This page has not been fully proofread.

371
 
नीतवान् । तर्हि प्रभावति त्वमध्येतादृशं विज्ञानचातुर्य यदि जानासि तदानीं स्वाभिलषितसिषा-
धयिषायामुद्यममवलम्बस्व ॥
 
इति सप्तचत्वारिंशत्कथा ॥ ४७ ॥
 
ततः पुनः प्रभावती विनयकन्दर्पसमीपमियासुः पतंगपुंगवमवोचत् । सो ऽप्यवदत् । देवि प्रियंवदवदुपा-
यान्तरं प्रपञ्चयसि यदि ततो ऽभियुद्ध । सा कीदृक् चरितमिति शुकमन्वयुत । सो ऽपि तदाविवेद- 5
यिषुस्तामभाषिष्ट । शृणु देवि प्रभावति । विनोदपुरं नाम नगरम् । तत्र प्रियंवदनामा वणिक् । तस्य
संपत्तिः शनैः शनैः पर्यहीयत । तत उद्यमनिर्माणाय किमपि मूलसाधनविधानाय धनं याचितवान् ।
ततस्तद्गृहीत्वा स्वयमुद्यमं समुद्दिश्य निरगात् । तदन्वसौ व्यवसायं विधाय निजलोहमयतुलानयनाय
तद्द्रविणसमर्पणाय तस्य धनिकस्य गृहमगच्छत् । तदन्वसौ धनिकस्तुलायामभिलाषमकार्षीत् । स चा-
धमर्ण जगाद । त्वदीयां लौहीं तुलां मूषिका अप्सासिषुः । तद्वचनं निशम्य नासावधमर्ण: किमपि 10
प्रत्युत्तरं तस्मै प्रायच्छत् । मौनमेवावलम्ब्य स्थितः । तदन्वभ्यर्ण मागत्याधमर्णो ऽभ्यधात् । तर्हि स्वगृहा-
न्गच्छामः । तदानीमुत्तमर्णो वाचमाददे । अद्यैवालवनं देवतावरिवस्यां च विधाय भोजनं कुर्वन्तु पश्चा
त्स्वगृहमङ्गीकुर्वन्तु । तदानीमसौ तत्रैव सर्व प्रीत्यवसादनायावसानं चकार । तदनु गृहागमनसमये
धनिकस्य पुमपत्यं द्वारि दीप्यत्कव्यामधिरोप्य सर्वेषां पश्यतां निजगृहानुद्दिश्य निरगात् । तदन्वादाय
तदपत्यं भूमिगृहे स्थापितवान् । इति तदपत्यस्य मातृपितृसखिबन्धुवर्ग अन्वीक्षणाय प्रयतते । तदपत्थं 15
न दृश्यत इत्युदोष: सर्वत्रापि प्रसरीसरीति स्म । तदा तत्प्रतिवेशिनी महिला व्याहरत । भवतां यः
प्राणिकः समागतः स भवदीयमपत्यं गृहीत्वा गतवान् । ततस्ते धावमानाः तद्गृहानगच्छन् । तत्र
गत्वा तमप्राचुः । ततो ऽभ्यधादसौ । मया भवदीयमपत्यं नाग्राहीति । तयोर्विवदतोर्नभःस्पृशः शब्दः
प्रादुरभूत । तौ द्वावपि वर्गो विवदमानी राजकुलमगाताम् । स तु धनिकस्तदीयमपत्पहरणलक्षणं
चरितं राजानमश्रावयत् । राजा च तमधमर्णमाहूयापृच्छत् । एतदीयमपत्यमपाहार्षीस्तत्किमकारि 20
भवता । तर्ह्याचक्ष्व प्रभावति । तदासावधमर्णः किमुत्तरमकार्षीत् । ततः प्रभावती विचारदत्तचित्तापि
तदुत्तरं नाकलयत् । तदानीं शुकमुखेन तदुत्तरमाविरचीकरत्प्रभावती । तदानीमसी राजानं व्यजि-
जपत् । अहमेतदीयं पुमपत्यमहार्षम् । तदहं पुनरप्येतदीयं पुमपत्यं निजसदनं नेतुमुयुक्तवानस्मि । तावता
सहसा विहायसा समेत्य श्येन एतदीयमपत्यं गृहीत्वा गगनमार्ग रयादयासीन्नभोगमनः । तदुत्तरं
निशम्य सर्वे ऽपि ते भूसुपर्वसहिता निर्वर्णनपरास्तदुर्वीपतिसचिवास्तदपूर्वमपूर्वमिति व्याकुर्वाणा- 25
चमकुर्वते । त्वं किमेतदुक्तमसमञ्जसं भाषसे । विष्किलः कुत्रापत्यमपाहरत् । एतददृष्टपूर्वमश्रुतपूर्व च ।
तदानीं स मन्दमोदमानसो वसुधाधिपमभ्यधत्त ।
 
यत उक्तम् ।
 
तुलां लोहसहस्रस्य यत्र खादन्ति मूषिका: ।
गजं तत्र हरेच्छचेनः का कथा वद दारके ॥
 
ततस्ते पुनरेवमवादिषुर्विद्वांसः । त्वं किमेतदभिदधानो ऽसि । श्रृजुवचोभिरावेदय । तदनु तुलावृत्ता- 30
न्तमादितःप्रभृति तेभ्यो न्यवीविदत् । तदनु मेदिनीनायकस्तद्वृत्तान्तावगमादुत्तमणीयाकुध्यत् । तदीयां
लौहीं तुलां तस्मै दापयामास । तर्हि प्रभावति त्वमप्येतादृशोपायरचनं प्रपञ्चयसि यदि तदानीं
स्वकार्यसाधने धृतावधाना भव ॥
 
इत्यष्टचत्वारिंशत्कथा ॥ ४८ ॥
 
पुन: प्रभावत्या पृष्टः शुकः प्रत्याह । देवि मन्त्रसारब्राह्मणवत्संकोचापाते निस्तरितुं यदि पारयसि 36
तदान साधय समीहितम् । ततः प्रभावती प्रत्युवाच । मन्त्रसारः कथं संकीर्ण निस्तीर्णवान् । व्यावर्णय