This page has not been fully proofread.

366
 
25
 
पुनः पुनरानन्दोद्रेकेण ननर्त । ततः स्वाचरितासाधुकर्मगृहनचतुरा सुरतसुन्दरी खैरं विचचार। तर्हि
प्रभावति त्वमपीदृशमुपायं जानीषे यदि तदा यातु भवती ॥
 
इति एकचत्वारिंशत्कथा ॥ ४१ ॥
 
ततः पुनः प्रभावती विनयकन्दर्पसमीपं जिगमिषुः शुकं गिरमुद्भावयितुं प्रववृते । तदनु तां शुको
वदत् । हे कौमुदि मूलदेववत्संकीर्णोपलवे समापतिते तन्निःसरणाय प्रसरति प्रतिभा यदि तदानीं
साधनीयं निर्बाधं स्वाभिलषितम् । ततः सा शुकं मूलदेवस्योपद्रवायासनिस्तरणप्रकारमप्राक्षीत् । शुको
ऽप्यवदत् । आकर्णय प्रभावति प्रतिभावति । महाकालाभिधा रुद्रभूमिः काचन । तत्र शाल्मलीपादपः ।
तस्मिन्द्वौ पिशाचौ स्तः । एकस्य कराल इत्यभिधानं द्वितीयस्य विकराल इति । तयोर्द्वयोरपि सर्वदा
विवादः। तयोर्द्वयोर्मध्ये करालो वक्ति यन्मदीया प्राणेश्वरी धूमावती सर्वाङ्गलीला सौन्दर्यविग्रहवती ।
10 तदा विकरालो व्याहरति । त्वं परतस्तिष्ठ मौनमवलम्बमानः । मदीया प्राणदयिता कर्कशा सा सर्वचा-
हुतातिशयप्रसृमर गुणगणाभ्युदयसमुदयिनी । इत्येवंरूपस्तयोर्विवादः क्षणमात्रमपि न विश्राम्यति । इत्यं
तेन मार्गेण मूलदेवपण्डित एकदा मार्गे गच्छन्नस्ति । तत्र स ताभ्यां लचितः । तौ प्रत्यक्षी भूत्वा तं
जग्राहतुः । एवमवादिष्टां च । त्वया पूर्वमावयोर्विवादो निर्णेतव्यः । तदनु यथागतं गन्तव्यम् । अस्मदी-
ययोर्द्वयोरपि सहचर्योर्मध्ये का नाम रूपातिशयशालिनी । इत्यभिधाय द्वे अपि भार्ये ती करा-
16 लविकराली मूलदेवाय ददृशाताम् । यावता मूलदेवो लक्षीकरोति तावता राक्षस्यी मूर्तिमयी
विकराले ऽभयस्यापि भीतिजनके मस्तकयोस्तु कचशून्यतया श्मशानकापालपत्तिदंष्ट्राविजिह्वाग्रेण
लिहन्त्यौ स्तः शब्दैर्दन्तान्निपीडयन्त्यौ स्तनौ तु जानुनोराच्छादनाय पटखण्डाविव दृश्येते । एवंविधे
ते तदानीमद्राक्षीन्मलदेवः । दृष्ट्वा चैते मूलदेवः परं संदेहमापेदे । यामेवाहं नेयं स्वरूपेति वक्ष्यामि
सैव मां दशनचर्वणाविरचितावयवशकलतां प्रापयिष्यतीति । तर्हि प्रभावति बहायाससाध्यं कथं
20 कृतवान् । पुनः प्रभावती शुकं पृष्टवती । शुको ऽप्यभाषिष्ट । मूलदेवः यद्यनयोरन्यतमां सुन्दरी व्या-
हरिष्यामि तदान्यन्मिथुनं मां जचितीत्यत उभे अपि सुन्दर्यो व्याहरिष्यामीति निश्चित्य ते दृष्ट्वोवाच ।
उभे अपि रूपसंपन्ने भवतः । युवयोः सदृश नाहमद्राक्षम् । ईदृश्यी सुन्दर्यो लब्ध्वा तिष्ठतोरनयोर्जन्मन
एव साफल्यं मन्ये । इति । ततस्ते बहुमानेन सानन्दं मूलदेवमुद्रीच्य विससर्जुः । ततो मूलदेवो जोवन्ना-
जगाम । मूलदेव इव त्वमप्युचिताचरणविचक्षणासि यदि तदा व्रजेति ॥
 
इति द्विचत्वारिंशत्कथा ॥ ४२ ॥
 
ततः प्रभावतो पटीरपारिहार्यादिभिरात्मानमलंकृत्य विनयकन्दर्पनिकेतनं गन्तुमाजगाम । ततस्तां शुको
ऽब्रवीत् । देवि रतिलीलावत्संकोचे समापतिते यदि कर्तुमुत्तरं पारयसि तदा साध्यताम् । ततो
रतिलीलाचरितमप्राचीत्प्रभावती नगोकसं सो ऽप्यवदत् । शृणु प्रभावति । पर्वतपुरीति नगरी । तत्र
कुटिलो नाम मालाकारः । तस्य पत्नी रतिलीला । सा च परपुरुषरता । पुराधिपो व्यवहारी तथा
30 सैन्याधिपः रात्रिरचकः एभिश्चतुर्भिरसेवत सुरतोपभोगम् । एकस्मिन्दिवसे मालाकारस्यापरपक्षे महा-
लयो ऽजायत । तस्मिन्दिने यो ऽभीष्टवर्गः सर्वोऽपि निमन्त्रितः । तया रतिलीलयात्मनः प्रेष्टाश्चत्वारो
निमन्त्रिताः । इमां प्रथमं भोक्तुं वणिकुपत्रः समागतवान् । तस्योपवेशनायासनं प्रचिक्षेप । तेन समं
तस्मिन्गोष्ठीकरणसमये तावता ग्रामाधिपः कर्षकः समागच्छति स्म । तं त्वायान्तमवेक्ष्य वेणुकविरचितं
कुसूलमध्ये विपणिनन्दनं प्रचिक्षेप सा । तदुपरि पिधानकमकार्षीत् । ततस्तं कुटुम्बिनं गृहान्तः प्रवेशया-
35 मास । तेनापि समं सुखगोष्ठी विधातव्या । तावता चपापालः समायातः । तदा स कृषीवलोऽप्यबिभेत्।