शुकसप्ततिः /56
This page has been fully proofread twice.
शुकपृष्टा प्रभावती विचारपरवशायत्तं मनः कुर्वाणापि न मानसे तन्निर्धारं जानाति शुकमेव पुनः
प्रश्नीकरोति स्म । शुको ऽवदत् । तदा तया बुद्धिमत्या गृहे ऽन्नपाका विविधाः साधिताः । पूर्वमेव
भर्तरि संकेतं सूचयामास । त्वयाद्य प्रजाभिः समस्ताभिः समं तस्मिन्ग्रामद्वारि समासादितव्यम् । विले -
पिका निष्यन्नास्तीत्यभिधायाहं पुनरपत्यं भवतः समीपे प्रस्थापयिष्यामि त्वामाकारयितुम् । तदानीं
भवता अर्थिप्रजा अभिधातव्याः । आगच्छत सर्वे ऽपि सहसैव विलेपिकां भुञ्जीमहि । इति व्याहृत्य
सर्वे ऽपि सखायः महानसमानेतव्याः । इति कृतसंकेत:तः पूर्वं पट्टकिल:लः प्रजाभिः समस्ताभिः समेतो
ग्रामद्वारि समाविशत् । तदा सा निजं सुतं पुनरपि पित एहि विलेपिका सिद्धास्ति भोजनाया -
गच्छतेत्यभिधाय प्रास्थापयत् । स तु पितुरन्तिकमुपेत्य तथैवाभिहितवान् । सो ऽपि समस्ताः प्रजा -
स्तथैवाभिहितवान् । आगच्छत सर्वे ऽपि सहसैव विलेपिकामभ्यवहरामः । तदाश्रुत्य ते सर्वे ऽपि कौतुका -
लोकनपराः संभूय समागच्छन्नभ्यवहरणाय । तदानीमन्नानि विविधानि नानाप्रकाराः पाकविशेषाश्च
निष्पन्नाः सन्ति । तत्तथाविधं दिव्यान्नाहारं सर्वे ऽपि संभभूय कृतवन्तः । तदा तद्वीक्ष्य सर्वे ऽपि मिथः
प्रोचुः । पट्टकिलस्तु साधुप्रकारेण तिष्ठति । एतेषामेवंरूपस्य पाकविशेषस्य विलेपिकेति संज्ञा । इति तेन
पाकविशेषेण सर्वे ऽपि स्वचेतसि चमत्कृतवन्तः । तर्हि प्रभावत्येतादृशवचनस्यैतादृशयुक्त्या यद्यन्यथात्वं
प्रकल्पयितुं जानीषे तदा साधनीयं स्वकाङ्क्षितम् ॥
इति षट्चत्वारिंशत्कथा ॥ ४६ ॥
पुन:नः प्रभावती निजप्रेष्योपकण्ठं जिगमिषुः खगं वीक्षते स्म । तदिङ्गितज्ञः शुको व्याचष्टे । देवि हलपा -
लवदापतिते पराभियोगे यदि विज्ञानविशेषाङ्गीकारेण परेषामन्यथात्वस्फुरणं प्रसञ्जयसि मानसे
तदा स्वसमीहितसिद्ध्यभिमुखीभव । तदन्वभाषिष्ट प्रभावती । हलपालः कीदृग्विधं विज्ञानमाविष्कृतवान् ।
तद्वृत्तान्तमावेदयतु भवान् । ततः शुको वक्ति स्म । मोहनपुराभिधाने ग्रामे पूर्णपाल:लः कृषीवलो न्यवा -
त्सीत् । तस्य भृत्यो लाङ्गलं वहति स्म । तदभिधानं हलपाल इति । तस्याभ्यवहरणाय पूर्णपालस्य
तनया क्षेत्रे ऽशनं नीत्वा प्रतिदिनं गच्छति स्म । तयोर्द्वयोरपि तत्रामन्दानन्दसंदोहसमुद्भवं निधुवनं
धिनोति। । तयोश्चरितं क्षेत्रे परिसरवर्तिनः पूर्णपालाय न्यवेदयन् । इत्येकदा पूर्णपालस्तच्चरितालोकनाय
