शुकसप्ततिः /49
This page has been fully proofread twice.
च तं महीरुहमारुरोह बुद्धिमती । तदानीमारुह्य तं प्रत्येवमवादीत् । त्वमप्यपरसीमन्तिन्या समं सुर -
तसुखमुपभुञ्जानो ऽसि । एवंविधस्त्वं पापतमः । तर्हि राजकुलानेत्य भवच्चरित्रं निवेदयिष्यामि भवन्तं
नग्नीकरिष्यामि । तदासौ व्याहरत् । तादृशं बह्वायासोपपादितश्रमसामस्त्यसमयमित्यादिबुद्धिवैभवग -
हनप्रयोगकल्पनातारतम्येन यद्यतिवर्तितुं प्रभवसि यदि तदा साधयेप्सितम् ॥
इति सप्तत्रिंशत्कथा ॥ ३७ ॥
ततः पुनः प्रभावती भुजंगसंनिधानं जिगमिषुः पतंगं परिस्मयति स्म गिरा । तदुदितं निशम्य सो
ऽपि जगाद । देवि मदनावतीवोत्तरविरचनायां चातुर्यं तनोषि यदि तदा साधयतु भवती । सा
तद्वृत्तान्तं पप्रच्छ शुकं शुको ऽप्यवोचत् । नाकपुरे नगरे रथकारो हि करालनामा । स तु द्वितीयां
स्त्रियं पर्यणैषीत् । तस्या मदनावतीति नामधेयम् । सा च परपुरुषसुरतनिरता । तदा जनेभ्यस्तस्या
व्यभिचारचरितं निशम्य रथकार:रः प्रत्ययावगमाय गृहे ग्रामगमनमभिधाय निरगात् । ततः प्रदोषसमये
गुप्तद्वारमार्गेण कैरप्यलक्षितो गृहमध्यमाजगाम । स त्वागत्य मञ्चकस्य तले निलिल्ये । मदनावती च
रथकारचरितं नाज्ञासीत् । तदा सा रथकारं ग्रामान्तरगतमवगत्य नितरामानन्दलहरीपरीताङ्गा
समजायत ।
यत उक्तम् । दुर्दिवसे घनतिमिरे गतसंचारासु नगरवीथीषु ।
पत्युर्विदेशगमने परमं सुखं जघनचपलायाः ॥
रथकारो गृहे नास्तीति मत्वा तथाया निजोपपतिर्गृहं समानिन्ये । तेन समं विनोदगोष्ठीमनुभूयमाना -
सीत् । तदा स्वचरणेन भर्तारमस्प्राक्षीत् । सा चरणस्पर्शादेवेत्यवागच्छत् । मदीयो भर्ता प्रच्छन्नतनुर्मां
शिक्षयितुमत्रागत्य निलीनो निवसति । इति मनस्यभिधायोत्थातुमुपचक्रमे । तदानीमुपपतिरुत्थाय तां
कचबन्धे जग्राह । तर्हि प्रभावति त्वमाचक्ष्व । तदा तथाविधे तस्मिन्समये तया किमुत्तरमकारि । ततः
प्रभावती विचारे प्रयत्नं कुर्वाणापि संशयनाशं न परिचिनोति स्म । तदानीं तदवगमनाय पृष्ट: टः
शुकस्तां प्रति प्रोवाच । शृणु प्रभावति । कचगृहीतया तया व्याहारि । मया तव पुरस्तात्पुरैव व्यव -
हारि । रथकारस्तु सांप्रतं ग्रामान्तरं गतो ऽस्ति । त्वमौत्सुक्यं मामभिधेहि । यद्यहं त्वदीयसाधनसंब -
न्धिनी । तव धनेन संबन्धो रथकारस्यान्तिकमाजगाम । तर्हि रथकारो ग्रामादागच्छतु । तदनु त्वं
तमेव जहीहि तव मनसि यद्रोचते त्वं रथकारस्य तत्कुरु । मामपि तव मनःसमीहितं विधेहि ।
इत्थं तस्या वचनानि रथकारो ऽश्रौषीत् । ततस्त्वसावबिभेत् । मनस्यभिहितवांश्च । लोकानां धनसंबन्धमा भा-
गधेयं गृहीतं तदतिशयेनानौचित्यमकारि । इत्यभिधाय विदितभाषया परित्यागं विधाय निरगात् ।
तर्हि प्रभावति यद्येतादृशमुत्तरं कर्तुं पारयसि तदानीमाचर स्वोचितम् ॥
इत्यष्टत्रिंशत्कथा ॥ ३८ ॥
पुनः प्रभावती पक्षिणं पप्रच्छ । ततः शुको ऽभिदधे । देवि श्वेताम्बरवदात्मन उपरि समापतितं प्रच्छन्ना -
भियोगमन्यस्योपरि आरोपयितुं प्रभवसि यदि तदानुतिष्ठ । ततः प्रभावत्या पृष्टः शुकस्तद्वृत्तान्तं
प्रबभाषे । शृणु । श्रीपुरे नगरे नरेन्द्रनामा श्वेताम्बरः । सकलमपि लोकं वशीचकार । सर्वो ऽपि तस्य
वरिवस्यां साधुतया नियमपरमतया कुरुते । तदनु दिव्यान्नाहारसंबन्धात्तस्य विषयवासनाप्युदियाय ।
तदासौ विषयविवशो वेश्यया सहितस्तिष्ठति । तच्चरितमेको दिगम्बरस्त्वज्ञासीत् । तच्छ्वेताम्बरचरितं
