शुकसप्ततिः /55
This page has been fully proofread twice.
न्दिरमेयिवान् । तदनु द्वावपि भुक्त्वैकपङ्क्तौ सालश्रेष्ठी विशश्राम । तदानीमसौ कर्षकगृहिणीं चञ्चलदृगचलां
गुरुनिबिरीसनितम्बभारखिन्नां विषमशरविषमसमराभिलाषुकां उन्नतकुचकलशसीमासंवादविराम-
विगलितहारलतां चतुरचङ्क्रमणशिञ्चानमणिमञ्चीररवनिशमनलम्पटपदभिभवनकलहंसामनिमिषलोचनो
ददर्श । तद्दर्शनाद्वणिगपि स्मरशरासारसंहतिपरिहृतधैर्यः क्षणं चिन्तालतालूतिकाकलितहृदयस्तस्थौ ।
तद्दूतीमुखविज्ञातनिजवैरस्यो निजां करस्थितां रत्नमयोर्मिकां तत्परिग्रहाय दत्त्वा पञ्चशरसमर-
सौख्यमन्वभूत् । सापि मुद्रिकाभिलाषपरिगलितमानसा सर्वाङ्गसमर्पणेन तमनुससार । ततश्च सुरता-
वसाने सालश्रेष्ठी मनसि गरीयांसं विषादमकार्षीत् । सिद्धा पाणिस्था पृथिवीमूल्या रत्नमयमुद्रिका-
प्यगच्छत् । कतमं परमुपायं समर्पयामीति । तर्हि प्रभावतीदृग्व्यवस्थिते स वणिक्केन प्रकारेण निजां
मुद्रिकामपाहार्षीत् । प्रभावती ततश्चारु विचारं कुर्वाणापि न जानाति स्मोपायम् । तदनु तया पृष्टः
शुको व्याहर्तुमुपचक्रमे । निशामय निजोपरमणस<fix>ं</fix>गमाभिलाषिणि । प्रत्युषसि सालश्रेष्ठी नदीमासाद्य
करचरणाद्यवयवक्षालनं कृत्वा रचितपठीरललाटतिलको ग्रामद्वारि समासीनं कृषीवलवृषभं गत्वा
व्याहृतवानिदम् । वयं गत्वा प्रातर्निजाननदुहः समानयामः । तदनु गोधूमैर्घोणीरापूर्य तेषां पृष्ठेषु
समारोप्य गमिष्यामः । भवदीयया भार्ययास्माभिः समं धारणा निरंधरणायि । एतद्धारणानियम-
निर्माणनिमित्तमस्माभिर्निजहस्तमुद्रिका भवद्भार्याहस्ते दत्तास्ति । इति वणिगभिहितं समाकर्ण्य कर्षको
क्रोधमवष्टभ्नात् । अभ्यधाच्च । मुख्ये विद्यमाने स्त्रीकृतव्यवहारस्या<error>प्र</error><flagix>प्रमाण्यरा</flagix>माण्यप्रसंगात् । पश्य तर्हि तस्या एता-
वती सत्ता । स्वतन्त्रता कुत्रत्या यन्मया विना व्यवहारविधानसामर्थ्यम् । तदा स सासूयः कृषीवलः
संनिधाववस्थायिनं निजतनयं जगाद । याहि त्वं गृहान्गत्वा भवज्जनन्याः सकाशादेतन्मुद्रिकां प्रत्यर्पय ।
ततो ऽसौ तथा कृतवान्पितुराज्ञया । तर्हि प्रभावति त्वमप्येतादृशं संविद्विलासं परिकलयसि यदि
तद्विधाने समुन्मिष ॥
इति पञ्चचत्वारिंशत्कथा ॥ ४५ ॥
पुनः प्रभावती इयासुरुपरमणसमीपं पक्षिणं पर्यचिनोत् । तदा सो ऽप्यवदत् । रे बुद्धिमतीवोत्तरं
व्यत्ययितुं यदि नाटयसि तदा साध्यतां नाम । तदा प्रभावती बभाषे । बुद्धिमती कथमुत्तरं व्यत्ययति
स्म । तद्वृत्तान्तं भवानेकदा आवेदयतु । तच्छ्रुत्वा शुको ऽप्यकथयत् । मङ्गलपुराह्वये ग्रामे कलितनामा
कर्षकः । तस्य जाया बुद्धिमती । सैकदा भर्तारं व्याहार्षीत् । भवद्भिर्मत्परिधाननिमित्तं दुकूलमेकमा-
नयनीयम् । तच्छ्रुत्वा कृषीवलो ऽयं वाचं प्रायच्छत् । वयं कृषिधनाः कुटुम्बिनः । कार्पासा<error>न्यिए</error><fix>न्ये</fix>व वस्त्राणि