छन्नतनुरुपाविशत् । तदा साप्याहारं गृहीत्वा समागमत् । द्वयोरपि संभोगः समजायत । तच्चरितं पूर्ण -
पालो व्यालोकमानो ऽस्ति । हलपालस्तु पुरतो दृशं प्रादिशत् । तदा पूर्णपालमायान्तं लक्षयति स्म ।
तर्हि वावदीतु प्रभावती । हलपालस्तु तदानीं किमुत्तरं च करोति स्म । ततः प्रभावती विचारपरापि
न तदुत्तरं कलयति स्म । ततस्तया पृष्टः शुकस्तदुत्तरं श्रावयामास प्रभावतीम् । हे प्रभावति हलपा -
लस्तदा पूर्णपालमागच्छन्तमवेक्ष्य पूर्णपालपुत्रीमभाषत । त्वमधोमुखी स्वपिहि । ततो ऽसौ तस्या उदरं
पाणिभ्यां बलेन संवाहयामास । तथैव किंचिदेकाकी व्याहरति स्म । जाज्वलीतु जीवितं मामकीनम् ।
न कदापि दारिद्र्यस्य दरिद्रतामद्राक्षम् । दिने तु लाङ्गलं वाहयामि यामिन्यां तु गवां बन्धनदोहना -
द्युपचारः । तथा तस्मादेव चतुर्थे यामे समुत्थाय बलीवदीर्दानां चारणमुद्दिश्यारण्यमध्ये सह गन्तव्यम् ।
इदानीमेवाभ्यवहार्षम् । तदन्नं न यावता पक्कावाशयाभिमुखं प्रसरति स्म तावता स्वामिनस्तनयायाः
स्वस्थानाच्चलितो ग्रन्थिः । तस्य पुनरपि निजस्थानानयनायाभिमन्त्रणं संवाहनादि विधातव्यम् । एतस्या
उदरमपि मर्दनीयम् । इत्येतद्बह्वायासो मया साधयितुमशक्यः । अद्य स्वामी समागमिष्यति । तदा -
नीमहं तस्य पुरस्तात्सेवां विहाय यथागतं गमिष्यामि । स तु पूर्णपालो ऽप्यलक्षितस्तानि वचनानि
शृण्वन्नास्ते । तदनु स्वमनसि जगाद । वराको ऽयं सत्यचरित्र एव । एतस्य कष्टं बहु किल । इदानीं
संवहन्नस्त्युदरमेतस्याः । एतद्दृष्ट्वैव मनुष्या न जानते किमपि किमपि जल्पन्ति । ततो ऽसौ हलपालमा -
प्रश्नीकरोति स्म । शुको ऽवदत् । तदा तया बुद्धिमत्या गृहे ऽन्नपाका विविधाः साधिताः । पूर्वमेव
भर्तरि संकेतं सूचयामास । त्वयाद्य प्रजाभिः समस्ताभिः समं तस्मिन्ग्रामद्वारि समासादितव्यम् । विले
पिका निष्यन्नास्तीत्यभिधायाहं पुनरपत्यं भवतः समीपे प्रस्थापयिष्यामि त्वामाकारयितुम् । तदानीं
भवता अर्थिप्रजा अभिधातव्याः । आगच्छत सर्वे ऽपि सहसैव विलेपिकां भुञ्जीमहि । इति व्याहृत्य
सर्वे ऽपि सखायः महानसमानेतव्याः । इति कृतसंके
ग्रामद्वारि समाविशत् । तदा सा निजं सुतं पुनरपि पित एहि विलेपिका सिद्धास्ति भोजनाया
गच्छतेत्यभिधाय प्रास्थापयत् । स तु पितुरन्तिकमुपेत्य तथैवाभिहितवान् । सो ऽपि समस्ताः प्रजा
स्तथैवाभिहितवान् । आगच्छत सर्वे ऽपि सहसैव विलेपिकामभ्यवहरामः । तदाश्रुत्य ते सर्वे ऽपि कौतुका
लोकनपराः संभूय समागच्छन्नभ्यवहरणाय । तदानीमन्नानि विविधानि नानाप्रकाराः पाकविशेषाश्च