श्वेताम्बरभक्ताय दिगम्बर आवेदयत् । भवदीयः श्वेताम्बरो रात्रौ वेश्यागृहं प्रवसति । अद्य प्रदोषसमये
भवद्भिरवेक्षणाय समागन्तव्यम् । स च वेश्यासहितः श्वेताम्बरो द्रष्टव्यो भवतां भविष्यति । ततस्ते श्रा -
तसुखमुपभुञ्जानो ऽसि । एवंविधस्त्वं पापतमः । तर्हि राजकुलानेत्य भवच्चरित्रं निवेदयिष्यामि भवन्तं
नग्नीकरिष्यामि । तदासौ व्याहरत् । तादृशं बह्वायासोपपादितश्रमसामस्त्यसमयमित्यादिबुद्धिवैभवग
हनप्रयोगकल्पनातारतम्येन यद्यतिवर्तितुं प्रभवसि यदि तदा साधयेप्सितम् ॥
इति सप्तत्रिंशत्कथा ॥ ३७ ॥
ततः पुनः प्रभावती भुजंगसंनिधानं जिगमिषुः पतंगं परिस्मयति स्म गिरा । तदुदितं निशम्य सो
ऽपि जगाद । देवि मदनावतीवोत्तरविरचनायां चातुर्यं तनोषि यदि तदा साधयतु भवती । सा
तद्वृत्तान्तं पप्रच्छ शुकं शुको ऽप्यवोचत् । नाकपुरे नगरे रथकारो हि करालनामा । स तु द्वितीयां
स्त्रियं पर्यणैषीत् । तस्या मदनावतीति नामधेयम् । सा च परपुरुषसुरतनिरता । तदा जनेभ्यस्तस्या
व्यभिचारचरितं निशम्य रथका
गुप्तद्वारमार्गेण कैरप्यलक्षितो गृहमध्यमाजगाम । स त्वागत्य मञ्चकस्य तले निलिल्ये । मदनावती च
रथकारचरितं नाज्ञासीत् । तदा सा रथकारं ग्रामान्तरगतमवगत्य नितरामानन्दलहरीपरीताङ्गा
समजायत ।
यत उक्तम् । दुर्दिवसे घनतिमिरे गतसंचारासु नगरवीथीषु ।
पत्युर्विदेशगमने परमं सुखं जघनचपलायाः ॥
रथकारो गृहे नास्तीति मत्वा त
सीत् । तदा स्वचरणेन भर्तारमस्प्राक्षीत् । सा चरणस्पर्शादेवेत्यवागच्छत् । मदीयो भर्ता प्रच्छन्नतनुर्मां
शिक्षयितुमत्रागत्य निलीनो निवसति । इति मनस्यभिधायोत्थातुमुपचक्रमे । तदानीमुपपतिरुत्थाय तां
कचबन्धे जग्राह । तर्हि प्रभावति त्वमाचक्ष्व । तदा तथाविधे तस्मिन्समये तया किमुत्तरमकारि । ततः
प्रभावती विचारे प्रयत्नं कुर्वाणापि संशयनाशं न परिचिनोति स्म । तदानीं तदवगमनाय पृष्
शुकस्तां प्रति प्रोवाच । शृणु प्रभावति । कचगृहीतया तया व्याहारि । मया तव पुरस्तात्पुरैव व्यव
हारि । रथकारस्तु सांप्रतं ग्रामान्तरं गतो ऽस्ति । त्वमौत्सुक्यं मामभिधेहि । यद्यहं त्वदीयसाधनसंब
न्धिनी । तव धनेन संबन्धो रथकारस्यान्तिकमाजगाम । तर्हि रथकारो ग्रामादागच्छतु । तदनु त्वं
तमेव जहीहि तव मनसि यद्रोचते त्वं रथकारस्य तत्कुरु । मामपि तव मनःसमीहितं विधेहि ।
इत्थं तस्या वचनानि रथकारो ऽश्रौषीत् । ततस्त्वसावबिभेत् । मनस्यभिहितवांश्च । लोकानां धनसंबन्ध
गधेयं गृहीतं तदतिशयेनानौचित्यमकारि । इत्यभिधाय विदितभाषया परित्यागं विधाय निरगात् ।
तर्हि प्रभावति यद्येतादृशमुत्तरं कर्तुं पारयसि तदानीमाचर स्वोचितम् ॥
इत्यष्टत्रिंशत्कथा ॥ ३८ ॥
पुनः प्रभावती पक्षिणं पप्रच्छ । ततः शुको ऽभिदधे । देवि श्वेताम्बरवदात्मन उपरि समापतितं प्रच्छन्ना
भियोगमन्यस्योपरि आरोपयितुं प्रभवसि यदि तदानुतिष्ठ । ततः प्रभावत्या पृष्टः शुकस्तद्वृत्तान्तं
प्रबभाषे । शृणु । श्रीपुरे नगरे नरेन्द्रनामा श्वेताम्बरः । सकलमपि लोकं वशीचकार । सर्वो
वरिवस्यां साधुतया नियमपरमतया कुरुते । तदनु दिव्यान्नाहारसंबन्धात्तस्य विषयवासनाप्युदियाय ।
तदासौ विषयविवशो वेश्यया सहितस्तिष्ठति । तच्चरितमेको दिगम्बरस्त्वज्ञासीत् । तच्छ्वेताम्बरचरितं
श्वेताम्बरभक्ताय दिगम्बर आवेदयत् । भवदीयः श्वेताम्बरो रात्रौ वेश्यागृहं प्रवसति । अद्य प्रदोषसमये
भवद्भिरवेक्षणाय समागन्तव्यम् । स च वेश्यासहितः श्वेताम्बरो द्रष्टव्यो भवतां भविष्यति । ततस्ते श्रा