शुकसप्ततिः /50
This page has been fully proofread twice.
वकाः श्वेताम्बररक्षणाय परित उपविविशुः । कृतसंकेतः श्वेताम्बरो निजमन्दिरे न्यवात्सीत् । ततो
वेश्यापि तस्य वेश्म प्राविशत् । तदा श्वेताम्बर इत्यवगतवान् । मद्रक्षणकृते एते ऽत्र परितः प्रसरीसरन्ति ।
तर्हि प्रभावति भवत्यप्यावेदयतु । तदा श्वेताम्बर आत्मनः संजायमानां मानखण्डनां कथमपाकृतवान् ।
ततः प्रभावती विचारप्रतिभानिरता समजायत । यदा नावगच्छति तदा शुकमप्राक्षीत् । ततः शुको
ऽप्यवोचत् । शृणु प्रभावति । श्वेताम्बरस्तथेत्थं निरणैषीत् । यदिदं कैतवक्षपणको मदुपर्यारोपयन्नस्ति
अस्य क्षपणकस्य स्फिगुन्नतो ऽफलं दर्शयिष्यामीत्यभिधाय स्वयं क्षपणकवेषं विधाय पाणिना वेश्यां
विधृत्य बहिर्निरगात् । तद्रक्षकाः श्रावकाः तं क्षपणकमद्राक्षुः । तदन्वभिमुखं गत्वा विशेषतया न वि -
विक्षांचक्रुः । क्षपणकं चावज्ञासिषुः श्वेताम्बरं च सर्वे ऽपि मानयामासुः । तर्हि प्रभावति त्वमेवंरूपमु -
पायं परिकलयसि यदि तदानीं स्वसमीहितसाधनपरा भव ॥
इत्येकोनचत्वारिंशत्कथा ॥ ३९ ॥
पुनरपि प्रभावती शुकं पप्रच्छ शुकोअऽपि नानदीति स्म । देवि शशकवदात्मनो मरणमपाचरीकरीषि
तेनैव वैरिणः पराहताः तथा बुद्धिविशेषं प्रयुनक्षि यदि तदानीं यायाः । तदानीं तद्वृत्तान्तबुभुत्सया
प्रभावती प्रबभाषे । शशकवृत्तान्तं ब्रूहीति । ततः शुको बभाषे । शृणु श्रवणालंकरणवाणि । तारकरा -
लाभिघाटवी । तत्र कुटिलनामा पञ्चाननः । स तु सर्वानपि वनजीवान्निहन्ति । तदा तद्वनवासिनः
सर्वे ऽपि संभूयासह्यपराक्रमं सिंहं विज्ञापयामासुः । देव मृगराजावस्थानसमर्पणेन प्रसीद । त्वमेव
तस्य काननस्य परिवृढः । वयं सर्वे ऽपि भवदीयाः प्रजाः । त्वत्पुरस्तादापतितं सर्वमपि मारयसि
त्रयः सन्तु चत्वारो वा । तर्हि भवतैवं विधातव्यमत्यन्तमनुचितम् । त्वया च सर्वदा स्वगुहायामा -
सीनेन स्थातव्यम् । प्रत्यहमेकैको मृगविशेषो भवन्तं समागमिष्यति स्वयमेवेत्थं भवते बुभुक्षाप्यपहरिष्यते ।
तथा वयं च युगपदेव न परिक्षयमाप्नुमः । इति तेन समं नियमं परिकल्प्य ते वनवासिनो मृगा
अतिष्ठन् । प्रतिदिनं तेषां निवसतां तत्र यस्मिन्दिने यस्यावसर आयाति स तु स्वयमेव गच्छति
तत्समीपम् । अनेन प्रकारेण ते तत्रासते । तस्मिंश्चकोरनाम्नः शशकस्य समयः समायातः । स तु शशको
वेगादेव भोजनावसरे न तत्परिसरं सरति स्म । तदनु भोजनसमयमतिक्रम्य गतवान् । तदा सिंहस्त -
मवेक्ष्य कोपपरवशः प्रहर्तुमुदतिष्ठत् । तर्हि त्वं वावदीहि प्रभावति । स त्वात्मीयं मरणं तस्मात्कथं
