शुकसप्ततिः /61
This page has been fully proofread twice.
इत्यभिधाय स तां निरकासयत् । स तामपत्यद्वयसहितां पर्यत्यजत् । परित्यागविसंविधो न कश्चन
संबन्धो ऽस्त्यतः परमित्यभिधाय प्रदत्तवान् । इत्थं तद्विसृष्टा सापत्यमेकं कट्यामभिरोप्यैकं कराङ्गुलि -
भिराधृत्यापत्यद्वयसहिता सान्यस्मिन्ग्रामे मातृमन्दिरं प्रति निरयासीत् । ततोअऽरण्यमध्ये मध्याह्ने
पथि गच्छन्ती परिश्रान्ता कस्यचिद्विटपिनस्तले निषसाद । ततस्तामभिवोवीक्ष्य दूरादेव व्याघ्रस्तां भक्ष -
यितुं समागतवान् । तर्हि प्रभावति त्वमपि चारु विचारय । एतादृशे समये कमुपायमकरोत्सा । तदा
प्रभावती विचारणाय प्रावर्तत । न तदुपायं कलयामास । तावता तमस्विन्यपि प्राक्षीयत । तदा
प्रभाते प्रभावती तदुपायाविष्करणाय शुकमनुयुक्तवती । सो ऽपि तद्व्याहरणाय कृतप्रयत्नो ऽभवत् ।
प्रभावत्याकर्णय । तदा चित्रकायमायान्तं लक्षीचकार । तदा तदपत्यद्वयमपि पेडया ताडयामास ।
तत्ताडनपीडितं द्वयमप्यरुदत् । ततस्तद्रोदनशमनाय स्वयं पुत्राववोचत् । अहं तावद्व्याघ्रहन्त्री येन
केनापि प्रकारेण चित्रकायद्वयं निहत्य भवतोराहाराय पर्याप्तं पूरयिष्यामि । यावता द्वितीयो
द्वीपी समागच्छति तावतैनमेवागच्छन्तं मया निहतं विभज्य भक्षयतमित्यभिधाय तस्य पुण्डरीकस्य
खण्डनायाखण्डनविक्रमापत्यद्वयं तत्र भुवि व्यवस्थाप्योदतिष्ठत । तद्वचनाकर्णनसमनन्तरमेव मृगारिर्जीवं
गृहीत्वा पलायमानो निरगात् । त्वमपीत्थं जानासि चेद्यदि तदानीमनुसर ॥
इति द्विपञ्चाशत्कथा ॥ ५२ ॥
पुनः प्रभावती शुकं प्रष्टुं प्रावर्तत । शुको बभाषे । देवि तस्या व्याघ्रमार्या इवोपायान्तरप्रयोगे चा -
तुर्यमुदेति भवत्या यदि तदा गन्तव्यं भवत्या । ततः प्रभावती तद्वृत्तान्तं जिज्ञासुः पप्रच्छ शुकम् । सो
ऽप्यवोचत् । शृणु प्रभावति । शार्दूलः पलायमानो गच्छन्नस्ति । तदा मार्गे क्रोष्टा दृष्टवान् । स च तरक्षुं
बभाषे । व्याघ्र देवाः किमिति पलायमाना वर्तन्ते । तदा व्याघ्रो न वदति । तदा क्रोष्टा वचनयुक्ति -
भिस्तद्भयमपाकृत्य स्थिरीकृतवान् चित्रकायम् । तव च पृष्ठतो न किंचिदागच्छति । त्वं पश्य । त्वयि
किमेष आकस्मिको भयः समुदायमानस्तिष्ठति । भयं जहीहि । मत्पुरस्तादाचक्ष्व । यत्किंचिद्वैषम्यमाति -
ष्ठितमस्ति तदहं युक्तिविशेषेणापकरिष्यामि । इत्याकर्ण्य धैर्यमालम्ब्य क्षणं तस्थिवान्पुण्डरीकः । तस्य
पुरतश्चरितं व्याघ्रहन्त्र्याः प्राकृतं कृतवान् । ततस्तच्छ्रुत्वा मृगधूर्तो नरीनर्ति स्म गिरम् । याहि पुरतः ।
