This page has been fully proofread once and needs a second look.

374
 
नामा । तस्यामात्यस्य संगीते सर्वदा व्यसनमहर्निशं गायकेभ्यो गेयमाकर्णयन्नवतिष्ठते । एकस्मिन्दिवसे

मातङ्गा गायन्तो ऽभूवन् । तेषां मध्ये कोकिलानामधेया गायकी गायन्त्यभूदेकाकिनी । तस्यां गायन्त्यां

कश्चिददृष्टपूर्वो लयाविर्भावो ऽजायत । तद्गीते भरता अपि तदेकतानतावस्थ्यावलम्बना एव सर्वे

परिहृतबहिरबहिर्वृत्तयो ऽवतस्थिरे । राज्ञो ऽपि मानसं नितरां समतुष्यत् । ततस्तस्या मातङ्ग्या उपरि
5

पार्थिवस्य मानसं मदनोदित्वरदीपितोद्भुभूतधूमसमूहाध्यासितं तिरस्कृतप्रवेकविवेकविगलितनिजाभिमा -

नाभिव्यक्तकं तरलितविलासाभिप्रायमजायत । तस्यैवं सति किं विधोधीयते । तदामात्यो ऽत्यन्तगत्यन्तरज्ञो

जगाद चिक्षितिपाकशासनम् । देव वासनानाशः सर्वदा भवितुं न दातव्यः । तस्याः पूरणं सर्वदा कर्तव्यमेव ।

भवन्तो राजानः । भवतां किमतिप्राणबाधापरे विधौ विधेयं कुत्रापि व्यवस्थापितमस्ति । पश्चादेतावत

एव पार्थक्येन किमापत्तिष्ठतीत्यभिधाय महोहीपतेराकाङ्घाक्षामपोषयत् । तदा राजा प्रधानं व्यादिदेश ।
10

प्रदोषसमये त्वयैनां गृहीत्वा समागन्तव्यममुष्मिन्प्रदेशविशेषे । तदा राजादेशं शिरस्याधाय निरगा -

त्सचिवः । तर्ह्याचक्ष्व प्रभावति तमुपायम् । केन प्रकारेण पर्यहार्षीदमात्यः । ततः शुकोक्त्या प्रभावती

विचारसमर्पितहृदयाभवत् । पुनर्नावागच्छत् । ततः शुकमप्राचीक्षीत्सो ऽपि न्यवादीत् । प्रभावति तदानीं

सचिवः पार्थिवेन पूर्वं परिहृताया राज्ञ्याः समीपं संप्राप्य तामवोचत् । अद्य भवतीनां विषये नरनाथो

स्माभिर्विज्ञप्तः संभूय सर्वैरपि राज्ञो ऽपि मानसे यथा भवतीषु स्नेह उत्पद्यते तथैव समापादया -
16

महि । भवतीभ्यश्चित्रशालेलैका दापिता विद्यते । भवतीभिरद्य कृतप्रसाधनाभिः प्रदोषसमये तत्र गन्तव्यम् ।

इत्यभिधाय चित्रशालायामेतस्यां संध्यासमये तामनेनैषीदमात्यवृद्धः । तस्यै राज्ञ्यै मातड्ङ्ग्या इव वस्त्राणि

तादृशमेवालंकारं प्रदायाभिदधौ । तत्र राजा भवतीभ्यो वसनानि भूषणानि च दत्त्वा प्रातिष्ठिपत् ।

इति तत्रत्यमशेषं विधेयविशेषं सज्जीकृत्य निरगादगाधबुद्धिः । तदनु गत्वा राजानं व्यजिज्ञपत् । देव

श्रीमता यदादिष्टमभूत्तत्सर्वमपि निर्वर्तितम् । तस्यां चित्रशालायां समानीतास्ति । स तदनु राजा
20

तत्र गतवान् । मन्मथप्रमथितमना मनोरथैस्तामजहात् । तदनु मदनमार्गणमोहमहोर्मिवेगभङ्गे विचा -

पुरस्कृतो ऽवनीश्वरस्तदानीमेव चित्रशालाया बहिर्निरगमत् । तदा सचिवं व्याजहार । मां मा

स्प्राक्षीः परतो याहीति । ततः सचिव उवाच । किमेतत्स्वामिन् । तदाभाणीद्धरणीनाथः । ममैता-

वाननर्थः समजीघटत् । अतः परं देहावसानमेव प्रायश्चित्तं गृह्णोमहि । इति श्रुत्वा तदोचिवान्सचिवः ।

मयि संनिधानानुसारिणि यदि महीनाथप्रमाद आपतिष्यति तदानीं सो ऽमात्यः कीदृक्प्रकारः ।
25

समस्तो ऽप्युपायो निरपायतया परिहृतसर्पः । तदा जगाद राजा सचिवम् । *** । तदानीं दीपमा -
नो

नी
य तां राज राजोज्ञीं राज्ञो लोचनगोचरीरीं चकार । तदालोक्य नरनाथो ऽपि संतोषपरवशः स्थितवान् ।

अवोचञ्च्च । बहुबुद्धिनामधेयं भवत एव युज्यते नेतरस्य । तर्हि प्रभावति बुद्धिविशेषमेवं परिशीलयसि

यदि तदानीं साधय ॥
 

 
***
 

इत्येक पञ्चाशत्कथा ॥ ५१ ॥
 
30

 
पुनः प्रभावती पृष्टवतोती पतत्रिणम् । तदन्वसावप्यवोचत् । देवि व्याघ्रमारिणीव संकोकीर्णनिस्तरणे प्रगल्भसे

यदि तदानीमनुसंधत्स्व । ततः प्रभावत्या पृष्टः शुको व्याघ्रहन्त्रीवृत्तान्तं प्रभावतीमश्रावयत् । आकर्णय

प्रभावति । विशालपुराभिधानं नगरम् । तत्र विचारवोवीरो राजा । तस्य कर्मकारो जगन्धनामधेयः ।

तस्य गृहिणी कलहप्रिया व्याघ्रहन्त्री । साहर्निशं भर्त्रीरा समं कलहं करोति । भतीर्ता यदा गृहमागच्छति

भोक्तुमुपविशति तावता तस्मिन्समये किंचिदविद्यमानमेव कलहबीजमुपास्यति क्षणमात्रमपि सा
36

सुखेनावस्थातुं नोत्सहते ।
 

 
यत उक्तम् ।
 
यस्य भायीर्या विरूपाक्षी कश्मला कलहप्रिया ।

उत्तरोत्तरवक्तीत्री च सा जरा न जरा जरा ॥