This page has been fully proofread once and needs a second look.

369
 
न्दिरमेयिवान् । तदनु द्वावपि भुक्कैकपकोत्वैकपङ्क्तौ सालश्रेष्ठी विशश्राम। तदानीमसीसौ कर्षकगृहिणीं चञ्चलदृगचलां

गुरुनिबिरीसनितम्बभारखिन्नां विषमशरविषमसमराभिलाषुकां उन्नतकुचकलशसीमासंवादविराम -

विगलितहारलतां चतुरचङ्क्रमणशिञ्चानमणिमञ्चीर रवनिशमनलम्पटपदभिभवनकलहंसामनिमिषलोचनो

ददर्श । तद्दर्शनाद्वणिगपि स्मरशरासारसंहतिपरिहृतधैर्य: क्षणं चिन्तालतालूतिकाकलितहृदयस्तस्थौ ।
तहू

तद्दू
तीमुखविज्ञातनिजवैरस्यो निजां करस्थितां रत्नमयोर्मिकां तत्परिग्रहाय दत्त्वा पञ्चशरसमर - 5

सौख्यमन्वभूत् । सापि मुद्रिकाभिलाषपरिगलितमानसा सर्वाङ्गसमर्पणेन तमनुससार । ततश्च सुरता -

वसाने सालश्रेष्ठी मनसि गरीयांसं विषादमकार्षीत् । सिद्धा पाणिस्था पृथिवीमूल्या रत्नमयमुद्रिका
-
प्यगच्छत् । कतमं परमुपायं समर्पयामीति । तर्हि प्रभावतीदृग्व्यवस्थिते स वणिक्केन प्रकारेण निजां

मुद्रिकामपाहार्षीत् । प्रभावती ततश्चारु विचारं कुर्वाणापि न जानाति स्मोपायम् । तदनु तथा पृष्टः

शुको व्याहर्तुमुपचक्रमे । निशामय निजोपरमणसगमाभिलाषिणि । प्रत्युषसि सालश्रेष्ठी नदीमासाथ 10
द्य
करचरणाद्यवयवक्षालनं कृत्वा रचितपठीरललाटतिलको ग्रामद्वारि समासीनं कृषीवलवृषभं गत्वा

व्याहृतवानिदम्। वयं गत्वा प्रातर्निजाननदुहः समानयामः । तदनु गोधूमैर्घोणीरापूर्य तेषां पृष्ठेषु

समारोप्य गमिष्यामः । भवदीयया भार्ययास्माभिः समं धारणा निरंधरणायि । एतद्धारणानियम -

निर्माणनिमित्तमस्माभिर्निजहस्तमुद्रिका भवनाद्भार्याहस्ते दत्तास्ति । इति वणिगभिहितं समाकर्ण्य कर्षको

क्रोधमवष्टभ्नात् । अभ्यधाच्च । मुख्ये विद्यमाने स्त्रीकृतव्यवहारस्याप्रमाण्यप्रसंगात् । पश्य तर्हि तस्या एता - 15

वती सत्ता । स्वतन्त्रता कुत्रत्या यन्मया विना व्यवहारविधानसामर्थ्यम् । तदा स सासूयः कृषीवलः

संनिधाववस्थायिनं निजतनयं जगाद । याहि त्वं गृहान्गत्वा भवज्जनन्याः सकाशादेतन्मुद्रिकां प्रत्यर्पय ।

ततो ऽसीसौ तथा कृतवान्पितुराज्ञया । तर्हि प्रभावति त्वमप्येतादृशं संविद्विलासं परिकलयसि यदि

तद्विधाने समुन्मिष ॥
 

इति पञ्चचत्वारिंशत्कथा ॥ ४५ ॥
 
20
 

 
पुन: प्रभावती इयासुरुपरमणसमीपं पक्षिणं पर्यचिनोत् । तदा सो ऽप्यवदत् । रे बुद्धिमतीवोत्तरं

व्यत्ययितुं यदि नाटयसि तदा साध्यतां नाम । तदा प्रभावती बभाषे । बुद्धिमती कथमुत्तरं व्यत्ययति

स्म । तद्वृत्तान्तं भवानेकदा आवेदयतु । तच्छ्रुत्वा शुको ऽप्यकथयत् । मङ्गलपुराह्वये ग्रामे कलितनामा

कर्षकः । तस्य जाया बुद्धिमती । सैकदा भर्तारं व्याहार्षीत् । भवद्भिर्मत्परिधाननिमित्तं दुकूलमेकमा -

नयनीयम्।तच्छ्रुत्वा कृषीवलो ऽयं वाचं प्रायच्छत् । वयं कृषिधनाः कुटुम्बिन: । कापीर्पासा<flag>न्येि</flag>व वस्त्राणि 25

परिधीयन्ते ऽस्मादृशैः । त्वं पट्टदुकूलेन करिष्यसि किम् । तदभिहितं निशम्य सा बुद्धिमती मीनमवमौनमव -

लम्बिन्येव तस्थौ । तत एकस्मिन्दिवसे पुरद्वारि सर्वाः प्रजाः समासीनास्तिष्ठन्ति । सो ऽप्येक तस्तासां

प्रजानां मुख्यभूतः पट्टकिल आसीनो वर्तते । तदानीं सा निजतनयं तदाहाह्वानाय प्राहिणोत् । याहि

रे त्वम् । तत्र गत्वा निजजनकमेवं वावदीहि यद्विलेपिका निष्पन्नास्ति । भवन्तो भोजनकरणाय

समाहूताः सन्ति । तदा तदपत्यं तदुपान्तिकं गत्वा तथैव व्याहरति स्म । तथाहूतेन तेन वचसा स 30

कृषीवलो मनस्यात्मीये भृशं जिह्वाराय । तद्वचनमेनमगृणोत् । गृहानागतवान् । इतरे तत्रोपवेशिनः सर्वे

परस्परं जहसुः । एवंविधस्यार्थवादः । किं गृहे विलेपिकाया भोजनविधिः । इत्यंथं तस्य पट्टकिलस्य सर्वे

अपि हसन्ति स्म । तदनु बुद्धिमत्यै सो ऽक्रुध्यत् । तदा सा वाचो युक्तिमुल्लासयति स्म । भवादृशां

कुटुम्बिनां कृषिजीविनां किं नाम मन्दाक्षभयम् । इति श्रुत्वासौ जहास जगाद च । तस्मिन्नस्मदभि -

हिते न वचनीयतास्मास्वापपात । वयं भवत्याः परिधानाय दुकूलमेकं साधीयो नयिष्यामः । एकदा 35

भवत्या इदमभिहितं अन्यथार्थीथाभिव्यञ्जकं युक्तिविशेषेण प्रकल्पयितव्यम् । मदीयहीह्रीराहित्यायैवं त्वया -

भिधातव्यम् । तर्हि प्रभावति व्याहरतु भवती । केनोपायालम्बनेन सा तं कष्टं विनिवर्तितवती । तदा