This page has not been fully proofread.

358
 
सत्यवचनं प्रयच्छ पश्चादभिधास्यामि । तदा राजा ती सत्यवचनं प्रायच्छत् । ततो ऽसौ तच्छान्तिकं
राजानमाायत । मद्रजणं कर्तव्यमेतावता तच्छान्तिर्भविष्यतीत्यवगच्छ । राजाप्यवोचत् । अन्यादृशी
सृष्टिर्भविष्यतीति तत्किम् । सो ऽब्रवीत् । अवधत्स्व महीमहेन्द्र । आत्मनि प्रशमिते सर्वापि सृष्टिः समा-
प्ररूपव। यदाहं मृतस्तदा समस्तो ऽपि सर्गो ऽन्यथा जात एव । ममेतरेषामपेचया किं नाम प्रयोजनम् ।
5 तदा राजा तद्वचनमपहास्य तं मिरमोचयत् । ततः प्रभावति इत्यायभ्यासं चिकीर्षसि यदि तदा
प्रयाहि ॥
 
इति एकत्रिंशत्कथा ॥ ३१ ॥
 
पुनः प्रभावती शुकमभाषत । सो ऽप्युवाच । यथा मनोहरा श्वश्रा असूयां पर्यहार्षीत्तथा तद्वदुत्तरं
जानासि यदि तदा व्रजेत्युक्ते प्रभावती मनोहरावृत्तान्तमवबुभुत्सुः प्रत्याह पतत्रिणम् । तदा तया
10 नुयुक्तः शुकः सो ऽप्यकिरगिरम् । एलोलनामनि नगरे वैजलदेवसंज्ञो माणिक्ककारस्तस्य पत्नी मनोहरा ।
तथा सदृशो न काचन भूपालये सुदती रूपातिशयाखर्वितरूपा जागर्ति । सा वधू रूपसर्वस्वानन्या-
स्पदापि न भर्चे रोचते । तदनु सा व्यभिचाराचरणाय प्रावर्तिष्ट । ततः कस्मिंश्चित्समये वर्गोधमा-
हरणाय पणं दत्त्वा मनोहरां विपणिनां गृहमर्धदिने प्रस्थापयामास । स्थूलं च वेणुपात्रं गृहीत्वा
निरगमद्वणिजां गृहम् । वणिजः करे पणं प्रादात् । यावता वेणुपाचे गोधमान्प्रक्षिपति तदानीं तस्या
15 उपपतिस्तां दृशा कलितवान् । स च संकेतं निर्माय तामाहतवान् । सा च तन्निर्दिष्टं प्रदेशं निरगच्छद्व-
णिजं प्रत्यभ्यधाच्च । एते गोधूमा अस्मिन्वेणुपात्रे निचिप्य स्थापयितव्याः । स च वणिक्तद्व्यवसितं चाज्ञा-
सीत् । ततस्तद्वेणुपात्रं विशुष्ककरीषशकल पूरितं निधायोपरि सिचयखण्डेनापावृणोत् । सा च भुजंगसंगतं
विधायानन्दातिशयलहरीपरिरब्धान्तःकरणा वेगेन देहि मदीयं वेणुपात्रमिति विपणिनं जगाद ।
तेन वणिजा शिरोनिहितं वेणुपानमनालोकयन्त्येव गृहीत्वा समागमन्निजगृहान्मनोहरा । पञ्चागृहाङ्गणे
20 वेणुपाचं संस्थाप्य श्वश्रूस्तामभ्यधात् । । दर्शय गोधमाः कीदृशाः सन्ति । समानीयतामित्यभिधाय मनोहरा-
मवलोकं चिकीर्षुर्मोधूमानां तदन्तिकमागाच्छ्रश्रयावदुवाटयति तावता करीषशकलपरिपूरितान्तरं
तत्पात्रं दृग्विषयीचकार । तर्ह्यभिदधातु प्रभावति भवती । समये ऽमुष्मिन्सा किमुत्तरमकरोत् । तदा
प्रभावती परोन्मेषविघटनपटुमतिवैशयं बिभ्राणापि न तदुत्तरविरचनं विवेचयति । ततस्तया तदुत्तरा-
वबोधनाय पृष्टः शुको ऽकथयत् । प्रभावति निशामय । ततः श्वश्राभिहिता सा । अये पुत्रपत्नि मनोहरे
26 गोमयचूर्ण किमेतदिति पृष्टा सा मनोहरा गिरमस्राचीत् । अम्बाहं वणिजां गृहानगमम् । ततो वणि-
ग्गृहेषु साधीयांसो गोधूमा अत्युज्ज्वलपक्कान्ननिर्माणे पटीयांसो मिलन्ति । तदनु गवामगारमध्ये तु
खनिमध्यात्साधीयसो गोधूमान्बहिराकर्षन्तो ऽभूवन् । तत्र गोधूमानयनाय जनेनैकेनाहमप्याहूता या-
वता तत्र गच्छामि तावता गोभिर्विषमसंचारे पथि स्खलित्वाहमपतं पणः पाणिस्थितः सोऽप्यपतत् ।
तत्र पणमालोकमानापि नाविन्दं तत्रावनी विकीर्ण करीषशकलचूर्ण समानीत तथा इदानीं
80 निक्षिप्य पणं मृगयामि । तर्हि प्रभावति उत्तरमित्यं वेत्सि चेत्तदा साधय ॥
 
इति द्वात्रिंशत्कथा ॥ ३२ ॥
 
पुनः प्रभावती रामचन्द्रमप्राचीत् । सो ऽप्यभ्यधात् । मालतीवोत्तरनिर्माणविधौ पाटवं प्रकटयसि यदा
तदा यातव्यम् । ततः प्रभावती बमाण रामचन्द्रम् । का मालती । कथमुत्तरमाविरकार्षीत् । तद्वृत्ता-
न्तमावेदयतु भवान् । ततः सो ऽप्यगाहत गिरम् । शृणु कौमुदि । निषादसंज्ञं नगरम्। तत्र वज्राभिधः
36 कृषीवलः । तस्य भायी मालती । सा परपुरुषनिरता । इत्यमुत्तरायणपर्वणि शसत्करतण्डुलपिष्टकस्य
पिण्डानकार्षीत् । ततो भर्तुर्भोजनाय वस्त्रेण बद्धा पिण्डकाम्क्षेत्र प्रति निरगात् । मार्गे गच्छन्त्यास्तस्याः