निराकृतवान् । इति शुकवचननिशमनसमय एवं प्रभावती विचारविशदमतिरभवत् । न कथयति स्म
तदुत्तरम् । पश्चात्पतत्रिणमप्राक्षीत् । शुको ऽप्यभ्यधात् । शृणु प्रभावति । सिंहस्य पेटाकपोलालिकोपरि
यावता पतति तावता शशकः शशंस । देव देवप्रभो महाराज मदीयमेकमुत्तरमाकर्णय । तव मनसि
जातः कुलसमन्वितः कश्चिदभिमानविशेषो ऽस्ति न वा । अस्ति चेत्तदानीं मदीयमभिमतं सादरं
समाकर्णय । अहं तु मध्यंदिन एवागतो ऽभवम् । त्वदन्यः पञ्चाननो मध्येमार्गं मां गृहीतुं उदयुनक् ।
मया च भवदभिधानमग्राहि । आरोषमाणस्त्वद्विषयिणीर्गालीर्वितन्वानो महतीं निन्दां कर्तुं प्रावर्तत ।
ततो ऽहं स्वामिनस्तव निन्दामाकर्णयितुमशक्नुवानस्त्वदुपान्तमासेदिवान् । देव एव प्रमाणमित्यभ्यधात् ।
ततः पूर्वं कदाचिदप्यकुण्ठितखण्डितविक्रमो जठरानलकवलितकलेवरः कण्ठीरवस्तदुपकण्ठं जिगमिषुः
शशकमवादीत् । अप्रतिहतप्रतापे मयि महारण्यपरिवृढे जागरूके को वात्मनीनकर्मा परिपन्थिको
मत्समानकर्मा जागर्ति । प्रदर्शय तं दुरात्मनो मार्गमिदानीमेव । शमनसदनातिथिमवितथपरात्माहं
करोमीति केसरी कन्दरान्निरगात् । तदनु मृगधूर्तो मृगेन्द्रं वञ्चयन्नित इत इत्यभिदधानो धावमानः
सन्नगाधजलपरिपूरितां वापीमुपेयिवान् । देव भवतो भयेन पलायनपरायणो वाप्यामस्यां निलीनः
सन्नास्ते। । पश्यैनं दुरात्मानमनात्मज्ञम् । तदा द्विरदान्तकः कूपमध्यनिगलमाससाद । वदनमवनतं विधाय
यावता पश्यति तावता प्रतिबिम्बमात्मनो ऽन्तर्वाप्यां पश्यति स्म । तं दृष्ट्वा पञ्चाननो वापीं च पेटां
वेश्यापि तस्य वेश्म प्राविशत् । तदा श्वेताम्बर इत्यवगतवान् । मद्रक्षणकृते एते ऽत्र परितः प्रसरीसरन्ति ।
तर्हि प्रभावति भवत्यप्यावेदयतु । तदा श्वेताम्बर आत्मनः संजायमानां मानखण्डनां कथमपाकृतवान् ।
ततः प्रभावती विचारप्रतिभानिरता समजायत । यदा नावगच्छति तदा शुकमप्राक्षीत् । ततः शुको
ऽप्यवोचत् । शृणु प्रभावति । श्वेताम्बरस्तथेत्थं निरणैषीत् । यदिदं कैतवक्षपणको मदुपर्यारोपयन्नस्ति
अस्य क्षपणकस्य स्फिगुन्नतो ऽफलं दर्शयिष्यामीत्यभिधाय स्वयं क्षपणकवेषं विधाय पाणिना वेश्यां
विधृत्य बहिर्निरगात् । तद्रक्षकाः श्रावकाः तं क्षपणकमद्राक्षुः । तदन्वभिमुखं गत्वा विशेषतया न वि
विक्षांचक्रुः । क्षपणकं चावज्ञासिषुः श्वेताम्बरं च सर्वे ऽपि मानयामासुः । तर्हि प्रभावति त्वमेवंरूपमु
पायं परिकलयसि यदि तदानीं स्वसमीहितसाधनपरा भव ॥
इत्येकोनचत्वारिंशत्कथा ॥ ३९ ॥
पुनरपि प्रभावती शुकं पप्रच्छ शुको
तेनैव वैरिणः पराहताः तथा बुद्धिविशेषं प्रयुनक्षि यदि तदानीं यायाः । तदानीं तद्वृत्तान्तबुभुत्सया
