शुकसप्ततिः /60
This page has been fully proofread twice.
नामा । तस्यामात्यस्य संगीते सर्वदा व्यसनमहर्निशं गायकेभ्यो गेयमाकर्णयन्नवतिष्ठते । एकस्मिन्दिवसे
मातङ्गा गायन्तो ऽभूवन् । तेषां मध्ये कोकिलानामधेया गायकी गायन्त्यभूदेकाकिनी । तस्यां गायन्त्यां
कश्चिददृष्टपूर्वो लयाविर्भावो ऽजायत । तद्गीते भरता अपि तदेकतानतावस्थ्यावलम्बना एव सर्वे
परिहृतबहिरबहिर्वृत्तयो ऽवतस्थिरे । राज्ञो ऽपि मानसं नितरां समतुष्यत् । ततस्तस्या मातङ्ग्या उपरि
पार्थिवस्य मानसं मदनोदित्वरदीपितोद्भूतधूमसमूहाध्यासितं तिरस्कृतप्रवेकविवेकविगलितनिजाभिमा -
नाभिव्यक्तकं तरलितविलासाभिप्रायमजायत । तस्यैवं सति किं विधीयते । तदामात्यो ऽत्यन्तगत्यन्तरज्ञो
जगाद क्षितिपाकशासनम् । देव वासनानाशः सर्वदा भवितुं न दातव्यः । तस्याः पूरणं सर्वदा कर्तव्यमेव ।
भवन्तो राजानः । भवतां किमतिप्राणबाधापरे विधौ विधेयं कुत्रापि व्यवस्थापितमस्ति । पश्चादेतावत
एव पार्थक्येन किमापत्तिष्ठतीत्यभिधाय महीपतेराकाङ्क्षामपोषयत् । तदा राजा प्रधानं व्यादिदेश ।
प्रदोषसमये त्वयैनां गृहीत्वा समागन्तव्यममुष्मिन्प्रदेशविशेषे । तदा राजादेशं शिरस्याधाय निरगा -
त्सचिवः । तर्ह्याचक्ष्व प्रभावति तमुपायम् । केन प्रकारेण पर्यहार्षीदमात्यः । ततः शुकोक्त्या प्रभावती
विचारसमर्पितहृदयाभवत् । पुनर्नावागच्छत् । ततः शुकमप्राक्षीत्सो ऽपि न्यवादीत् । प्रभावति तदानीं
सचिवः पार्थिवेन पूर्वं परिहृताया राज्ञ्याः समीपं संप्राप्य तामवोचत् । अद्य भवतीनां विषये नरनाथो
ऽस्माभिर्विज्ञप्तः संभूय सर्वैरपि राज्ञो ऽपि मानसे यथा भवतीषु स्नेह उत्पद्यते तथैव समापादया -
महि । भवतीभ्यश्चित्रशालैका दापिता विद्यते । भवतीभिरद्य कृतप्रसाधनाभिः प्रदोषसमये तत्र गन्तव्यम् ।
इत्यभिधाय चित्रशालायामेतस्यां संध्यासमये तामनैषीदमात्यवृद्धः । तस्यै राज्ञ्यै मातङ्ग्या इव वस्त्राणि
तादृशमेवालंकारं प्रदायाभिदधौ । तत्र राजा भवतीभ्यो वसनानि भूषणानि च दत्त्वा प्रातिष्ठिपत् ।
इति तत्रत्यमशेषं विधेयविशेषं सज्जीकृत्य निरगादगाधबुद्धिः । तदनु गत्वा राजानं व्यजिज्ञपत् । देव
श्रीमता यदादिष्टमभूत्तत्सर्वमपि निर्वर्तितम् । तस्यां चित्रशालायां समानीतास्ति । स तदनु राजा
तत्र गतवान् । मन्मथप्रमथितमना मनोरथैस्तामजहात् । तदनु मदनमार्गणमोहमहोर्मिवेगभङ्गे विचा -
रपुरस्कृतो ऽवनीश्वरस्तदानीमेव चित्रशालाया बहिर्निरगमत् । तदा सचिवं व्याजहार । मां मा
स्प्राक्षीः परतो याहीति । ततः सचिव उवाच । किमेतत्स्वामिन् । तदाभाणीद्धरणीनाथः । ममैता-
वाननर्थः समजीघटत् । अतः परं देहावसानमेव प्रायश्चित्तं गृह्णोणीमहि । इति श्रुत्वा तदोचिवान्सचिवः ।
मयि संनिधानानुसारिणि यदि महीनाथप्रमाद आपतिष्यति तदानीं सो ऽमात्यः कीदृक्प्रकारः ।
समस्तो ऽप्युपायो निरपायतया परिहृतसर्पः । तदा जगाद राजा सचिवम् । *** । तदानीं दीपमा -
नीय तां राज्ञीं राज्ञो लोचनगोचरीं चकार । तदालोक्य नरनाथो ऽपि संतोषपरवशः स्थितवान् ।
अवोचच्च । बहुबुद्धिनामधेयं भवत एव युज्यते नेतरस्य । तर्हि प्रभावति बुद्धिविशेषमेवं परिशीलयसि
यदि तदानीं साधय ॥
इत्येकपञ्चाशत्कथा ॥ ५१ ॥
पुनः प्रभावती पृष्टवती पतत्रिणम् । तदन्वसावप्यवोचत् । देवि व्याघ्रमारिणीव संकीर्णनिस्तरणे प्रगल्भसे
