरुस्थितं
ग्रहम् । स च ग्रहस्तस्य प्रियजल्पकस्य प्रत्यक्षो बभूव प्रियजल्पकमप्राक्षीत् । त्वं जिगमिषुरसि । तदा
प्रियजल्पको जजल्प । अहं मम ब्रा<error>ह्य</error><fix>ह्म</fix>ण्या पलायमानो ऽस्मि । तदा प्रियजल्पकश्च तमवादीत् । त्वं
को नाम । ततो ग्रहेणाभ्यधायि । भवद्गृहद्वारिस्थिते पिप्पलतरौ न्यवत्समहम् । तत्रत्यो ऽनादिसिद्धो
ऽग्रजन्मग्रहः साधुमन्त्रवादिभिरपि निवार्यमाणो नाहं निर्गतवान् । सो ऽहं भवद्ब्राह्मणीभयेन पला -
यनपरायणः सन्नत्रैव निवसामि । तर्हीदं भयमजायत । इदानीं द्वावपि समदुःखिनौ निवसावः ।
अहमपि तवोपकारं कंचन करिष्यामि । एवंविधस्तयोः सत्यवचननिर्णयो ऽजायत । तदनु ग्रहो ऽसा -
वेकस्या राजकुमार्याः समाविवेश शरीरम् । तदानीं तच्चिकित्सार्थमनेके नरेन्द्रा अमिलन् । न कश्चिदपि
ग्रहमपाकर्तुं प्रभवति । इति सति स प्रियजल्पको ब्राह्मणस्तत्रागच्छत् । राजानं समेत्यावोचत् । अहं
कुमारीमुल्लाघां करोमि । तदानीं जगाद राजा । यदि त्वमस्मदीयां कुमारीं निरुपद्रवां विधास्यसि
तदानीमपि त्वां द्रविणपूर्णमर्धराज्यभाजं विधास्यामि । तदासावभिमुखं कुमार्या ब्राह्मणो निरी -
क्षितवान् । तस्यां च यामिन्यां चतुष्कोणान्तर्वर्ती चतुःषष्टियोगिनीमण्डलाकारं प्रकल्प्य षोडशभिरु -
पचारैर्दीपश्रेणीभिः परितो भ्राजमानं नैवेद्यविशेषैः सम्यगभिपूज्य डमरुनिनादाडम्बरैरम्बरं प्रतिध्व -
निभिरुल्लेख्य मणिमन्त्रौषधविविधसामग्रीं विधातुं प्रावर्तत । तदा ग्रहो ऽपि तस्य निर्माणाडम्बरं
निरीक्ष्य क्रोधपरवशस्तस्थौ स्वमनस्यभ्यधाच्च । अयं स्वचातुरोपरीतमेवंविधं संभ्रमं निर्मिमाणो ऽस्ति ।
पश्यामि तावदिदमेतदीयं सामर्थ्यमित्यभिधायासौ ग्रहः केनापि प्रकारविशेषेण न त्यजति कुमा -
रीम् । तर्ह्याचक्ष्व प्रभावति । स ब्राह्मणस्तदानीं कतरमुपायमकल्पयत् । प्रभावती तद्विचारणाय बहुधा
प्रसारयामास मानसं परं नाज्ञासीत् । ततः शुकमपृच्छत् । तदा जगाद पतंगो ऽपि । हे प्रभावति ।
तदासौ ब्राह्मणो ग्रहं प्रार्थयत । आत्मने सत्यवाग्दत्ता तस्यैव सत्यता परिपालयितव्या इत्येवंविधं
मन्त्र

मन्त्रं
जपन्नसौ तिष्ठति यावत्तदा ब्रह्मग्रहस्योदियाय करुणा । तदा ग्रहो ऽप्यवादीत् । अहमेनां कुमारीं
विहाय यास्यामि । तन्निमित्तं भवते यत्किमपि वितरिष्यति राजा तद्गृहीत्वा त्वं सुखेनास्व । अहमन्यत्र