This page has not been fully proofread.

367
 
ततः सा रतिलीला तं कृषीवलं कुसलस्य पिधानोपरि उपवेशयामास । तदुपरि वेणुनिर्मितं स्वयं
पात्रं अवनतवदनतया निवेश्य स्थगितविग्रहमकार्षीत् । तं कर्षकं जगाद । कुसलान्तरे सर्पिणी प्रविष्टा-
सीत् । त्वयात्रावेपमानेनासितव्यम् । तदनु निशीथिनीपालकं गृहान्तरं निनाय । यावता सावुपविशति
तावता सेनानायको ऽप्याययौ । तदा रात्रिचरितं रचितपतत्रिकुचौ चिक्षेप ।
॥ तदनु सेनाधिपं तमन्तर-
नैषीत् । यावतासावन्तः प्रविशति तावता तस्याः कौमारः पतिरागच्छत् । तदा सेनाधिनाथ मञ्चकतलं 5
प्रावेशयत् । ततोऽभीष्टवर्गमाकार्य भुक्तिक्रियां निरवर्तयत् । मातीण्डस्त्वस्ताटवीतटनिकटमटति स्म ।
तदा तेषां चतुणं पायसपूर्ण पात्री: प्रकल्प्य प्रायच्छत् । उष्णं चीरान्नं शीतलीचिकीर्षुः कुसूला-
न्तःस्थितो वदनवायुना वीजयति स्म । तदा पिधानासनो मनस्यभिधत्ते । कुसूलान्तःस्थिता भुजंगी
फूत्कुर्वाणा वर्तते । प्रमादतो मां दशति यदि तदानीमद्यतनस्य मरणस्य प्रकारः कथमपनेतुं शक्य
इत्यभिधाय भयादमजयत । तदा तन्मत्रद्रवधारां निरीक्ष्य रतिलीला मह्यं पायसभोजननिमित्त 10
सर्पिः परिवेषयतीत्यभिधाय पायसपात्र घृतग्रहणायोदञ्चयत् । तत उद्धृतया पायसपाच्या पाय-
सस्योष्णेनापानस्थाने भृशमतप्यत पिधानोपरिस्थितस्तदासाविति संदेहयति यत्तलस्थिता भुजंगी मां
दशतीति निश्चितमतिर्मा लगति दशतीति क्रियासमभिहारेण ब्रुवाणो निरगाडावमानः । इतरेषां
त्रयाणां चेतसि वह्निरलगदिति संदिहाने पलायनप्रयत्नः प्रावर्तिष्ट । तदा मालिको गृहपरिवृढः परं
विस्मयमासाद्य कटिस्थितकर एवातिष्ठत् । कुत्रत्या इमे पुरुषा इति रतिलीलामप्राचीत् । तर्ह्याचक्ष्व 15
प्रभावति । तदानींतने समये सा किमुत्तरयति स्म । प्रभावती विचारमार्गमवगाहमानापि तदुत्तरं
न कलयामास । तदा तदुत्तरणाय प्रभावत्या पृष्टः शुको व्यापारयामास गिरम् । देवि तदानीं मा-
लिकेन पृष्टा रतिलीलेत्युत्तरं करोति स्म । एते भवतः पितरो ऽद्यायमस्मदङ्गजः पितृयज्ञं करिष्यतीत्या-
काङ्क्षया शरीरधारिणो निजमहालयदिने समाजग्मुः । ते भवति वीच्या श्रद्दधानतां नैराश्यविवशा-
दीर्घोच्छ्रासं भवद्वेश्म विमुच्य प्रतिययुः ।
 
अतोऽभ्यधुः ।
 
मन्त्रहीनं क्रियाहीनं श्रद्धाहीनं तु यत्कृतम् ।
डम्भमाश्रित्य यच्छ्राद्धं पितॄणां नोपतिष्ठते ॥
 
तर्हि प्रभावति त्वमप्येतादृशमुत्तरं कर्तुं प्रगल्भसे यदि तदाश्रय ॥
इति चिचत्वारिंशत्कथा ॥ ४३ ॥
 
20
 
पुनरपि प्रभातकाले विनयकन्दर्पमन्दिरं जिगमिषुर्मन्दहाससमुल्लसितास्या प्रभावती शुकमपृच्छत् । तदा 25
शुको बभाषे । देवि यथा गोविन्दो ब्राह्मणो निजं प्रयोजनं संसाध्य पुनरप्यात्मनो वस्त्रं गृहीतवा-
तथा कर्तु पारयति यदि भवती तदा विधीयताम् । इति श्रुत्वा प्रभावती गोविन्दचरितं व्या-
वर्णयतु भवानिति व्याहार्षीच्छुकम् । ततस्तत्त्वार्थविदाह विहंगः । कर्णय प्रभावति । जनस्थाने नगरे
गोविन्दनामा ब्राह्मणः । तस्य ग्रामस्याधिपः । स तु श्रीकृष्णदर्शननिमित्तं द्वारवतीमगच्छत् । स तु
श्रीकृष्णानं विधाय परमेश्वरोद्देशेन धनादिना श्रीकृष्णपरितोषकरं भक्तिविशेषं संपाद्य कतिचन 30
दिनानि स्थित्वा पुनरागच्छन्मार्गे दस्युभिर्लुण्ठितसर्वस्वो ग्राममेकमासदत् । तद्ग्रामसमीपे क्षेत्रसीमां
दृष्ट्वा तथा तत्पालिकां बालविधवां दृष्ट्वा मञ्चोपरि स्थितां विहगान्विनासयन्तीं मार्गपरिसरव-
र्तिनस्तरोस्तले श्रान्तो निषसाद । स्वस्कन्धस्थां भस्वामधस्ताद्विधाय हरि हरि श्रीकृष्ण द्वारकाना-
थेत्यादिदेवनामानि व्याहरमाणो भस्वाग्रन्थिं विस्रस्य श्रीकृष्णस्य महाप्रसाद गृह्णीध्वमित्यभिधाय
तस्यै श्रीकृष्णस्य शेषं प्रायच्छत् । तत्रोपविश्य विधवाया वासनानुसारिणीं वार्त्ता विधातुं प्रावर्तिष्ट। 35
तथारूपान्पञ्चषट्शब्दानुच्चार्य पुनरप्यब्रवीत्स्वसमीहितम् । अहं श्रीकृष्णदर्शननिमित्तं द्वारवर्ती गत्वा
 
48*