शुकसप्ततिः /48
This page has been fully proofread twice.
वंशस्य कलङ्कमविकलमागमिष्यत् । इति तां वचोनिचयोदयेन समतोषयत् । तर्हि प्रभावतीदृग्युक्त्युपबृं -
हितमुत्तरं कर्तुं कलितमतिर्भवसि यदि तदा व्रज।॥
इति पञ्चत्रिंशत्कथा ॥ ३५ ॥
ततः प्रभावती शुकं पप्रच्छ । सो ऽब्रवीत् । त्वमपि देवि सुरतसुन्दरीव यद्यायासनिस्तरणे ऽवदातमति -
त्वं प्रथयसि तदानीमङ्गीकुरुतात् । तदा प्रभावत्या तद्वृत्तान्तावभावाय पृष्टः शुकः प्रोवाच । शङ्खपुरा -
भिधाने नगरे महाधनाभिधो ग्रान्थिकः । तस्य सहचरी सुरतसुन्दरी । सा च परपुरुषानवरतरतनिरता ।
तस्याः पतिर्यदि किमपि वावदीति तदा तं न सहते । वृथैव पत्युरुपरि यथाकथंचन व्याजरीहरीति ।
ततो ऽसौ तद्भीत्यावलम्बितमौन एवावतिष्ठते । एकस्मिन्दिने सा निजमुपपतिं गृहमानिनाय । ततो
यामिनीजेमनं विधाय सर्वे ऽपि गृहनिवासिनः शयनाय शयनीयमशिश्रियुः । दीपो ऽपि निर्वा -
णभावं प्रापितः । तदा भर्तारं निद्राणमाज्ञाय सा भुजंगेन संगता भुजंगी प्रतिभाविरामसमुन्मिषदुदया
निभृतरसानन्दामन्दसंबन्धा नितरामरंसीत् । ततस्तद्रतिजनितध्वनिं महाधनो ऽप्यशृणोषीत् । ततस्तं ग्रहीतुं
करं प्रायुङ्क्त महाधनः । तदा स करस्तस्योपपतेर्मेहनमग्रहीत् । तदासौ सुरतसुन्दरीमभाषिष्ट । मया
चोरो ऽस्ति विधृतः । त्वं वेगेन गत्वा दीपं समानय । ततः सापि व्याजहार । अहंदोदीपाहरणाय
द्वारि गच्छन्ती बिभेमि । अहमेव चोरं गृहीष्यामि भवन्तो गत्वा दीपमानयन्त्वित्यभिधाय ततः सा
चोरमग्रहीत् । महाधनस्तु दीपमानेतुं बहिर्निरगात् । ततो बहिर्गते महाधने साप्युपपतिं मुमोच । तदा
सा महिषसिंहस्य जहुजिह्वामाकृष्य जग्राह । महाधनस्तु दीपमुज्ज्वाल्य समानयत् । यावत्पश्यति तावता
कासारशाबस्य रसना पाणिना नियन्त्रितास्ति । तदालोक्य महाधनं व्याहार्षीत्सुरतसुन्दरी । साधु
साधु । वीराचरितं चरितमकार्षीः । त्वया नेतरैः शूरैरीदृक्कर्तुं शक्यते । तयेत्यभिहिते महाधनो ऽपत्रपि -
ष्णुरिवावतिष्ठत् । तर्हि प्रभावतीदृग्विधमुत्तरं कर्तुं भवती पारयति यदि तदानीं सुखेन गच्छतु ॥
इति षट्त्रिंशत्कथा ॥ ३६ ॥
पुनः प्रभावती विनयकन्दर्पनामधेयनरेन्द्रं जिगमिषुः पक्षीन्द्रं प्रति प्रायुङ्क्त वाचम् । तां निशम्य सो
ऽप्यभ्यधात् । देवि बुद्धिमतीव संकीर्णासक्तिनिस्तरं कर्तुं जानासि यदि तदा स्वमनोभिलषितमसंकु -
चितधिया साधय । ततः प्रभावत्यवादीत् । हे पक्षीन्द्र बुद्धिमतीवृत्तान्तमावेदयादितः । तच्छ्रुत्वा शुको
ऽप्यवोचत् । उचोपुरं नाम नगरम् । तत्र सांपुरतनामधेयः कृषीवलः । तस्य सहचरी बुद्धिमती । सा
परपुरुषरतसमुदितमानसा । भर्तुः कृते क्षेत्रभोजनं गृहीत्वा गच्छन्त्या मार्गे कस्यचिदेकस्य तरोस्तले
जारेण सह प्रत्यहं रहस्यसुखमनुभूयते । तस्यास्तद्विलसितं सर्वे जानते । ते तच्चरितं सांपुरतकर्षकस्य
पुरस्तादाचचक्षिरे । तदन्वसौ तस्याश्चरित्रस्यावजिगमिषया तमेवानोकहमारुह्य प्रच्छन्नतनुः स्थितवान् ।
ततो गृहीतभोजना गृहादागता तमाजगाम बुद्धिमती । तत्रागत्य तदन्नं जगत्यां निवेश्य भुजंगेन संगता
समुपभोगभङ्गिविगलितविग्रहाग्रहपरिग्रहं तदेकतानकलितपूर्वापरकलाकलापकबहुलं निरतिशयं वि -
षयसुखमन्वभूत् । ततस्तयोस्तथाविधनिबद्धरसविलसदसममनःसमुदयानन्दघनतां निरीक्ष्य वनस्पतेर -
वततार । बुद्धिमती च तरोरवतरन्तं तं लक्षीचकार । तर्हि वावदीतु प्रभावति भवती । तस्मिन्समये
