This page has been fully proofread once and needs a second look.

370
 
शुकपृष्टा प्रभावती विचारपरवशायत्तं मनः कुर्वाणापि न मानसे तन्निर्धारं जानाति शुकमेव पुनः

प्रश्नीकरोति स्म । शुको ऽवदत् । तदा तया बुद्धिमत्या गृहे ऽन्नपाका विविधाः साधिताः । पूर्वमेव

भर्तरि संकेतं सूचयामास । त्वयाद्य प्रजाभिः समस्ताभिः समं तस्मिन्ग्रामद्वारि समासादितव्यम् । विले -

पिका निष्यन्नास्तीत्यभिधायाहं पुनरपत्यं भवतः समीपे प्रस्थापयिष्यामि त्वामाकारयितुम् । तदानीं
5

भवता अर्थिप्रजा अभिधातव्याः । आगच्छत सर्वे ऽपि सहसैव विलेपिकां भुञ्जीमहि । इति व्याहृत्य

सर्वे ऽपि सखायः महानसमानेतव्याः । इति कृतसंकेत: पूर्वं पट्टकिल: प्रजाभिः समस्ताभिः समेतो

ग्रामद्वारि समाविशत् । तदा सा निजं सुतं पुनरपि पित एहि विलेपिका सिद्धास्ति भोजनाया -

गच्छतेत्यभिधाय प्रास्थापयत् । स तु पितुरन्तिकमुपेत्य तथैवाभिहितवान् । सो ऽपि समस्ताः प्रजा -

स्तथैवाभिहितवान् । आगच्छत सर्वे ऽपि सहसैव विलेपिकामभ्यवहरामः । तदाश्रुत्य ते सर्वे ऽपि कौतुका -
10

लोकनपराः संभूय समागच्छन्नभ्यवहरणाय । तदानीमन्नानि विविधानि नानाप्रकाराः पाकविशेषाञ्श्

निष्पन्नाः सन्ति । तत्तथाविधं दिव्यान्नाहारं सर्वे ऽपि संभय कृतवन्तः । तदा तद्वीच्क्ष्य सर्वे ऽपि मिथः

प्रोचुः । पट्टकिलस्तु साधुप्रकारेण तिष्ठति । एतेषामेवंरूपस्य पाकविशेषस्य विलेपिकेति संज्ञा । इति तेन

पाकविशेषेण सर्वे ऽपि स्वचेतसि चमत्कृतवन्तः । तर्हि प्रभावत्येतादृशवचनस्यैतादृशयुक्त्या यद्यन्यथात्वं

प्रकल्पयितुं जानीषे तदा साधनीयं स्वकाङ्गिक्षितम् ॥
 

इति षट्चत्वारिंशत्कथा ॥ ४६॥
 
15
 

 
पुन: प्रभावती निजप्रेष्योपकण्ठं जिगमिषुः खगं वीक्षते स्म । तदिङ्गितज्ज्ञः शुको व्याचष्टे । देवि हलपा -

लवदापतिते पराभियोगे यदि विज्ञानविशेषाङ्गीकारेण परेषामन्यथात्वस्फुरणं प्रसञ्जयसि मानसे

तदा स्वसमीहितसिद्ध्यभिमुखीभव। तदन्वभाषिष्ट प्रभावती । हलपालः कीदृग्विधं विज्ञानमाविष्कृतवान् ।

तद्वृत्तान्तमावेदयतु भवान् । ततः शुको वक्ति स्म । मोहनपुराभिधाने ग्रामे पूर्णपाल: कृषीवलो न्यवा -
20

त्
सीत् । तस्य भृत्यो लाङ्गलं वहति स्म । तदभिधानं हलपाल इति । तस्याभ्यवहरणाय पूर्णपालस्य

तनया क्षेत्रे ऽशनं नीत्वा प्रतिदिनं गच्छति स्म । तयोर्द्वयोरपि तत्रामन्दानन्दसंदोहसमुद्भवं निधुवनं

धिनोति।तयोश्चरितं क्षेत्रे परिसरवर्तिनः पूर्णपालाय न्यवेदयन् । इत्येकदा पूर्णपालस्तञ्च्चरितालोकनाय

छन्नतनुरुपाविशत् । तदा साप्याहारं गृहीत्वा समागमत् । द्वयोरपि संभोगः समजायत । तञ्च्चरितं पूर्ण -

पालो व्यालोकमानो ऽस्ति । हलपालस्तु पुरतो दृशं प्रादिशत् । तदा पूर्णपालमायान्तं लचयति स्म।
25
क्षयति स्म।
तर्हि वावदीतु प्रभावती । हलपालस्तु तदानीं किमुत्तरं च करोति स्म । ततः प्रभावती विचारपरापि

न तदुत्तरं कलयति स्म । ततस्तया पृष्टः शुकस्तदुत्तरं श्रावयामास प्रभावतीम् । हे प्रभावति हलपा -

लस्तदा पूर्णपालमागच्छन्तमवेक्ष्य पूर्णपालपुत्रीमभाषत । त्वमधोमुखी स्वपिहि । ततोऽसौ तस्या उदरं

पाणिभ्यां बलेन संवाहयामास । तथैव किंचिदेकाकी व्याहरति स्म । जाज्वलीतु जीवितं मामकीनम् ।

न कदापि दारिद्र्यस्य दरिद्रतामद्राक्षम् । दिने तु लाङ्गलं वाहयामि यामिन्यां तु गवां बन्धनदोहना -
80 व्

द्
युपचारः । तथा तस्मादेव चतुर्थे यामे समुत्थाय बलीवदीनां चारणमुद्दिश्यारण्यमध्ये सह गन्तव्यम् ।

इदानीमेवाभ्यवहार्षम् । तदन्नं न यावता पक्काशयाभिमुखं प्रसरति स्म तावता स्वामिनस्तनयायाः

स्वस्थानाञ्च्चलितो ग्रन्थिः । तस्य पुनरपि निजस्थानानयनायाभिमन्त्रणं संवाहनादि विधातव्यम् । एतस्या

उदरमपि मर्दनीयम् । इत्येतद्वद्बह्वायासो मया साधयितुमशक्यः । अद्य स्वामी समागमिष्यति । तदा -

नीमहं तस्य पुरस्तात्सेवां विहाय यथागतं गमिष्यामि । स तु पूर्णपालो ऽप्यलचिक्षितस्तानि वचनानि
36

शृण्वन्नास्ते । तदनु स्वमनसि जगाद । वराको ऽयं सत्यचरित्र एव । एतस्य कष्टं बहु किल । इदानीं

संवहन्नस्त्युदरमेतस्याः । एतद्दृष्दैट्वैव मनुष्या न जानते किमपि किमपि जल्पन्ति । ततो ऽसौ हलपालमा -