प्रभावती प्रबभाषे । शशकवृत्तान्तं ब्रूहीति । ततः शुको बभाषे । शृणु श्रवणालंकरणवाणि । तारकरा
लाभिघाटवी । तत्र कुटिलनामा पञ्चाननः । स तु सर्वानपि वनजीवान्निहन्ति । तदा तद्वनवासिनः
सर्वे ऽपि संभूयासह्यपराक्रमं सिंहं विज्ञापयामासुः । देव मृगराजावस्थानसमर्पणेन प्रसीद । त्वमेव
तस्य काननस्य परिवृढः । वयं सर्वे ऽपि भवदीयाः प्रजाः । त्वत्पुरस्तादापतितं सर्वमपि मारयसि
त्रयः सन्तु चत्वारो वा । तर्हि भवतैवं विधातव्यमत्यन्तमनुचितम् । त्वया च सर्वदा स्वगुहायामा
सीनेन स्थातव्यम् । प्रत्यहमेकैको मृगविशेषो भवन्तं समागमिष्यति स्वयमेवेत्थं भवते बुभुक्षाप्यपहरिष्यते ।
तथा वयं च युगपदेव न परिक्षयमाप्नुमः । इति तेन समं नियमं परिकल्प्य ते वनवासिनो मृगा
अतिष्ठन् । प्रतिदिनं तेषां निवसतां तत्र यस्मिन्दिने यस्यावसर आयाति स तु स्वयमेव गच्छति
तत्समीपम् । अनेन प्रकारेण ते तत्रासते । तस्मिंश्चकोरनाम्नः शशकस्य समयः समायातः । स तु शशको
वेगादेव भोजनावसरे न तत्परिसरं सरति स्म । तदनु भोजनसमयमतिक्रम्य गतवान् । तदा सिंहस्त
मवेक्ष्य कोपपरवशः प्रहर्तुमुदतिष्ठत् । तर्हि त्वं वावदीहि प्रभावति । स त्वात्मीयं मरणं तस्मात्कथं
निराकृतवान् । इति शुकवचननिशमनसमय एवं प्रभावती विचारविशदमतिरभवत् । न कथयति स्म
तदुत्तरम् । पश्चात्पतत्रिणमप्राक्षीत् । शुको ऽप्यभ्यधात् । शृणु प्रभावति । सिंहस्य पेटाकपोलालिकोपरि
यावता पतति तावता शशकः शशंस । देव देवप्रभो महाराज मदीयमेकमुत्तरमाकर्णय । तव मनसि
जातः कुलसमन्वितः कश्चिदभिमानविशेषो ऽस्ति न वा । अस्ति चेत्तदानीं मदीयमभिमतं सादरं
समाकर्णय । अहं तु मध्यंदिन एवागतो ऽभवम् । त्वदन्यः पञ्चाननो मध्येमार्गं मां गृहीतुं उदयुनक् ।
मया च भवदभिधानमग्राहि । आरोषमाणस्त्वद्विषयिणीर्गालीर्वितन्वानो महतीं निन्दां कर्तुं प्रावर्तत ।
ततो ऽहं स्वामिनस्तव निन्दामाकर्णयितुमशक्नुवानस्त्वदुपान्तमासेदिवान् । देव एव प्रमाणमित्यभ्यधात् ।
ततः पूर्वं कदाचिदप्यकुण्ठितखण्डितविक्रमो जठरानलकवलितकलेवरः कण्ठीरवस्तदुपकण्ठं जिगमिषुः
शशकमवादीत् । अप्रतिहतप्रतापे मयि महारण्यपरिवृढे जागरूके को वात्मनीनकर्मा परिपन्थिको
मत्समानकर्मा जागर्ति । प्रदर्शय तं दुरात्मनो मार्गमिदानीमेव । शमनसदनातिथिमवितथपरात्माहं
करोमीति केसरी कन्दरान्निरगात् । तदनु मृगधूर्तो मृगेन्द्रं वञ्चयन्नित इत इत्यभिदधानो धावमानः
सन्नगाधजलपरिपूरितां वापीमुपेयिवान् । देव भवतो भयेन पलायनपरायणो वाप्यामस्यां निलीनः
सन्नास्ते