यदि तदानीमनुसंधत्स्व । ततः प्रभावत्या पृष्टः शुको व्याघ्रहन्त्रीवृत्तान्तं प्रभावतीमश्रावयत् । आकर्णय
प्रभावति । विशालपुराभिधानं नगरम् । तत्र विचारवीरो राजा । तस्य कर्मकारो जगन्धनामधेयः ।
तस्य गृहिणी कलहप्रिया व्याघ्रहन्त्री । साहर्निशं भर्त्रा समं कलहं करोति । भर्ता यदा गृहमागच्छति
भोक्तुमुपविशति तावता तस्मिन्समये किंचिदविद्यमानमेव कलहबीजमुपास्यति क्षणमात्रमपि सा
सुखेनावस्थातुं नोत्सहते ।
यत उक्तम् । यस्य भार्या विरूपाक्षी कश्मला कलहप्रिया ।
उत्तरोत्तरवक्त्री च सा जरा न जरा जरा ॥
मातङ्गा गायन्तो ऽभूवन् । तेषां मध्ये कोकिलानामधेया गायकी गायन्त्यभूदेकाकिनी । तस्यां गायन्त्यां
कश्चिददृष्टपूर्वो लयाविर्भावो ऽजायत । तद्गीते भरता अपि तदेकतानतावस्थ्यावलम्बना एव सर्वे
परिहृतबहिरबहिर्वृत्तयो ऽवतस्थिरे । राज्ञो ऽपि मानसं नितरां समतुष्यत् । ततस्तस्या मातङ्ग्या उपरि
पार्थिवस्य मानसं मदनोदित्वरदीपितोद्भूतधूमसमूहाध्यासितं तिरस्कृतप्रवेकविवेकविगलितनिजाभिमा
नाभिव्यक्तकं तरलितविलासाभिप्रायमजायत । तस्यैवं सति किं विधीयते । तदामात्यो ऽत्यन्तगत्यन्तरज्ञो
जगाद क्षितिपाकशासनम् । देव वासनानाशः सर्वदा भवितुं न दातव्यः । तस्याः पूरणं सर्वदा कर्तव्यमेव ।
भवन्तो राजानः । भवतां किमतिप्राणबाधापरे विधौ विधेयं कुत्रापि व्यवस्थापितमस्ति । पश्चादेतावत
एव पार्थक्येन किमापत्तिष्ठतीत्यभिधाय महीपतेराकाङ्क्षामपोषयत् । तदा राजा प्रधानं व्यादिदेश ।
प्रदोषसमये त्वयैनां गृहीत्वा समागन्तव्यममुष्मिन्प्रदेशविशेषे । तदा राजादेशं शिरस्याधाय निरगा
त्सचिवः । तर्ह्याचक्ष्व प्रभावति तमुपायम् । केन प्रकारेण पर्यहार्षीदमात्यः । ततः शुकोक्त्या प्रभावती
विचारसमर्पितहृदयाभवत् । पुनर्नावागच्छत् । ततः शुकमप्राक्षीत्सो ऽपि न्यवादीत् । प्रभावति तदानीं
सचिवः पार्थिवेन पूर्वं परिहृताया राज्ञ्याः समीपं संप्राप्य तामवोचत् । अद्य भवतीनां विषये नरनाथो
ऽस्माभिर्विज्ञप्तः संभूय सर्वैरपि राज्ञो ऽपि मानसे यथा भवतीषु स्नेह उत्पद्यते तथैव समापादया
महि । भवतीभ्यश्चित्रशालैका दापिता विद्यते । भवतीभिरद्य कृतप्रसाधनाभिः प्रदोषसमये तत्र गन्तव्यम् ।
इत्यभिधाय चित्रशालायामेतस्यां संध्यासमये तामनैषीदमात्यवृद्धः । तस्यै राज्ञ्यै मातङ्ग्या इव वस्त्राणि
तादृशमेवालंकारं प्रदायाभिदधौ । तत्र राजा भवतीभ्यो वसनानि भूषणानि च दत्त्वा प्रातिष्ठिपत् ।
इति तत्रत्यमशेषं विधेयविशेषं सज्जीकृत्य निरगादगाधबुद्धिः । तदनु गत्वा राजानं व्यजिज्ञपत् । देव
श्रीमता यदादिष्टमभूत्तत्सर्वमपि निर्वर्तितम् । तस्यां चित्रशालायां समानीतास्ति । स तदनु राजा
तत्र गतवान् । मन्मथप्रमथितमना मनोरथैस्तामजहात् । तदनु मदनमार्गणमोहमहोर्मिवेगभङ्गे विचा
रपुरस्कृतो ऽवनीश्वरस्तदानीमेव चित्रशालाया बहिर्निरगमत् । तदा सचिवं व्याजहार । मां मा
स्प्राक्षीः परतो याहीति । ततः सचिव उवाच । किमेतत्स्वामिन् । तदाभाणीद्धरणीनाथः । ममैता-
वाननर्थः समजीघटत् । अतः परं देहावसानमेव प्रायश्चित्तं गृह्
मयि संनिधानानुसारिणि यदि महीनाथप्रमाद आपतिष्यति तदानीं सो ऽमात्यः कीदृक्प्रकारः ।
समस्तो ऽप्युपायो निरपायतया परिहृतसर्पः । तदा जगाद राजा सचिवम् । *** । तदानीं दीपमा