परिधीयन्ते ऽस्मादृशैः । त्वं पट्टदुकूलेन करिष्यसि किम् । तदभिहितं निशम्य सा बुद्धिमती मौनमव-
लम्बिन्येव तस्थौ । तत एकस्मिन्दिवसे पुरद्वारि सर्वाः प्रजाः समासीनास्तिष्ठन्ति । सो ऽप्येकतस्तासां
प्रजानां मुख्यभूतः पट्टकिल आसीनो वर्तते । तदानीं सा निजतनयं तदाह्वानाय प्राहिणोत् । याहि
रे त्वम् । तत्र गत्वा निजजनकमेवं वावदीहि यद्विलेपिका निष्पन्नास्ति । भवन्तो भोजनकरणाय
समाहूताः सन्ति । तदा तदपत्यं तदुपान्तिकं गत्वा तथैव व्याहरति स्म । तथाहूतेन तेन वचसा स
कृषीवलो मनस्यात्मीये भृशं जिह्राय । तद्वचनमेनमगृणोत् । गृहानागतवान् । इतरे तत्रोपवेशिनः सर्वे
परस्परं जहसुः । एवंविधस्यार्थवादः । किं गृहे विलेपिकाया भोजनविधिः । इत्थं तस्य पट्टकिलस्य सर्वे
ऽपि हसन्ति स्म । तदनु बुद्धिमत्यै सो ऽक्रुध्यत् । तदा सा वाचो युक्तिमुल्लासयति स्म । भवादृशां
कुटुम्बिनां कृषिजीविनां किं नाम मन्दाक्षभयम् । इति श्रुत्वासौ जहास जगाद च । तस्मिन्नस्मदभि-
हिते न वचनीयतास्मास्वापपात । वयं भवत्याः परिधानाय दुकूलमेकं साधीयो नयिष्यामः । एकदा
भवत्या इदमभिहितं अन्यथार्थाभिव्यञ्जकं युक्तिविशेषेण प्रकल्पयितव्यम् । मदीयह्रीराहित्यायैवं त्वया-
भिधातव्यम् । तर्हि प्रभावति व्याहरतु भवती । केनोपायालम्बनेन सा तं कष्टं विनिवर्तितवती । तदा
गुरुनिबिरीसनितम्बभारखिन्नां विषमशरविषमसमराभिलाषुकां उन्नतकुचकलशसीमासंवादविराम-
विगलितहारलतां चतुरचङ्क्रमणशिञ्चानमणिमञ्चीररवनिशमनलम्पटपदभिभवनकलहंसामनिमिषलोचनो
ददर्श । तद्दर्शनाद्वणिगपि स्मरशरासारसंहतिपरिहृतधैर्यः क्षणं चिन्तालतालूतिकाकलितहृदयस्तस्थौ ।
तद्दूतीमुखविज्ञातनिजवैरस्यो निजां करस्थितां रत्नमयोर्मिकां तत्परिग्रहाय दत्त्वा पञ्चशरसमर-
सौख्यमन्वभूत् । सापि मुद्रिकाभिलाषपरिगलितमानसा सर्वाङ्गसमर्पणेन तमनुससार । ततश्च सुरता-
वसाने सालश्रेष्ठी मनसि गरीयांसं विषादमकार्षीत् । सिद्धा पाणिस्था पृथिवीमूल्या रत्नमयमुद्रिका-
प्यगच्छत् । कतमं परमुपायं समर्पयामीति । तर्हि प्रभावतीदृग्व्यवस्थिते स वणिक्केन प्रकारेण निजां
मुद्रिकामपाहार्षीत् । प्रभावती ततश्चारु विचारं कुर्वाणापि न जानाति स्मोपायम् । तदनु तया पृष्टः
शुको व्याहर्तुमुपचक्रमे । निशामय निजोपरमणस<fix>ं</fix>गमाभिलाषिणि । प्रत्युषसि सालश्रेष्ठी नदीमासाद्य
करचरणाद्यवयवक्षालनं कृत्वा रचितपठीरललाटतिलको ग्रामद्वारि समासीनं कृषीवलवृषभं गत्वा
व्याहृतवानिदम् । वयं गत्वा प्रातर्निजाननदुहः समानयामः । तदनु गोधूमैर्घोणीरापूर्य तेषां पृष्ठेषु
समारोप्य गमिष्यामः । भवदीयया भार्ययास्माभिः समं धारणा निरंधरणायि । एतद्धारणानियम-
निर्माणनिमित्तमस्माभिर्निजहस्तमुद्रिका भवद्भार्याहस्ते दत्तास्ति । इति वणिगभिहितं समाकर्ण्य कर्षको
क्रोधमवष्टभ्नात् । अभ्यधाच्च । मुख्ये विद्यमाने स्त्रीकृतव्यवहारस्या<error>प्र</error><f