This page has been fully proofread once and needs a second look.

376
 
पुनर्व्याजहार पतत्रिणं प्रभावती । शुको ऽब्रवोवीत् । तस्य क्रोष्टोरिव यद्यात्मन उपर्याापतितस्य मरणोपद्रवस्य

परिहारोपायं परिशीलयसि यदि तदानीमनुमन्यस्व स्वकृत्य समर्थनम् । तदाकर्ण्य जगाद प्रभावती । कोष्टा

कीदृग्विधं संकीर्णं निस्तीर्णवान् । तद्वृत्तान्तं वावदोतु भवान् । इति प्रभावत्याभिहितो विहगो गिरमुज्ज -

गार । आकर्णय देवि । द्वीपी तु वेगेनात्मनो मरणभयात्पलायमानो ऽभवत् । क्रोष्टा तु तत्कण्ठे निबद्धः
5 कष्

कण्
टकविसंकटायामाकृष्यमाणो गात्रस्य समग्रामपि त्वचमुत्कृत्त्य चरणाबद्धबाधो भूमेरुपरि समा -

कृष्यते । तदा तादृशावस्थामुपभुञ्जानः क्षणमात्रादसवो निजा निर्गमिष्यन्तोत्येतादृशीमवस्थां प्राप्तवान् ।

जीवशेषावस्थामवलम्बमानो विद्यते । तर्हि प्रभावति त्वमप्यभिधेहि । तदानींतने तादृशे समये स जम्बुको

द्वीपिगलबद्धमात्मानं प्रकारेण केनोदमोचयत् । ततः प्रभावती तच्चिन्तयन्ती न विवेद जम्बुकमोचनोपा -

यम् । तदा दिनोदये पप्रच्छ पतत्रिणं व्याजहार कीरो ऽपि । तदा कष्ण्टकाटवीमध्ये समुत्कृष्यमाणः
10

क्रोष्टा विहस्यावोचत् । तदा व्याघ्रो बभाषे । सृगाल कस्मादस्मिन्समये हास्यास्पदं मां कृतवानसि ।

जम्बुको जगाद । त्वदीयं मौर्ख्यमभिवीक्ष्य मम हास्यमजायत । ततो व्याहार्षीच्चित्रतनुः । कथं मयि त्वं

मौर्ख्यमासञ्जसि । सृगालो ऽवदत् । यत्र यत्र त्वं गमिष्यसि तत्र तत्र व्याघ्रहन्त्री समागच्छति । त्वामवश्यं

क्षयिष्यति । तदा व्याघ्रो व्याजहार । त्वमित्यं केन जानीषे । तदा जगाद जम्बुकः । मदीयासृगक्तं मार्
गं
दृष्ट्वा विदितविद्वद्गतिरवश्यमागमिष्यति व्याघ्रघातिनी । सा समागत्यावश्यं त्वां मारयिष्यति । इत्थं जा -
16

नीहि । यदि भवतो जिजीविषा च वरीवर्त्ति तदानोनीमात्मनो गलबद्धं मुञ्च माम् । इत्थं जम्बुकवचनं

विश्वस्य पुण्डरीकस्तत्क्षणं गलस्थितं मृगधूर्तमवमुच्यापासरदन्येन वर्त्मना । तर्हि प्रभावति उपायमेवं -

विधं यदि भवतोती वेत्ति तदान गमनमङ्गोकुरु ॥
 

इति चतुःपञ्चाशत्कथा ॥ ५४॥
 

 
पुनः प्रभावती इयासुरुपरमणसमीपं नगौकसं जगाद सो ऽप्यवदत् । देवि विष्णुवर्धनवदात्मनः प्रति -
20

पक्षभूतं यदि पराभवितुं जानासि तदा याहि । ततः प्रभावती व्याहार्षीत् । तद्वृत्तान्तमाचष्टामिति

पक्षिणम् । तदनु शुको ऽब्रवीत् । कन्याकुब्जानाम्नि नगरे कश्चिद्विष्णुवर्धनो ब्राह्मणः । स च सुरतो -

पभोगे ऽतिलम्पटश्चण्डञ्श्च । तस्मिन्कन्याकुब्जे न काचन कामिनी कमनीयगुणा तदीयं ग्राम्यधर्मं सहते ।

तस्मिन्नेतादृशसामर्थ्ये प्रथामुरीकरोति स्म । एतादृशवारविलासिनीपरिवादपृथुप्रथाकारणजागरूका

रतिप्रधाना काचन गणिका गणरात्रान्तरं कस्यांचिन्निशीथिन्यां तमाजुहाव । तदाज्ञाह्वानसमये विष्णु -
25

वर्धनो ऽब्रवीत् । रतिप्रिये त्वयास्मदीयं सुरतं सोढुं न शक्यते । यदि त्वं न सहसे तदा रात्रिनिवा -

सपरिमितं पणं द्विगुणं भवत्याः सकाशादहं ग्रहीष्यामि । तदा तत्कुट्टिनी तदीयमिति वचनीयं

स्वीकृत्य रात्रिनिवासपरिमितं पणं तस्मादग्रहीत् । स तु तस्यां तमस्विन्यां रतिप्रियोपभोगाय न्यवा -
त्सो

त्सी
त् । तदनु रात्रौ गरीयः कष्टं प्रवर्तमानमभूद्रतिप्रियायाः । तदनु मूत्रोत्सर्जनमिषेण तच्छय्याया

उत्थाय कुट्टिनीसंनिधानं गत्वा रतिप्रिया तामेवमवादीत् । एतदीयं धनमेतस्मै प्रत्यर्पय । मम प्रा-
30

णावसानपिशुनं निधुवनमेतदीयं निदर्शनमुज्जृम्भते । तदावदत्कुट्टिनोनी । म्रियस्व जनकजाये । हस्ते प्राप्तं

पणं कथं वा प्रत्यर्ष्प्यते । तर्हि पण्याङ्गनानां मध्ये तव को नाम नाम ग्रहीष्यति । त्वं पुनस्तदन्तिकं

याहि । तत्क्षणमात्रमुपचारचातुर्येण तं रमय । पश्चादहं तरुमिममारुह्य कुक्कुटनिनदं बहुधा करिष्या -

मि । ततस्त्वं प्रभातं संजातमित्यभिधायात्मन: समीपात्तं गमय । तत इति कृतनिश्चया रतिप्रिया

विष्णुवर्धनोपकण्ठमागत्य पुनः सुरतोपचारैस्तं सिषेवे । ततः कुट्टिनी द्वारि विद्यमानं बिल्वमधिरुह्य
36

ताम्रचूडनिनादान्बहुधा चकार । तदा तन्निनादश्रवणाद्रतिप्रिया व्याजहार प्रियम् । इदानीं प्रभा -

तसमयः प्रावर्तिष्ट । भवन्तस्तु गच्छध्वमित्यभिधाय रतिप्रिया निरजीगमत् । तर्हि प्रभावति भवत्यपि

विचार्यभिदधातु । विष्णुवर्धनस्तु ततः परं किं व्यरचयत् । सा तद्विचारं कुर्वाणापि नाज्ञासीत् । तदा