सा किमुत्तरमकरोत् । ततः प्रभावती चिन्तयन्त्यपि नाबुध्यत । ततस्तयानुयुक्तो द्विजो ऽपि निजगाद ।
सा च भर्तारं वीक्ष्य उपपतिं प्रातिष्ठिपत् । तदा तत्पतिश्च समागत्य बुद्धिमतीं पर्यप्राक्षीत् । भवत्याः
संनिधाने द्वितीयः पुमान्क आसीत् । ततः सा पतिमवादीत् । त्वं किं न जानीषे । द्रुमस्यास्यायमेव
स्वभावः । एतदारूढो जनो हि स्थलस्थितमेकमपि द्वित्वेन पश्यतीति पूर्ववृद्धा आचक्षते । तदा स्वयं
हितमुत्तरं कर्तुं कलितमतिर्भवसि यदि तदा व्रज
इति पञ्चत्रिंशत्कथा ॥ ३५ ॥
ततः प्रभावती शुकं पप्रच्छ । सो ऽब्रवीत् । त्वमपि देवि सुरतसुन्दरीव यद्यायासनिस्तरणे ऽवदातमति
त्वं प्रथयसि तदानीमङ्गीकुरुतात् । तदा प्रभावत्या तद्वृत्तान्तावभावाय पृष्टः शुकः प्रोवाच । शङ्खपुरा
भिधाने नगरे महाधनाभिधो ग्रान्थिकः । तस्य सहचरी सुरतसुन्दरी । सा च परपुरुषानवरतरतनिरता ।
तस्याः पतिर्यदि किमपि वावदीति तदा तं न सहते । वृथैव पत्युरुपरि यथाकथंचन व्याजरीहरीति ।
ततो ऽसौ तद्भीत्यावलम्बितमौन एवावतिष्ठते । एकस्मिन्दिने सा निजमुपपतिं गृहमानिनाय । ततो
यामिनीजेमनं विधाय सर्वे
णभावं प्रापितः । तदा भर्तारं निद्राणमाज्ञाय सा भुजंगेन संगता भुजंगी प्रतिभाविरामसमुन्मिषदुदया
निभृतरसानन्दामन्दसंबन्धा नितरामरंसीत् । ततस्तद्रतिजनितध्वनिं महाधनो ऽप्यशृणोषीत् । ततस्तं ग्रहीतुं
करं प्रायुङ्क्त महाधनः । तदा स करस्तस्योपपतेर्मेहनमग्रहीत् । तदासौ सुरतसुन्दरीमभाषिष्ट । मया
चोरो ऽस्ति विधृतः । त्वं वेगेन गत्वा दीपं समानय । ततः सापि व्याजहार । अहं
द्वारि गच्छन्ती बिभेमि । अहमेव चोरं गृहीष्यामि भवन्तो गत्वा दीपमानयन्त्वित्यभिधाय ततः सा
चोरमग्रहीत् । महाधनस्तु दीपमानेतुं बहिर्निरगात् । ततो बहिर्गते महाधने साप्युपपतिं मुमोच । तदा
सा महिषसिंहस्य जहुजिह्वामाकृष्य जग्राह । महाधनस्तु दीपमुज्ज्वाल्य समानयत् । यावत्पश्यति तावता
कासारशाबस्य रसना पाणिना नियन्त्रितास्ति । तदालोक्य महाधनं व्याहार्षीत्सुरतसुन्दरी । साधु
साधु । वीराचरितं चरितमकार्षीः । त्वया नेतरैः शूरैरीदृक्कर्तुं शक्यते । तयेत्यभिहिते महाधनो ऽपत्रपि
ष्णुरिवावतिष्ठत् । तर्हि प्रभावतीदृग्विधमुत्तरं कर्तुं भवती पारयति यदि तदानीं सुखेन गच्छतु ॥
इति षट्त्रिंशत्कथा ॥ ३६ ॥
पुनः प्रभावती विनयकन्दर्पनामधेयनरेन्द्रं जिगमिषुः पक्षीन्द्रं प्रति प्रायुङ्क्त वाचम् । तां निशम्य सो
ऽप्यभ्यधात् । देवि बुद्धिमतीव संकीर्णासक्तिनिस्तरं कर्तुं जानासि यदि तदा स्वमनोभिलषितमसंकु
चितधिया साधय । ततः प्रभावत्यवादीत् । हे पक्षीन्द्र बुद्धिमतीवृत्तान्तमावेदयादितः । तच्छ्रुत्वा शुको
ऽप्यवोचत् । उचोपुरं नाम नगरम् । तत्र सांपुरतनामधेयः कृषीवलः । तस्य सहचरी बुद्धिमती । सा
परपुरुषरतसमुदितमानसा । भर्तुः कृते क्षेत्रभोजनं गृहीत्वा गच्छन्त्या मार्गे कस्यचिदेकस्य तरोस्तले
जारेण सह प्रत्यहं रहस्यसुखमनुभूयते । तस्यास्तद्विलसितं सर्वे जानते । ते तच्चरितं सांपुरतकर्षकस्य
पुरस्तादाचचक्षिरे । तदन्वसौ तस्याश्चरित्रस्यावजिगमिषया तमेवानोकहमारुह्य प्रच्छन्नतनुः स्थितवान् ।
ततो गृहीतभोजना गृहादागता तमाजगाम बुद्धिमती । तत्रागत्य तदन्नं जगत्यां निवेश्य भुजंगेन संगता
समुपभोगभङ्गिविगलितविग्रहाग्रहपरिग्रहं तदेकतानकलितपूर्वापरकलाकलापकबहुलं निरतिशयं वि
षयसुखमन्वभूत् । ततस्तयोस्तथाविधनिबद्धरसविलसदसममनःसमुदयानन्दघनतां निरीक्ष्य वनस्पतेर