केन त्वं व्याघ्रः कृतो ऽसि । तत्त्वामहं मूर्खमुख्यमुपलक्षये । सा त्वां भीषयामास । कुत्र मानुषाश्चित्रकायं
मारयन्ति । त्वं वृथैव भीतवानसि । आगच्छ गच्छावस्तस्याः पुनरन्तिकम् । तदानीमभ्यधाद्द्वीपी । तस्मादेव
पलायसे तयाहमेव धृत्वा निहन्तव्यः । तदा क्रोष्टाभाषिष्ट । त्वं यदि मां पलायमानं ब्रुवाणो ऽसि
तर्ह्यात्मनो गले मामानह्य तावता तवापि मत्पलायनशङ्का निवर्तिष्यते । तदनन्तरमात्मनो गले
सृगालं पिनद्धवाञ्छार्दूलः । ततो मृगारिहन्त्री तावप्यागच्छन्तौ वीक्षते । प्रभावति त्वमपि विचार्य
व्याहर । तदानीं व्याघ्रतुरा कमुपायं प्राकल्पयत् । ततः प्रभावती प्रभातं प्रतिभासाप्रभवप्रतिभावितं
विधाय यदा तदुत्तररहस्यं न कलयामास तदा शुकं पप्रच्छ सोत्कण्ठा । अवदच्छुक:कः । आकर्णय
प्रभावति । सा द्वीपिजग्धिनी मृगधूर्तं मृगारिमागच्छन्तमालोक्य क्रोष्टारमभाषिष्ट । अरे क्रोष्टो पूर्व -
स्मिन्दिने त्वं मत्पुरस्तादात्मनः सत्यसुकृतं दत्त्वा गरीयसीमाज्ञामपि विधाय गतो ऽभूः । तर्हीदानीं
किमित्येकमेव द्वीपिनं त्वमानैषीः । एकेन व्याघ्रेणैकस्यापत्यस्योदरमापूर्यते । तदा द्वितीयमपत्यं किं
त्वां भक्षयिष्यति । इति वचनं व्याघ्रो ऽश्रौषीत् । तदनन्तरं पलायनमेवाकरोत् । तर्हि प्रभावति त्वम -
प्युपायविशेषं परिशीलयसि यदि तदानीमनुयाहि ॥
इति त्रिपञ्चाशत्कथा ॥ ५३ ॥
संबन्धो ऽस्त्यतः परमित्यभिधाय प्रदत्तवान् । इत्थं तद्विसृष्टा सापत्यमेकं कट्यामभिरोप्यैकं कराङ्गुलि
भिराधृत्यापत्यद्वयसहिता सान्यस्मिन्ग्रामे मातृमन्दिरं प्रति निरयासीत् । ततो
पथि गच्छन्ती परिश्रान्ता कस्यचिद्विटपिनस्तले निषसाद । ततस्तामभि
यितुं समागतवान् । तर्हि प्रभावति त्वमपि चारु विचारय । एतादृशे समये कमुपायमकरोत्सा । तदा
प्रभावती विचारणाय प्रावर्तत । न तदुपायं कलयामास । तावता तमस्विन्यपि प्राक्षीयत । तदा
प्रभाते प्रभावती तदुपायाविष्करणाय शुकमनुयुक्तवती । सो ऽपि तद्व्याहरणाय कृतप्रयत्नो ऽभवत् ।
प्रभावत्याकर्णय । तदा चित्रकायमायान्तं लक्षीचकार । तदा तदपत्यद्वयमपि पेडया ताडयामास ।
तत्ताडनपीडितं द्वयमप्यरुदत् । ततस्तद्रोदनशमनाय स्वयं पुत्राववोचत् । अहं तावद्व्याघ्रहन्त्री येन
केनापि प्रकारेण चित्रकायद्वयं निहत्य भवतोराहाराय पर्याप्तं पूरयिष्यामि । यावता द्वितीयो
द्वीपी समागच्छति तावतैनमेवागच्छन्तं मया निहतं विभज्य भक्षयतमित्यभिधाय तस्य पुण्डरीकस्य