निष्पन्नाः सन्ति । तत्तथाविधं दिव्यान्नाहारं सर्वे ऽपि सं
प्रोचुः । पट्टकिलस्तु साधुप्रकारेण तिष्ठति । एतेषामेवंरूपस्य पाकविशेषस्य विलेपिकेति संज्ञा । इति तेन
पाकविशेषेण सर्वे ऽपि स्वचेतसि चमत्कृतवन्तः । तर्हि प्रभावत्येतादृशवचनस्यैतादृशयुक्त्या यद्यन्यथात्वं
प्रकल्पयितुं जानीषे तदा साधनीयं स्वकाङ्क्षितम् ॥
इति षट्चत्वारिंशत्कथा ॥ ४६ ॥
पु
लवदापतिते पराभियोगे यदि विज्ञानविशेषाङ्गीकारेण परेषामन्यथात्वस्फुरणं प्रसञ्जयसि मानसे
तदा स्वसमीहितसिद्ध्यभिमुखीभव । तदन्वभाषिष्ट प्रभावती । हलपालः कीदृग्विधं विज्ञानमाविष्कृतवान् ।
तद्वृत्तान्तमावेदयतु भवान् । ततः शुको वक्ति स्म । मोहनपुराभिधाने ग्रामे पूर्णपा
त्सीत् । तस्य भृत्यो लाङ्गलं वहति स्म । तदभिधानं हलपाल इति । तस्याभ्यवहरणाय पूर्णपालस्य
तनया क्षेत्रे ऽशनं नीत्वा प्रतिदिनं गच्छति स्म । तयोर्द्वयोरपि तत्रामन्दानन्दसंदोहसमुद्भवं निधुवनं
धिनोति
छन्नतनुरुपाविशत् । तदा साप्याहारं गृहीत्वा समागमत् । द्वयोरपि संभोगः समजायत । तच्चरितं पूर्ण
पालो व्यालोकमानो ऽस्ति । हलपालस्तु पुरतो दृशं प्रादिशत् । तदा पूर्णपालमायान्तं लक्षयति स्म ।
तर्हि वावदीतु प्रभावती । हलपालस्तु तदानीं किमुत्तरं च करोति स्म । ततः प्रभावती विचारपरापि
न तदुत्तरं कलयति स्म । ततस्तया पृष्टः शुकस्तदुत्तरं श्रावयामास प्रभावतीम् । हे प्रभावति हलपा
लस्तदा पूर्णपालमागच्छन्तमवेक्ष्य पूर्णपालपुत्रीमभाषत । त्वमधोमुखी स्वपिहि । ततो ऽसौ तस्या उदरं
पाणिभ्यां बलेन संवाहयामास । तथैव किंचिदेकाकी व्याहरति स्म । जाज्वलीतु जीवितं मामकीनम् ।
न कदापि दारिद्र्यस्य दरिद्रतामद्राक्षम् । दिने तु लाङ्गलं वाहयामि यामिन्यां तु गवां बन्धनदोहना
द्युपचारः । तथा तस्मादेव चतुर्थे यामे समुत्थाय बलीव
इदानीमेवाभ्यवहार्षम् । तदन्नं न यावता पक्
स्वस्थानाच्चलितो ग्रन्थिः । तस्य पुनरपि निजस्थानानयनायाभिमन्त्रणं संवाहनादि विधातव्यम् । एतस्या
उदरमपि मर्दनीयम् । इत्येतद्बह्वायासो मया साधयितुमशक्यः । अद्य स्वामी समागमिष्यति । तदा
नीमहं तस्य पुरस्तात्सेवां विहाय यथागतं गमिष्यामि । स तु पूर्णपालो ऽप्यलक्षितस्तानि वचनानि
शृण्वन्नास्ते । तदनु स्वमनसि जगाद । वराको ऽयं सत्यचरित्र एव । एतस्य कष्टं बहु किल । इदानीं
संवहन्नस्त्युदरमेतस्याः । एतद्दृष्ट्वैव मनुष्या न जानते किमपि किमपि जल्पन्ति । ततो ऽसौ हलपालमा