शुकसप्ततिः /59
This page has not been fully proofread.
373
वज्ञानं पितुरग्रे प्रोक्तवान् । तदासौ तस्याः प्रीत्या पुत्रावज्ञापरिहारविषयं न किमपि व्याहरति
स्म । इति सतिस बालकृष्णो ऽप्यचिन्तयत् । अतः परं कः प्रकार: कर्तव्यः । पितापि तावदस्मदीयं
पारमत्यं निरवदति एतस्याः प्रीतिप्रकर्षोल्लासेन । तस्यै हि स्नेहस्यास्य भङ्गोपायमारचयामि । एतावता
प्रयोजनमिदमस्मदीयं स्वत एव सेत्स्यति । तदन्वेकस्मिन्दिने बालकृष्णो निजजनकमभिवीच्य तत्सं-
निधानं गत्वा बभाषे । तात तव पुरस्तात्किं व्याहरामि । पित्राभिधत्स्वेति भणिते जगाद बालकृष्णः। 5
अस्माकं द्वितीयो जनकोऽस्ति । यथा त्वं करोषि तथैवासौ करोति प्रत्यहम् । तदा व्याजहार जनकः ।
तमपि मह्यमेकदा दर्शयिष्यसि । बालकृष्णो ललाप । कस्मिंश्चिद्दिवसे तुभ्यमपि दर्शयिष्यामीत्यभिधाय
मौनमेवास्ते । तदनु देवधरस्य हृदये विचिकित्सोदियाय । मनोगतमुवाच । स्त्रीणां चरित्रं को नाम
ज्ञातुमीष्टे ।न कस्यापि स्त्रियो ऽवश्यं वश्या भवेयुः ।
तथोक्तम् ।
शास्त्रं सुनिश्चितधियामपि चिन्तनीय
माराधितो ऽपि नृपतिः परिशङ्कनीयः ।
अङ्के स्थितापि युवतिः परिशङ्कनीया
शास्त्रे नृपे च युवतौ च कुतो वशित्वम् ॥
10
अपत्यं यत्किमपि वदति सोऽपि शब्दो न निर्मलो भवितुमर्हति । तस्य कथंचिदभिप्रायो विद्यते ।
इति मनसि निश्चित्य तस्यां भार्यायां पुरातनीं प्रीतिं परिहृत्य गालीवितरणताडनादिनातिरोषभावं 16
प्रादुष्कृत्य प्रवर्तमानो ऽस्ति । तदा तस्य भायी विचारदत्तचित्ता प्रावर्तत । ममोपर्येतादृशो ऽनन्य-
साधारणप्रेमास्य पत्युरासीत् । स त्वेतस्य बालकृष्णव्यसनेन पराहतः । तस्मादमुमेवाभ्यक्षयामि । ततो
यथा ह्ययं साधुर्भवति तथा कंचन प्रकारं करिष्यामि । ततः सा तं बालकृष्णं संनिधावाजुहाव ।
तदन्ववादीच्च । त्वं मदीयस्तातः । यदा मम श्रेयः करिष्यसि तदानीं तव समोहितं करिष्यामि । ततो
ऽभ्यधाद्वालकृष्णः । तव कुत्रत्यं श्रेयः । इत्यमेव भवत्या भवति । एतावन्तं कालं मम न कांचन चिन्तां 20
कृतवत्यसि । तदा साप्यभाणीत् । अतः प्रभृत्यार्य त्वदीयां परिचर्या सम्यक्करिष्यामि । यत्किमपि रम्यं
तद्भवते वितरामि । एतस्मिन्विषये मदीयमस्ति सुकृतं भाषणं च प्रयच्छामि । तदा स बालकृष्ण :
तस्याः श्रेयोनिर्माणं स्वीकृतवान् । तर्हि प्रभावति त्वमपि विचारय । स बालकृष्ण : पूर्वोदितं वचनं
कथं विनिमयति स्म । तदा प्रभावती विचारणाय प्रावर्तत परं नावजगाम । तदान पक्षिणमप्रा-
क्षीत् । सो ऽप्याह । प्रभावति तदान स बालकृष्णः पितरमासीनमभिवीच्य स्वयमपि तदुपकण्ठमा- 25
गादित्यभाषिष्ट । तातास्मदीयं द्वितीयं जनकं भवतो दर्शयिष्यामि । तदानीमभ्यधादसौ । दर्शयेति ।
इत्यभिधाय दर्पणमानीय पाणिनाग्रहीत्पितुरभिमुखं स्थापितवान् । तत्रत्यं प्रतिबिम्बमदर्शयत् । जगाद
चेदम् । एकस्त्वं जनको द्वितीयोऽयं जनकः । पाणिमचालयत् । तदानीं प्रतिबिम्बस्यापि वेपते स्म
पाणिः । ततश्चावोचत् । इदं तत्स भवति । यथैव भवान्कुर्वाणोऽस्ति तथैवायमपि करोति । तदान
तदुदीरणात्तस्य मनःस्थितो विकल्पः पर्यक्षीयत । तर्हि प्रभावति त्वमपीत्यमुत्तरं व्यत्ययसि यदि 80
तदानीं साधयात्मानं स्वमनोरथसाधनाय ॥
इति पञ्चाशत्कथा ॥ ५० ॥
पुनः प्रभावती पक्षिणं प्रश्नयति स्म । ततो ऽवददसावपि । देवि प्रभावति बहुबुद्धिः प्रकृतिः पा
र्थिवस्यायासमपचकार । तादृशं युक्तिविशेषं प्रयुक्ति भवती यदि तदानीं गमनमङ्गीकुरुतात् ।
तन्निशम्य प्रभावती शुकं बहुबुद्धिवृत्तान्तं पृच्छति । ततस्तदाविवर्णयिषुः पतत्री गिरां ग्रथनेन प्रभा- 35
वर्ती प्रीणयामास । प्रतापपुराभिधाने नगरे भरताचार्यनामधेयो नरेश्वरः । तस्यामात्यो बहुबुद्धि-
Abh d. I. Cl. d. k. Ak d. Wis3. XXI. Bd. II. Abth.
49