This page has not been fully proofread.

372
 
तद्वृत्तान्तम् । ततः शुको वदत् । आकर्णय प्रभावति । सुराभवननाम्नि नगरे चन्द्रशेखरो नाम राजा
राज्यं प्रशास्ति । तस्य कुमारी मलमञ्जरी । तस्मिन्ग्रामे मन्त्रसारनामाग्रजन्मा भिक्षावृत्त्या जीवति ।
कस्यचिन्मस्तकमुदरादिकं यदि व्यथते तदानीं जलं विभूतिं वाभिमन्य प्रयच्छति । इत्थं बालकानां
ग्रहनिग्रहादिकरणेन ग्राममध्यगताः कृशमध्याः स्त्रियस्तं भजन्ते । न जानाति किंचनापि परं धायी-
5 वलम्बनेन तिष्ठत्यसौ । इति सति राज्ञः कुमारीगले ग्रन्थिसंविधानकमुदभूत् । तदपकरणायानेकशो
भिषजश्च मन्त्रवादिनच समाहताः परं न कस्यापि सामर्थ्येन स व्रण उपशान्तिं प्राप्नोति । असाध्यो
ऽयं व्रण इत्यभिधाय सर्वे ऽपि चिकित्सकास्तां तत्यजुः । ततो राजा पटहोदोषपुरःसरं सर्वमपि
लोकमित्यश्रावयत् । यो मदीयायाः कुमायाः व्रणापकरणं करिष्यति तस्मै सुवर्णानां सहस्रं प्रयच्छा-
मि । इति वार्त्ता वरवर्णिनी मन्त्रसारस्य स्त्री वीथीष्वौषीत् । सा तत्र गत्वा तेषां पुरस्तात्प्रतिज्ञा-
10 पुरःसरमभाषत । मदीयो भती कुमाया व्रणापकरणं करिष्यति । तदा राजा तया सह निजान्भटा-
न्प्राहिणोत्तमानेतुम् । तद्वीच्य मन्त्रसारो निजां भार्या व्याजहार । किमेतदिति । ततस्तया तद्वृत्तान्तमा-
वेदितं तस्मै । ततो ऽभ्यधात् । पापनिरते त्वयात्यन्तमसमञ्जसमेतद्विहितम् । अहं किमपि न जानानो
ऽस्मि येनौषधविशेषं प्रयोच्यामि । त्वयायं महाननर्थ आपादितः । इत्यभिधाय चिन्तां कर्तुं प्रावर्तत ।
ततो ब्राह्मणी तमभाणीत् । चिन्ता कस्मात्क्रियते । एतस्यां जगत्यां जानीत एवंविधः को नाम विद्यते ।
16 समस्तो ऽप्यलीकपरिकल्पितः । तर्हि भवन्तो ऽपि तत्र गत्वा राजानं संगत्य कुमाया ग्रन्थिं निरीक्ष्य
मन्त्राभिमन्त्रणं विधाय पुनरपि स्वगृहमागच्छन्तु । दिनद्वयेन कुमार्याी उल्लाघता भविष्यति भवतां
च यशः पृथिवीमानमापत्स्यते । अथ यदि साधु न भविष्यति कुमार्यास्तदानीमायुष उपरि प्रक्षिप्यते ।
एतत्ता भवद्भिषजां स्वभावव्यवहार इति युक्तिविशेषः सा तस्य पत्नी मन्त्रसारं दृढीचकार । ततो
मन्त्रसार इष्टदेवतां संस्मृत्य निरगान्वरनाथदर्शनाय । राजानं दृष्टवान् । राजा च तस्मै कुमाया गलग्र-
20 न्थिमदर्शयत् । तर्ह्याचक्ष्व प्रभावति । एवंविधे समये स मन्त्रसारः कमुपायमकार्षीत् । ततः प्रभावती
वितीर्णचित्ता तद्विचारविरचनायां प्रावर्तत । तत्स्वरूपं नैवाज्ञासीत् । ततो रात्रिरपि पर्यहीयत शुकं
चाप्राक्षीत् । शुकोऽप्यवदत् । तदानीमसौ मन्त्रसारो ब्राह्मणो दर्भशिखां गृहीत्वा कुमाया व्रणाभि-
मन्त्रणाय प्रावर्तत । स च मन्त्रो ऽर्थद्वारान्निर्दिश्यते । ओं नमश्चामुण्डे स्वामिनि । त्वं तु मदीया स्वा-
मिनी । चण्डालब्राह्मणि मय्यनर्थमापादितम् । एतस्मात्संकटान्मामाकर्षयसि तदानीं मदीयजन इति
25 भवसि । अवाग्वदने मौनमालम्बिनि स्वाहा । एतादृशं मन्त्रं व्याहतु प्रवृत्तः । सा च राजकुमारी तस्य
मन्त्रसारस्य मन्त्रमशृणोत् । तन्मन्त्र श्रवणादेव तस्या राजकुमाया हास्ययुक्तमास्यं प्रावर्तत । ततस्तस्या
हास्याविष्करणाद्राजकुमाया गलसंकुचिताः सिराः समुद्भूतबलादुदाकृष्टाः । तस्मिन्समये स व्रणः संजा-
तपाको ऽभवत् । नासिकासमाकर्षणबलाद्र णमप्यभिनत् । तन्मध्यगतं पूयकलिलं सर्वमपि निरक्रामत्तस्याश्च
स्वास्थ्यमजायत । तदा राजा तं संमानयामास । तर्हि प्रभावति सायासमीदृशमतिवर्तितुं प्रभवसि
30 चेत्तदा विधत्व निजाभिमतम् ॥
 
इत्येकोनपञ्चाशत्कथा ॥ ४९ ॥
 
पुनः प्रभावती जारवसतिं सिसीर्षुः शकुनिं प्रश्नातिथीचकार । शुकोऽभ्यधात् । देवि बालकृष्णवदुत्तर-
विनिमयं कर्तुमीशिषे यदि तदानीमादरो विधीयताम् । प्रभावती जगाद शुकम् । तद्भवान्बालकृष्णोत्तर-
विनिमयचरितं ब्रूहीति । तदानीं शुकः प्रोवाच । गोवर्धननगरे लक्ष्मीनारायणस्य महान्प्रासादो ऽस्ति ।
35 तस्य परिचर्याकरो देवधरनामा ब्राह्मणः । तस्य पञ्चवर्षीयः पुत्रः । तस्य बालकृष्ण इति नामधेयम् ।
तस्य जननी संतस्थौ।पश्चाद्देवधरः प्रमोतभार्यः पुनरप्यात्मानमुद्वाहितवान् । सा च बालकृष्णस्य सपत्नी
जननी बालकृष्णं सर्वदैवावजानीते । तस्यान्नौदनादिसौकर्यमपि न करोति । तदानीं बालकृष्णस्तत्कृता-