This page has been fully proofread twice.

पूर्वपरिचितमैत्रो देवदत्तः पथि संगतवान् । तदन्वसौ पुटीकृतवान् । महादेवः परमेश्वरः यदा स्वा -
नुकूलो भवति तदानीमीदृग्विधो लाभः करतलमापद्यते । यत्सर्वदा धारावाहिकया स्मृतिपदं न
जहाति तदेव करप्राप्यं जायते । इत्यभिधाय तां करे गृहीतवान् । तदा सा वराकी तस्य दाक्षिण्येन
परिगृहीतमानसा न किमपि निषेधवचनं व्याहरति स्म । तदभ्यर्थनं न निषेधव्यमित्यङ्गीकारेण न
विलम्बयति स्म । तद्भर्तृभोजननिमित्तपरिक्लृकॢप्तपिण्डकावस्थानं वेणुपात्रं पध्थ्येवावारोपयत् । ततस्तदुपभोग -
निमित्तं विविक्तप्रदेशविशेषमगात् । एकस्तु धूर्तस्तयोर्वृत्तान्तं वीक्षमाणो निवसति । तदनु तद्वेणुपा -
त्रोपान्तमागत्योद्घाट्य यावता पश्यति तावता तण्डुलपिष्टपरिकॢप्ताः पिण्डकास्तत्र न्यस्ताः सन्ति । ततस्तु
धूर्तस्तेषां समस्त पिण्डकानां पिण्डमेकत्र कृत्वा सर्वस्यैवैकमेव व्याघ्ररूपमकार्षीत् । तद्वेणुपात्रं पूर्ववद्व -
स्त्रखण्डेन प्रावृणोत् । ततो ऽसौ यथेच्छमगमत् । ततः सा मालती स्वसमीहितं संसाध्य तद्वेणुपात्रं
गृहीत्वा भर्तुर्भोजनदानाय क्षेत्रमुद्दिश्यागमत् । तत्र गत्वा वेणुपात्रमवारोपयत् । भर्ता चाभ्यवहरणाय
समाजगाम । भर्ता यावतोद्घाट्य पश्यति तद्वेणुपात्रं तावता पिष्टनिर्मितं व्याघ्रस्य रूपमपश्यत् । तर्हि
प्रभावति वावदीतु भवती । सा तस्मिन्समये किमुत्तरं प्रगुणीचकार । प्रभावती तद्विचारयितुं प्रवृत्ता
परं नाध्यवागच्छत् । ततः प्रभाते सा शुकं पप्रच्छ । ततो ऽवदत्सो ऽपि । देवि तस्याः पतिस्तां पृष्टवान् ।
त्वया किमेतत्पक्वान्नमानीतमस्ति । सापि व्याहार्षीत् । किकिं तव पुरो वच्मि । वज्रदेवात्याश्चर्यं नूतनमपि
प्रावर्तिष्ट । अद्याहं शर्वर्यां भवदुपरि दुःस्वप्नमेकमद्राक्षम् । त्वं क्षेत्रे रात्रावुषितो ऽसि । द्वीपी समागत्य
त्वामग्रहीत्किल । तदानीं मदीयो जीवो ऽतितरां दैन्यदशामापेदे । तदनु देदैवयज्ञं वासुदेवमाहूया-
प्राक्षम् । किंप्रकारो ऽयं स्वप्न इति । ततो ज्योतिर्विदवादीत् । * * * पिष्टमयश्चित्रकाय:यः कृत औत्सु -
क्यपरतन्त्रायास्मै तद्दुःस्वप्नजनितदुःखभरपरिखिन्नायाः पथि यदाजायत तदहर्जानामि नो । अनस्त -
मितप्रतापो ऽयं भगवांस्तरणिरेव जानीते । तदनु वज्रदेवस्तच्चरणयोः पपात उवाच चैताम् । वयस्ये
मम गृहे न भवत्सदृशी गृहिणी पतिप्रणयपरिणतकरणगणा । सो ऽहं कलितसकललोककवलनकरा -
लितकले<error></error><fix>व</fix>रात्कालादपि न बिभेमि । तर्हि प्रभावतीति युक्तविशेषविलसितसारमुत्तरं चरीकरीषि यदि
तदानीं याहि स्वमनीषितम् ॥

इति त्रयस्त्रिंशत्कथा ॥ ३३ ॥
 
पुनः प्रभावती गिरा जग्राह विहंगमम् । सो ऽपि प्रासोष्ट वाचम् । देवि धूर्तमायाकुट्टिनीव स्वस्योपरि
समापतत्परिद्यूनत्वं पुनस्तपःसरणे प्रसरति यदि प्रभासमुत्सेकस्तदानीं तरलतरतामवलम्बस्व । तदनु
प्रभावती तद्वृत्तान्ताकर्णनाय पतत्रिणा विवर्णयिषुर्जगाद । कथं तद्वृत्तान्तम् । व्याहरतां भवान् । ततः
सो ऽभ्यधात् । हस्तिनापुराभिधाने नगरे कमलाकरो विपणिः । तत्तनयः प्रथिततनयो रामः सर्वाः
समस्ताः कलाः पर्यशीलयत् । ततो ऽसौ कमलाकरो व्याहरति स्म । अथास्मत्पुत्रो रामः कलामात्रं
शिक्षितवान् । परं स्त्रीणां चरितं न वितरति मानसे ऽस्य बोधसाधर्म्यम् । तर्ह्ययं तदपि शिक्षितव्यः ।
तदन्वेकां धूर्तमायाकुट्टिनीं समानीय तामित्थमवादीत् । त्वया च मदीयस्तनयः समस्तमपि स्त्रीणां
चरितं ज्ञापयितव्यः । यथा धूर्ताः स्त्रियो नैनं प्रतारयन्ति तथा बोधयितव्यः । अहं भवत्यै सुवर्णानां
सहस्रं प्रयच्छामि । यदि कदापि धूर्ताः स्त्रियो ऽन्याः प्रतारयिष्यन्त्येनं तदाहं सुवर्णानां द्विसाहस्रं
भवत्याः सकाशाद्गृहीष्यामि । इति नियमं निर्माय कुट्टिनीहस्ते ससुवर्णं रामं प्रदत्तवान्कमलाकरः ।
ततः सा धूर्ता कुट्टिनी समयं समस्तमपि स्त्रीचरितं विगलितकीलनं रामायोपदिदेश । सा तं रामं
सकलनिजकलागहनपरिणद्धान्तःकरणं विधाय कमलाकरस्य हस्ते प्रायच्छत् । ततः कदाचित्स्वसुतं
बुद्ध्यवधानाय बोधनाय धनार्जनाय रामं देशान्तरमुद्दिश्य प्राहिणोत् । स तु स्वर्णद्वीपं प्रपेदे । तत्र
कलावतीति वेश्या । तया सह विषयोपभोगं कुर्वाणः सुखेन तिष्ठति । सा च कलावती तेन रामेण