शुकसप्ततिः /57
This page has been fully proofread twice.
नीतवान् । तर्हि प्रभावति त्वमप्येतादृशं विज्ञानचातुर्यं यदि जानासि तदानीं स्वाभिलषितसिषा -
धयिषायामुद्यममवलम्बस्व ॥
इति सप्तचत्वारिंशत्कथा ॥ ४७ ॥
ततः पुनः प्रभावती विनयकन्दर्पसमीपमियासुः पतंगपुंगवमवोचत् । सो ऽप्यवदत् । देवि प्रियंवदवदुपा -
यान्तरं प्रपञ्चयसि यदि ततो ऽभियुङ्क्ष्व । सा कीदृक् चरितमिति शुकमन्वयुङ्क्त । सो ऽपि तदाविवेद -
यिषुस्तामभाषिष्ट । शृणु देवि प्रभावति । विनोदपुरं नाम नगरम् । तत्र प्रियंवदनामा वणिक् । तस्य
संपत्तिः शनैः शनैः पर्यहीयत । तत उद्यमनिर्माणाय किमपि मूलसाधनविधानाय धनं याचितवान् ।
ततस्तद्गृहीत्वा स्वयमुद्यमं समुद्दिश्य निरगात् । तदन्वसौ व्यवसायं विधाय निजलोहमयतुलानयनाय
तद्द्रविणसमर्पणाय तस्य धनिकस्य गृहमगच्छत् । तदन्वसौ धनिकस्तुलायामभिलाषमकार्षीत् । स चा -
धमर्णं जगाद । त्वदीयां लौहीं तुलां मूषिका अप्सासिषुः । तद्वचनं निशम्य नासावधमर्ण:णः किमपि
प्रत्युत्तरं तस्मै प्रायच्छत् । मौनमेवावलम्ब्य स्थितः । तदन्वभ्यर्णमागत्याधमर्णो ऽभ्यधात् । तर्हि स्वगृहा -
न्गच्छामः । तदानीमुत्तमर्णो वाचमाददे । अद्यैवाप्लवनं देवतावरिवस्यां च विधाय भोजनं कुर्वन्तु पश्चा -
त्स्वगृहमङ्गीकुर्वन्तु । तदानीमसौ तत्रैव सर्वं प्रीत्यवसादनायावसानं चकार । तदनु गृहागमनसमये
धनिकस्य पुमपत्यं द्वारि दीप्यत्कव्ट्यामधिरोप्य सर्वेषां पश्यतां निजगृहानुद्दिश्य निरगात् । तदन्वादाय
तदपत्यं भूमिगृहे स्थापितवान् । इति तदपत्यस्य मातृपितृसखिबन्धुवर्ग अन्वीक्षणाय प्रयतते । तदपत्यं
न दृश्यत इत्युद्घोष:षः सर्वत्रापि प्रसरीसरीति स्म । तदा तत्प्रतिवेशिनी महिला व्याहरत् । भवतां यः
प्राहुणिकः समागतः स भवदीयमपत्यं गृहीत्वा गतवान् । ततस्ते धावमानाः तद्गृहानगच्छन् । तत्र
गत्वा तमप्राक्षुः । ततो ऽभ्यधादसौ । मया भवदीयमपत्यं नाग्राहीति । तयोर्विवदतोर्नभःस्पृशः शब्दः
प्रादुरभूत् । तौ द्वावपि वर्गौ विवदमानौ राजकुलमगाताम् । स तु धनिकस्तदीयमपत्प<error>त्प</error><fix>त्य</fix>हरणलक्षणं
चरितं राजानमश्रावयत् । राजा च तमधमर्णमाहूयापृच्छत् । एतदीयमपत्यमपाहार्षीस्तत्किमकारि -
भवता । तर्ह्याचक्ष्व प्रभावति । तदासावधमर्णः किमुत्तरमकार्षीत् । ततः प्रभावती विचारदत्तचित्तापि
तदुत्तरं नाकलयत् । तदानीं शुकमुखेन तदुत्तरमाविरचीकरत्प्रभावती । तदानीमसौ राजानं व्यजि -
ज्ञपत् । अहमेतदीयं पुमपत्यमहार्षम् । तदहं पुनरप्येतदीयं पुमपत्यं निजसदनं नेतुमुद्युक्तवानस्मि । तावता
सहसा विहायसा समेत्य श्येन एतदीयमपत्यं गृहीत्वा गगनमार्गं रयादयासीन्नभोगमनः । तदुत्तरं
निशम्य सर्वे ऽपि ते भूसुपर्वसहिता निर्वर्णनपरास्तदुर्वीपतिसचिवास्तदपूर्वमपूर्वमिति व्याकुर्वाणा -
श्चमन्<error>न्</error><fix>त्</fix>कुर्वते । त्वं किमेतदुक्तमसमञ्जसं भाषसे । विष्किलः कुत्रापत्यमपाहरत् । एतददृष्टपूर्वमश्रुतपूर्वं च ।
तदानीं स मन्दमोदमानसो वसुधाधिपमभ्यधत्त ।
यत उक्तम् । तुलां लोहसहस्रस्य यत्र खादन्ति मूषिका:काः ।
गजं तत्र हरेच्छ्येनः का कथा वद दारके ॥
ततस्ते पुनरेवमवादिषुर्विद्वांसः । त्वं किमेतदभिदधानो ऽसि ।<flag>श्रृ</flag>ऋजुवचोभिरावेदय । तदनु तुलावृत्ता -
न्तमादितःप्रभृति तेभ्यो न्यवीविदत् । तदनु मेदिनीनायकस्तद्वृत्तान्तावगमादुत्तमर्णायाक्रुध्यत् । तदीयां
