This page has been fully proofread twice.

चोच्चालयति स्म । सिंहस्तु स्वकोकीयं क्ष्वेलारवं प्रायूयुजत् । तदा तद्वापीमध्यात्प्रतिशब्द उदतिष्ठत् । तदनु
कोपावेशातिशयेन पञ्चाननो वाप्यामपतत् । वाप्यां पतित्वा नखरायुधो मरणमासेदिवात्<error>त्</error><fix>न्</fix> । तत्रत्यानि
सर्वाण्यपि सत्त्वानि सुखेन स्थातुं प्रवर्तन्ते ॥
 
तथा चाभ्यधुः । बुद्धिर्यस्य बलं तस्य दुर्बुद्धेस्तु कुतो बलम् ।
पश्य सिंहं मदोन्मत्तं शशकेन निपातितम् ॥
 
तर्हि प्रभावति यदीदृशं बुद्धिविशेषमीशिषे तदा याहि ॥

इति चत्वारिंशत्कथा ॥ ४० ॥
 
पुनः प्रभावती प्रश्नपरा प्रावर्तत । शुको ऽप्यभ्यधात् । देवि त्रैलोक्यसुन्दरीवायासनिस्तरणप्रतिभामुद्भा -
वयसि यदि तदा यातु भवती । तदा प्रभावती तद्वृत्तान्तमप्राक्षीत्पक्षिणं सो ऽपि प्रावोचत् । सिंहलपुरे
नगरे बहुबुद्धिनामा वैश्यः । तस्य सहचरी त्रैलोक्यसुन्दरी । सा च परपुरुषनियतमानसा । तस्याश्चरितं
सर्वे पि जानते बहुबुद्धेरपि पुरतो सर्वे ऽभिदधिरे परं नासौ तेषां वचनानि सत्यतयाङ्गीकरोति ।
तदन्वेकस्मिन्दिने प्रत्ययावगमाय ग्रामान्तरगमनमुद्घोष्य निरसरत् । ततः प्रत्यासन्ने प्रदोषसमये पा -
श्चात्यद्वारमार्गेण गृहमध्यमागत्य मञ्चकतलं प्रविवेश । सा त्रैलोक्यसुन्दरी निजमुपपतिं गृहं समानिनाय ।
तदनु रात्रावभ्यवहृत्योपपतिना समं सुरतोपभोगाय प्रावर्तिष्ट । तदानींतने समये चरणेन सा भर्ता -
रमस्प्राक्षीत् । स्पर्शसमय एव मदीयो भर्ता मद्रक्षणनिमित्तं गुप्तवृत्त्यात्रागत्यावस्थितो ऽस्तीत्यवगत्या -
गमदसौ प्रायशः शय्यातले निलीन इति । तर्हि प्रभावति विचारय त्वमपि । * * * । प्रभावती विचा -
रपरापि तदुपायं न ददर्श । ततः प्रभावती शुकं प्रति गिरमुद्भावयितुं प्रववृते । तदनु शुको ऽवदत् ।
भो प्रभावति शृणु । स्वाचरिततारकर्मवजिगमिषुमात्मनो भर्तारं शयनीयादधः शायिनं जानती
चरणस्पर्शमात्रेणोपपतिमुद्गतं रचयितुं चिरं रतिमुद्वीक्ष्य कटाक्षेणात्मनः परिवृढं ज्ञापयित्वावधृत -
मृषेर्ष्यापूर्वकमुवाच । रे रे मूढ तिष्ठ । किं मां भोक्तुमुद्यतो ऽस्यकुलटाम् । किमर्थं मदाह्वानं कृतवती
त्वमिति चेद्वक्ष्यामि । मदीयभरण्डायुषो ऽभिवृद्ध्यर्थमस्मत्कुलदेवतां त्रिपुरसुन्दरीं सपर्ययाजस्रमतोषयम् ।
सा त्वेकदा स्वप्न आगत्य मामुवाच । अये सुरतसुन्दरि तव भर्तुरायुरद्यैव गण्डादन्तमाप्नोतीति । ततो
ऽत्यन्तखिन्नहृदयया दयितैकदेवतया मया सपर्याक्रियासमभिहारेणामन्दानन्दं संप्राप्तास्मत्कुलदेवता
त्रिपुरसुन्दरी वाचमिमामुवाच । भो सुरतसुन्दर्यव्द्यतनदिन एव ते भवति गण्डात्परिवृढार्धायुषः
परिक्षयः । यदि तस्यायुषो ऽभिवृद्धिमाकाङ्क्षसि चेत्तदेतस्मिन्नेव दिवसे ऽन्यपुरुषमुपामन्त्र्य शयनीये
सानन्दमनङ्गमहोमहालता कन्दर्पामन्दमालिङ्गनं तस्य विधाय तस्मै रतिं प्रदातुमुद्यते ऽभूत्योपरता
भव । तेन तदङ्गसंगेनैवाद्य ते दयितायुः । अन्यो ऽपि ईदृशीं स्वरमणायुषो ऽभिवृद्धिमाकाङ्क्षमाणां
तदनन्यदेवतां त्वां धर्षयति चेदर्धायुषो हीयत इति । ततः श्रेयसे भूयसे चकारेदृशं कर्म रमणस्य ।
इतो ऽप्यात्मानं गर्हयन्तीमपांसुलां मां मा धर्षय । यदा धर्षयसि मां तदार्धायुषः परिक्षयस्ते भवति ।
 
यत आहुः । अपांसुलां पुष्पिणीं च बलाद्भुङ्गेक्ते नरो हि यः ।
क्षीणमायुर्भवेत्तस्य मूढस्याविदितात्मनः ॥
 
ततस्ते मदेकदेवताया रमणस्य चायुषो ऽभिवृद्धिर्भूयादतो यथागतं गच्छ गच्छ । यदि मामीदृशीं
पुनः पुनः स्पृशसि चेत्तदा गाढमुद्घोषयामीति । ततो बहुबुद्धिमान्नाम वैश्यः स्वकान्ताजल्पितमाकर्ण्य
मञ्चाधस्तादुत्थितो भार्यां सानन्दमुद्वीच्क्ष्य यतो मदायुषो ऽभिवृद्ध्यर्थमीदृशमपि कर्मापांसुलया भवत्या -
चरितमतो ऽस्मत्कुलदेवतायाः परं रूपं त्वमिति तां प्रशंसयंस्तस्याश्चरणयोः शिरसाभिवन्दनं विधाय