This page has been fully proofread once and needs a second look.

371
 
नीतवान् । तर्हि प्रभावति त्वमध्प्येतादृशं विज्ञानचातुर्यं यदि जानासि तदानीं स्वाभिलषितसिषा -

धयिषायामुद्यममवलम्बस्व ॥
 

इति सप्तचत्वारिंशत्कथा ॥ ४७ ॥
 

 
ततः पुनः प्रभावती विनयकन्दर्पसमीपमियासुः पतंगपुंगवमवोचत् । सो ऽप्यवदत् । देवि प्रियंवदवदुपा -

यान्तरं प्रपञ्चयसि यदि ततो ऽभियुद्धङ्क्ष्व । सा कीदृक् चरितमिति शुकमन्वयुङ्क्त । सो ऽपि तदाविवेद - 5

यिषुस्तामभाषिष्ट । शृणु देवि प्रभावति । विनोदपुरं नाम नगरम् । तत्र प्रियंवदनामा वणिक् । तस्य

संपत्तिः शनैः शनैः पर्यहीयत । तत उद्यमनिर्माणाय किमपि मूलसाधनविधानाय धनं याचितवान् ।

ततस्तद्गृहीत्वा स्वयमुद्यमं समुद्दिश्य निरगात् । तदन्वसौ व्यवसायं विधाय निजलोहमयतुलानयनाय

तद्द्रविणसमर्पणाय तस्य धनिकस्य गृहमगच्छत् । तदन्वसौ धनिकस्तुलायामभिलाषमकार्षीत् । स चा -

धमर्णं जगाद । त्वदीयां लौहीं तुलां मूषिका अप्सासिषुः । तद्वचनं निशम्य नासावधमर्ण: किमपि 10

प्रत्युत्तरं तस्मै प्रायच्छत् । मौनमेवावलम्ब्य स्थितः । तदन्वभ्यर्ण मागत्याधमर्णो ऽभ्यधात् । तर्हि स्वगृहा -

न्गच्छामः । तदानीमुत्तमर्णो वाचमाददे । अद्यैवाप्लवनं देवतावरिवस्यां च विधाय भोजनं कुर्वन्तु पश्चा
-
त्स्वगृहमङ्गीकुर्वन्तु । तदानीमसौ तत्रैव सर्वं प्रीत्यवसादनायावसानं चकार । तदनु गृहागमनसमये

धनिकस्य पुमपत्यं द्वारि दीप्यत्कव्यामधिरोप्य सर्वेषां पश्यतां निजगृहानुद्दिश्य निरगात् । तदन्वादाय

तदपत्यं भूमिगृहे स्थापितवान् । इति तदपत्यस्य मातृपितृसखिबन्धुवर्ग अन्वीक्षणाय प्रयतते । तदपत्थं 15
यं
न दृश्यत इत्युदोद्घोष: सर्वत्रापि प्रसरीसरीति स्म । तदा तत्प्रतिवेशिनी महिला व्याहरत् । भवतां यः

प्राहुणिकः समागतः स भवदीयमपत्यं गृहीत्वा गतवान् । ततस्ते धावमानाः तद्गृहानगच्छन् । तत्र

गत्वा तमप्राचुःक्षुः । ततो ऽभ्यधादसौ । मया भवदीयमपत्यं नाग्राहीति । तयोर्विवदतोर्नभःस्पृशः शब्दः

प्रादुरभूत् । तौ द्वावपि वर्गोगौ विवदमानीनौ राजकुलमगाताम् । स तु धनिकस्तदीयमपत्पहरणलक्षणं

चरितं राजानमश्रावयत् । राजा च तमधमर्णमाहूयापृच्छत् । एतदीयमपत्यमपाहार्षीस्तत्किमकारि 20
-
भवता । तर्ह्याचक्ष्व प्रभावति । तदासावधमर्णः किमुत्तरमकार्षीत् । ततः प्रभावती विचारदत्तचित्तापि

तदुत्तरं नाकलयत् । तदानीं शुकमुखेन तदुत्तरमाविरचीकरत्प्रभावती । तदानीमसीसौ राजानं व्यजि -

ज्ञ
पत् । अहमेतदीयं पुमपत्यमहार्षम् । तदहं पुनरप्येतदीयं पुमपत्यं निजसदनं नेतुमुद्युक्तवानस्मि । तावता

सहसा विहायसा समेत्य श्येन एतदीयमपत्यं गृहीत्वा गगनमार्गं रयादयासीन्नभोगमनः । तदुत्तरं

निशम्य सर्वे ऽपि ते भूसुपर्वसहिता निर्वर्णनपरास्तदुर्वीपतिसचिवास्तदपूर्वमपूर्वमिति व्याकुर्वाणा - 25

श्
चमन्कुर्वते । त्वं किमेतदुक्तमसमञ्जसं भाषसे । विष्किलः कुत्रापत्यमपाहरत् । एतददृष्टपूर्वमश्रुतपूर्वं च ।

तदानीं स मन्दमोदमानसो वसुधाधिपमभ्यधत्त ।
 

 
यत उक्तम् ।
 
तुलां लोहसहस्रस्य यत्र खादन्ति मूषिका: ।

गजं तत्र हरेच्छचेछ्येनः का कथा वद दारके ॥
 

 
ततस्ते पुनरेवमवादिषुर्विद्वांसः । त्वं किमेतदभिदधानो ऽसि । <flag>श्रृ</flag>जुवचोभिरावेदय । तदनु तुलावृत्ता - 30

न्तमादितःप्रभृति तेभ्यो न्यवीविदत् । तदनु मेदिनीनायकस्तद्वृत्तान्तावगमादुत्तमणीर्णायाकुक्रुध्यत् । तदीयां

लौहींर्ही तुलां तस्मै दापयामास । तर्हि प्रभावति त्वमप्येतादृशोपायरचनं प्रपञ्चयसि यदि तदानीं

स्वकार्यसाधने धृतावधाना भव ॥
 

इत्यष्टचत्वारिंशत्कथा ॥ ४८ ॥
 

 
पुन: प्रभावत्या पृष्टः शुकः प्रत्याह । देवि मन्त्रसारब्राह्मणवत्संकोचापाते निस्तरितुं यदि पारयसि 36

तदानीं साधय समीहितम् । ततः प्रभावती प्रत्युवाच । मन्त्रसारः कथं संकीर्णं निस्तीर्णवान् । व्यावर्णय