This page has been fully proofread once and needs a second look.

भावपुरःसरं मनसि विक्षेपं बिभ्राणः सात्त्विकवासनया यत्सुकृतसंचयमार्जयति तस्य सुकृतस्य
फलमधिकत्वेन बोभवीति । भावानुसारिणी सिद्धिरधिगम्यते । तदनु तेन हरदत्तेन दैवज्ञानाहूय
जातकर्म निरमायि । मदनसेन इति नामधेयं व्यदधत् । ततः क्रमेणान्नप्राशनचौलकर्मव्रतबन्धादिकं विधाय समस्तकलाकलापेभ्य: स्नातकमकारयत् । ततो वङ्गदेशनिवासिनः कुमुदकोशनामधेयस्य पुत्री नामतः प्रभावती प्रभावितीर्णसमस्तजननयनाह्लादकारिणी । तामेणीदृशं मदनसेनः पर्यणैषीत् । सर्वाङ्गसौन्दर्यविभ्रमवती सकलकलाकोविदा संगीतसाहित्यरसाभिनयविलसदसमशरशरनिकरहतिप-
रवशा परिरम्भसौरभ्यविजृम्भमाणविषमविषयरसविषमञ्जरी कटाचच्छटाक्षेपपरिक्षिप्तजनता घनताप-
संपादितानेकलोकशोकसंवर्धनप्रभावती । तेन मदनसेनेन तत्तद्भावकलाकलापकुशलेन भृशमन्वरज्यत ।
तयोरप्यतिशायी प्रेमभावो ऽवर्धिष्ट । सुखेन तृतीयपुरुषार्थमसेविषाताम् । यदि मुहूर्तार्धमपि परस्परं
न ददृशाते तदानीमनेकयुगावगाढविरहवेदनावैधुर्यमाविर्भाव्यते । अनया रीत्या तेन मदनसेनेन
पुरुषार्थद्वयाद्विरतेन गरीयः सुखमनुभूय भूयसानेहसा कामपुरुषार्थरसोपसेवायां प्रावर्तिष्ट ।
 
उक्तं च । अमृतं शिशिरे वह्निरमृतं स्वामिगौरवम् ।
भार्यामृतं गुणवती धारोष्णममृतं पयः ॥
वाणी सारस्वती यस्य भार्या रूपवती सती ।
लक्ष्मीर्दानवती यस्य सफलं तस्य जीवितम् ॥
रम्या रामा यदि कुलवधूस्त्यागभोगाय वित्तं
वक्त्रे वाणी सरसमधुरा शंकरे चित्तवृत्तिः ।
सद्भिः सङ्गो वपुषि दृढता सत्कुले जन्म पुंसां
धिग्धिग्दुःखं निरशनपदं स्वर्गमेकान्तदुर्गम् ॥
 
इत्थं मदनसेन : समस्तमपि निजमुद्यममपहाय विषयोपभोग एवाश्रान्तविश्रान्तः । तदानीं तस्य पित्रा
शिक्षितुमादद्रे । इत्यभ्यधायि च । रे मदनसेन । त्वमात्मीयं व्यापारं परित्यज्याहर्निशं दयितायत्त एव
वर्तमानो ऽसि । तर्हि त्वदीयमेतद्व्यवसितमौचित्यं नानुषज्जते ।
 
उक्तं च । अतिव्ययो न कर्तव्यो नातिकामं परामृशेत् ।
अतितृष्णानपत्यश्च अवश्यं निहते धनम् ॥
अतिरूपाद्गता सीता अतिगर्वेण रावणः ।
अतिदानाद्वलिर्बद्धः सर्वत्रातिशयं त्यजेत् ॥
 
अस्मात्कारणान्नातिशय: कामसेवायां त्वया कार्य: । पुरुषेण स्थानेष्वेतेषु संतोष एवादर्तव्यः ।
 
उक्तं च । संतोषस्त्रिषु कर्तव्यो मन्मथे भोजने धने ।
त्रिषु चैव न कर्तव्यः तपसि ध्यानदानयोः ॥
 
इत्थं पित्रा बहुशो ऽनुशासितो ऽपि मदनसेनो विषयासक्तमानसो न तदुदितमभिमनुते स्म ।
 
आहुश्च । न पश्यति मदान्धो ऽपि कामान्धो ऽपि न पश्यति ।
चक्षुर्हीना न पश्यन्ति चार्थी दोषं न पश्यति ॥
अर्थातुराणां न सुखं न बन्धुः कामातुराणां न भयं न लज्जा ।
विद्यातुराणां न सुखं न निद्रा क्षुधातुराणां न रुचिर्न पक्कम् ॥
 
कारणादेतस्मान्मदनसेनो न पितुः शासनमभिमनुतेतराम् । ततोऽयं हरदत्तः पुत्रस्योपालम्भं त्रि-
विक्रमनामानं मित्रमाश्रावयत । ततस्तमाकर्ण्य त्रिविक्रमो हरदत्तमवादीत् । शृणु सखे । मन्मथर-