खण्डनायाखण्डनविक्रमापत्यद्वयं तत्र भुवि व्यवस्थाप्योदतिष्ठत । तद्वचनाकर्णनसमनन्तरमेव मृगारिर्जीवं
गृहीत्वा पलायमानो निरगात् । त्वमपीत्थं जानासि चेद्यदि तदानीमनुसर ॥
इति द्विपञ्चाशत्कथा ॥ ५२ ॥
पुनः प्रभावती शुकं प्रष्टुं प्रावर्तत । शुको बभाषे । देवि तस्या व्याघ्रमार्या इवोपायान्तरप्रयोगे चा
तुर्यमुदेति भवत्या यदि तदा गन्तव्यं भवत्या । ततः प्रभावती तद्वृत्तान्तं जिज्ञासुः पप्रच्छ शुकम् । सो
ऽप्यवोचत् । शृणु प्रभावति । शार्दूलः पलायमानो गच्छन्नस्ति । तदा मार्गे क्रोष्टा दृष्टवान् । स च तरक्षुं
बभाषे । व्याघ्र देवाः किमिति पलायमाना वर्तन्ते । तदा व्याघ्रो न वदति । तदा क्रोष्टा वचनयुक्ति
भिस्तद्भयमपाकृत्य स्थिरीकृतवान् चित्रकायम् । तव च पृष्ठतो न किंचिदागच्छति । त्वं पश्य । त्वयि
किमेष आकस्मिको भयः समुदायमानस्तिष्ठति । भयं जहीहि । मत्पुरस्तादाचक्ष्व । यत्किंचिद्वैषम्यमाति
ष्ठितमस्ति तदहं युक्तिविशेषेणापकरिष्यामि । इत्याकर्ण्य धैर्यमालम्ब्य क्षणं तस्थिवान्पुण्डरीकः । तस्य
पुरतश्चरितं व्याघ्रहन्त्र्याः प्राकृतं कृतवान् । ततस्तच्छ्रुत्वा मृगधूर्तो नरीनर्ति स्म गिरम् । याहि पुरतः ।
केन त्वं व्याघ्रः कृतो ऽसि । तत्त्वामहं मूर्खमुख्यमुपलक्षये । सा त्वां भीषयामास । कुत्र मानुषाश्चित्रकायं
मारयन्ति । त्वं वृथैव भीतवानसि । आगच्छ गच्छावस्तस्याः पुनरन्तिकम् । तदानीमभ्यधाद्द्वीपी । तस्मादेव
पलायसे तयाहमेव धृत्वा निहन्तव्यः । तदा क्रोष्टाभाषिष्ट । त्वं यदि मां पलायमानं ब्रुवाणो ऽसि
तर्ह्यात्मनो गले मामानह्य तावता तवापि मत्पलायनशङ्का निवर्तिष्यते । तदनन्तरमात्मनो गले
सृगालं पिनद्धवाञ्छार्दूलः । ततो मृगारिहन्त्री तावप्यागच्छन्तौ वीक्षते । प्रभावति त्वमपि विचार्य
व्याहर । तदानीं व्याघ्रतुरा कमुपायं प्राकल्पयत् । ततः प्रभावती प्रभातं प्रतिभासाप्रभवप्रतिभावितं
विधाय यदा तदुत्तररहस्यं न कलयामास तदा शुकं पप्रच्छ सोत्कण्ठा । अवदच्छु
प्रभावति । सा द्वीपिजग्धिनी मृगधूर्तं मृगारिमागच्छन्तमालोक्य क्रोष्टारमभाषिष्ट । अरे क्रोष्टो पूर्व
स्मिन्दिने त्वं मत्पुरस्तादात्मनः सत्यसुकृतं दत्त्वा गरीयसीमाज्ञामपि विधाय गतो ऽभूः । तर्हीदानीं
किमित्येकमेव द्वीपिनं त्वमानैषीः । एकेन व्याघ्रेणैकस्यापत्यस्योदरमापूर्यते । तदा द्वितीयमपत्यं किं
त्वां भक्षयिष्यति । इति वचनं व्याघ्रो ऽश्रौषीत् । तदनन्तरं पलायनमेवाकरोत् । तर्हि प्रभावति त्वम