This page has been fully proofread twice.

समं बहुधा वेश्याभिव्यक्तिविजृम्भकं मनसा वचसा वपुषा चरितानुसरणेन च प्रयत्नातिशयं प्रतिक्षणं
पुष्णाति परं न तस्य मानसं भ्राम्यति । तत एकदा कुट्टिनी कलावतीमवादीत् । रामो ऽयं दिनैः
पञ्चषैः स्वग्रामं गमिष्यति त्वं त्वेनं भ्रामयितुं न पारयसीति । तदा सा तां जगाद । अहं सर्वप्रयत्नेन
प्रकारसामर्थ्यं निर्मिमाणासं परमेतदीयं मनो नाक्षुभ्यत । किं करवै । ततः कुट्टिनी प्रकटीचकार
वाचम् । कलावति तर्हि त्वयायमेवाभिधातव्यः । स्वसंवसथं यास्यसि । ततो भवतो विनाहं विरहवेदना -
वैधुर्यं सोढुं न प्रभवामि । तर्हीदानीमेवाहं प्राणांस्त्यक्ष्यामीत्यभिधाय तस्मिन्पश्यत्येवात्मानं जलगर्ते
प्रक्षिप । ततस्तन्निशम्य कलावती भारतीमगिरत् । एतद्भवत्यभिहितमत्यसमञ्जसम् ।
 
यतो ह्याहुः । अतिक्लेशेन ये ह्यर्था धर्मस्यातिक्रमेण च ।
शत्रूणां प्रणिपातेन मम ते ऽर्था भवन्तु न ॥
 
ततः कुट्टिनी वाचमनीयत रसनाग्रम् । आयुषो विनाशं विना शक्नोति न मरणमभिभवितुम् । अन्यच्च ।
सहानुसंधानमासाद्य विविधबुद्धिविधाननिबन्धनकरमपि न चिन्वन्ति सन्तः ।
 
अत आह । न साहसमनारुह्य नरो भद्राणि पश्यति ।
साहस्रंसं सर्वकार्येषु भद्रलक्ष्याभिभाजनम् ॥
 
इत्थमुक्ते तत्कुट्टिनीवचननियमितमानसा तस्मिन्ग्रामे पश्यत्येवात्मानं जलगर्ते चिक्षेप । तदनु धावमानो
रामस्तत्कूपसमीपं गत्वा तां समीक्षयामास । तदा स्वमनसि चमत्कृतवान् । इत्मभ्यधाञ्च्च । नैतस्याः
चेतः प्रपञ्चोपचयपरिचितिपारीणम् । इयं केवलं मामेवानुसृतवती । तदनु यत्किमपि तस्य धनमभूत्त-
त्करसात्कृतवान् । तदनु कैश्चन दिनैर्निर्धनमाजातं तमालोक्य दूरीचकार कलावती । ततो धनविरहितो
रामो निजनगरमाजगाम जनकस्य पुरस्तादुदितमवर्णयत् । स तु धूर्तमायाकुट्टिनीं समाहूय सहस्रद्वयं
सुवर्णानामयाचत । तदा सा कमलाकरमभ्यधात् । तस्मिन्नेव नगरे पुनर्धनार्जनोद्देशेन व्यापारपुरस्कृतं
रामं प्रस्थापयतु भवान् । अहमप्यनेन समं प्रयायाम् । तद्नु स तामपि स्थानविशेषं प्रातिष्ठिपत् ।
ततो रामस्तत्स्थानमासेदिवान् । ततस्तदभिमुखी कलावत्यागच्छत् । तदागमनोद्देशोपयाचितदीपिका
विभिन्नबाधा रूपबहुलसंभ्रमविभ्रमवती रामपरिसरमागत्य नीराजयामास रामम् । तदनु नृत्तगीतवा -
द्याद्यनेकोपचारप्रपञ्चपरिचितं निजनिकेतनमन्षैनैषीत् । द्वावपि सुखेन विषयाम्न्बुभुजाते । तर्हि प्रभावति
त्वमपि चारु विचिन्त्याचक्ष्व । तदा सा तदीयं धनं कथमानीतवती । ततः प्रभावती तञ्च्चिन्तायां
दत्तचित्तापि धनानयनोपायं न कलयति स्म । तदा तया पृष्टः पतंगो व्याचष्ट । तदानीं धूर्तमाया
कुट्टिनी रामाय संकेतं प्रादर्शयत् । त्वया गत्वात्मोपरितनभूमिकायां कलावत्या मन्दिरस्य शारि -
भिर्देवनीयं तयैव सह । अहं च तेनैव वर्त्मना गमिष्यामि तद्गृहं पुरतो गत्वा त्वं तु मामभिवीक्षमाणो
मद्भीतिचिन्तितः । परतो दृष्ट्वा त्वामपसरन्तं कलावती प्रक्ष्यति । त्वं किमित्यात्मानं गोपायसीति ।
तदा सा भवतैवमभिधातव्या । इयं पुरतो मार्गे समागच्छन्ती वाश्रेयकारिणी जरती मदीया जननी
सा । एतदीयं द्रविणं नीत्वा भवत्याः संनिधानं पूर्वमागतवान् । तद्धनं भवत्यै दत्तम् । इदानीमियमा -
गतास्ति । को जानीते किं करोमीति । इति वचनं भवता श्रावयितव्या कलावती । कुट्टिनीकृतसंकेतो
रामः कलावतीमन्दिरमागच्छत् । तत्र गत्वा तथाया सहोपत्यकायां शारिभिरदीव्यत् । तदा धूर्तमाया
कुट्टिनी स्कन्धोपरि विपञ्चीं विमुच्य तदग्रमार्गमनुससार । रामो ऽपि तदभिमुखमेवालोकमानस्तिष्ठति ।
स च तामभिवीक्ष्य क्रीडां तत्याज च तद्दृगगोचरे गतवान् । ततः कलावती तमपृच्छत् । त्वं कस्मा -
दुत्थितो ऽसीति । तदासौ पूर्वतनं व्याहृतं तस्या अग्रे जगाद । ततः कुट्टिनी द्वारप्रदेशमापतत् । ता -
न्गृहस्थितान्वावदीति । मदीयं पुत्रं रामं प्रस्थापयन्तु । मम सर्वस्वमपहृत्य भवतीनां हस्ते वितीर्णमस्ति ।