लौर्हीहीं तुलां तस्मै दापयामास । तर्हि प्रभावति त्वमप्येतादृशोपायरचनं प्रपञ्चयसि यदि तदानीं
स्वकार्यसाधने धृतावधाना भव ॥
इत्यष्टचत्वारिंशत्कथा ॥ ४८ ॥
पुन:नः प्रभावत्या पृष्टः शुकः प्रत्याह । देवि मन्त्रसारब्राह्मणवत्संकोचापाते निस्तरितुं यदि पारयसि
तदानीं साधय समीहितम् । ततः प्रभावती प्रत्युवाच । मन्त्रसारः कथं संकीर्णं निस्तीर्णवान् । व्यावर्णय
धयिषायामुद्यममवलम्बस्व ॥
इति सप्तचत्वारिंशत्कथा ॥ ४७ ॥
ततः पुनः प्रभावती विनयकन्दर्पसमीपमियासुः पतंगपुंगवमवोचत् । सो ऽप्यवदत् । देवि प्रियंवदवदुपा
यान्तरं प्रपञ्चयसि यदि ततो ऽभियुङ्क्ष्व । सा कीदृक् चरितमिति शुकमन्वयुङ्क्त । सो ऽपि तदाविवेद
यिषुस्तामभाषिष्ट । शृणु देवि प्रभावति । विनोदपुरं नाम नगरम् । तत्र प्रियंवदनामा वणिक् । तस्य
संपत्तिः शनैः शनैः पर्यहीयत । तत उद्यमनिर्माणाय किमपि मूलसाधनविधानाय धनं याचितवान् ।
ततस्तद्गृहीत्वा स्वयमुद्यमं समुद्दिश्य निरगात् । तदन्वसौ व्यवसायं विधाय निजलोहमयतुलानयनाय
तद्द्रविणसमर्पणाय तस्य धनिकस्य गृहमगच्छत् । तदन्वसौ धनिकस्तुलायामभिलाषमकार्षीत् । स चा
धमर्णं जगाद । त्वदीयां लौहीं तुलां मूषिका अप्सासिषुः । तद्वचनं निशम्य नासावधमर्
प्रत्युत्तरं तस्मै प्रायच्छत् । मौनमेवावलम्ब्य स्थितः । तदन्वभ्यर्णमागत्याधमर्णो ऽभ्यधात् । तर्हि स्वगृहा
न्गच्छामः । तदानीमुत्तमर्णो वाचमाददे । अद्यैवाप्लवनं देवतावरिवस्यां च विधाय भोजनं कुर्वन्तु पश्चा
त्स्वगृहमङ्गीकुर्वन्तु । तदानीमसौ तत्रैव सर्वं प्रीत्यवसादनायावसानं चकार । तदनु गृहागमनसमये
धनिकस्य पुमपत्यं द्वारि दीप्यत्क
तदपत्यं भूमिगृहे स्थापितवान् । इति तदपत्यस्य मातृपितृसखिबन्धुवर्ग अन्वीक्षणाय प्रयतते । तदपत्यं
न दृश्यत इत्युद्घो
प्राहुणिकः समागतः स भवदीयमपत्यं गृहीत्वा गतवान् । ततस्ते धावमानाः तद्गृहानगच्छन् । तत्र
गत्वा तमप्राक्षुः । ततो ऽभ्यधादसौ । मया भवदीयमपत्यं नाग्राहीति । तयोर्विवदतोर्नभःस्पृशः शब्दः
प्रादुरभूत् । तौ द्वावपि वर्गौ विवदमानौ राजकुलमगाताम् । स तु धनिकस्तदीयमप
चरितं राजानमश्रावयत् । राजा च तमधमर्णमाहूयापृच्छत् । एतदीयमपत्यमपाहार्षीस्तत्किमकारि
भवता । तर्ह्याचक्ष्व प्रभावति । तदासावधमर्णः किमुत्तरमकार्षीत् । ततः प्रभावती विचारदत्तचित्तापि
तदुत्तरं नाकलयत् । तदानीं शुकमुखेन तदुत्तरमाविरचीकरत्प्रभावती । तदानीमसौ राजानं व्यजि
ज्ञपत् । अहमेतदीयं पुमपत्यमहार्षम् । तदहं पुनरप्येतदीयं पुमपत्यं निजसदनं नेतुमुद्युक्तवानस्मि । तावता
सहसा विहायसा समेत्य श्येन एतदीयमपत्यं गृहीत्वा गगनमार्गं रयादयासीन्नभोगमनः । तदुत्तरं
निशम्य सर्वे ऽपि ते भूसुपर्वसहिता निर्वर्णनपरास्तदुर्वीपतिसचिवास्तदपूर्वमपूर्वमिति व्याकुर्वाणा
श्चम
तदानीं स मन्दमोदमानसो वसुधाधिपमभ्यधत्त ।
यत उक्तम् । तुलां लोहसहस्रस्य यत्र खादन्ति मूषि
गजं तत्र हरेच्छ्येनः का कथा वद दारके ॥
ततस्ते पुनरेवमवादिषुर्विद्वांसः । त्वं किमेतदभिदधानो ऽसि ।
न्तमादितःप्रभृति तेभ्यो न्यवीविदत् । तदनु मेदिनीनायकस्तद्वृत्तान्तावगमादुत्तमर्णायाक्रुध्यत् । तदीयां
लौ
स्वकार्यसाधने धृतावधाना भव ॥
इत्यष्टचत्वारिंशत्कथा ॥ ४८ ॥
पु
तदानीं साधय समीहितम् । ततः प्रभावती प्रत्युवाच । मन्त्रसारः कथं संकीर्णं निस्तीर्णवान् । व्यावर्णय