शुकसप्ततिः /43
This page has been fully proofread twice.
णीत्यभिधाय उपाविशत् । तदन्ववादीत् । मण्डोदरि भवत्कृत एव मयूरमांसभक्षणवार्त्तां पुनरपि
कथय । कथमवधीस्तन्मांसमपि भुञ्जानाया भवत्याः कथं स्वादुविशेषमपुष्यत् । तद्भवत्याः सौहित्ये प्रीत्व य-
भिव्यञ्जकं । तच्छ्रोतुमुत्कण्ठिताया मम पुरस्तादकुण्ठितगत्या गरिष्ठां गोष्ठीं वावदीतु भवती । तदनु
सा मण्डोदरी तद्वचनप्रणयिनी तां गोष्ठीमुत्पादयितुं प्रावर्तिष्ट । ततः सा मकरन्ददंष्ट्रा वाक्यावसाने
चष्टे हुंकारमुच्चरति पेटां चपेटयति शनैः शनैरिति विदधानां तां समीक्ष्य मण्डोदरी शङ्कामियाय ।
मकरन्ददंष्ट्रा प्रतिक्षणं पेटां चपेटया ताडयति । तर्हि धनस्याभिलाषेण साष्टोलीमत्रोटयत् । राजकीयं
मानुषं पेटसंपुटमध्यवर्तिनं विधाय समागता कितवाग्रेसरा । तर्हि किमतः परं विधातव्यम् । अहमपि
समस्तं मायूरं वृत्तान्तं तस्याः दुष्टाशयायाः पुरस्तादस्ताशङ्कं व्याहार्षम् । इति परां चिन्ताकोटीमा -
टीकमाना वर्तते । तर्हि प्रभावति तदानींतने तादृशे समये कमुपायमकल्पयत्सा । ततः प्रभावत्यपि
शुकवचनानुसारिणी तद्विचारपरा तां रात्रिमतीत्य दिनस्योदये विद्रावितनिद्रामुद्रं पत्त्ररथं पप्रच्छ। ।
सो ऽभ्यधाच्च । आकर्णय प्रभावति । ततः सा मण्डोदरी तस्याः पुरस्ताद्वार्त्तां व्याहरमाणा वाचंयमा
बभूव । तदनु मकरन्ददंष्ट्रा पुरस्तात्किमजायतेति मण्डोदरीमन्वयुङ्क्त । तदा मण्डोदरी जगाद । तथैव
प्राभातिकः समयः प्रादुरासीत्सूर्यो ऽप्युदयमापेदिवान् । तर्हि मकरन्ददंष्ट्रे त्वमप्यभिधेहि । स्वप्नो ऽयं
किंरूपः । एतदीयं फलं भव्यमभव्यं वेति जानीषे । अत एव भवत्याः पुरतो ऽयमभिहितः । तन्निशम्य
पेटासंपुटान्तःस्थितो ऽमात्यो बहिर्निरगात् । गत्वा च राज्ञे निवेदयामास । मण्डोदरी मकरन्ददंष्ट्राया
अग्रे स्वप्नमुज्जगार । इयं चास्माकमग्रे मण्डोदरी मयूरं न्यवधीदित्यभ्यधात् । तदनु निशम्य मकरन्ददंष्ट्रायै
राजा अक्रुध्यत् । तर्हि प्रभावत्येतादृशमुपायविशेषं परिकल्पयसि चेत्तदानीमादृतादरा भव ॥
इति त्रिंशती कथा ॥ ३० ॥
तर्हि प्रभावती शुकं प्रश्नीकरोति स्म । सो ऽप्यवोचत् । देवि मतिचकोरस्तस्कर आत्मनो विनाशमनीनशत् ।
तथा बुद्धिविधानमनुबध्नासि चेत्तदानुसर । ततः प्रभावती भारतीमहापयत् । मतिचकोरोदन्तमुदञ्चयेति ।
ततस्तथाभिहितो विहगस्तदुदन्तावेदनायासृजद्गिरम् । अवधेहि प्रभावति । गुर्जरजनपदे भृगुक्षेत्राभिधानं
नगरम् । तत्रैको ब्राह्मणः । स तु वैधेयशकल एव अतीव दैवविरहितः । स तु देवनाय प्रावर्तत । तदनु
शनैस्तस्करमतमन्वभवत् । तदा कुत्रापि खतपतितभित्तिविभागे दस्युरसौ विधृतः । राज्ञः समीपे निन्यु -
स्तम् । राजा प्रत्यादिष्टवान् । चोरस्य दण्डो भवति यस्तमेतस्य कुर्वन्तु ।
यत ऊचुः । चोरदण्डः शिरश्छेदो विद्वद्दण्डस्त्वगौरवम् ।
भार्यादण्डः पृथक्छय्या मित्रदण्डस्त्वभाषणम् ॥
इत्यभिधाय तं मारयितुमनयत् । तर्ह्याचक्ष्व प्रभावति । मतिचकोर एतावत्समयसमासक्तौ तदा प्रतारकं
कमकरोत् । ततः प्रभावती विचारचातुर्यमनुभूयापि तदविषयन्ती विहंगमं व्याजहार । तया पृष्टः
शुको ऽपि तस्याः संदेहापनुदं जगाद । प्रभावति शृणु । तदा तस्करो राजानं व्यजिज्ञपत् । देव
विज्ञप्तिरेकास्ति । अहं किमपि चूडामणिसमहितं ज्ञानं करतलकलितमविकलमाकलयामि । तर्हि
भविष्यतः समयस्य कमपि ज्ञानप्रकारमभिधास्यामि । तदनु भूपालो ऽप्यवदत् । व्याहरस्वेति । ततो
ऽसौ जगाद । देव एतत्त्वं बाधाराहित्येन निर्णयकटाक्षितमेव जानीहि । एकस्मात्प्रहरादुपरि समस्तो
ऽपि सर्गो ऽन्यथैव भविष्यति । अन्धकारः प्रवर्तिष्यते महाभयानकः । तर्ह्येवंविधस्यातिगरीयसो जगदु -
पद्रवस्य शान्तिकरणाय त्वय्याकाङ्क्षा वरीवर्ति यदि तदानीं कुरु तत् । इतरथैतत्सर्वमपि परिसमा -
प्तमेवेत्यहं पश्यामि । तदनु मेदिनीनाथो गिरमसृजत् । तर्ह्येतस्योपद्रवस्य कथं शान्तिर्भवतीत्याच -
ष्टाम् । तदा राजाज्ञामासाद्य सो ऽप्युवाच । त्वमेव तदुपद्रवस्य शान्तिं करिष्यसीत्वेयेतदर्थे मह्यमात्मनः
कथय । कथमवधीस्तन्मांसमपि भुञ्जानाया भवत्याः कथं स्वादुविशेषमपुष्यत् । तद्भवत्याः सौहित्ये प्रीत्
भिव्यञ्जकं । तच्छ्रोतुमुत्कण्ठिताया मम पुरस्तादकुण्ठितगत्या गरिष्ठां गोष्ठीं वावदीतु भवती । तदनु
सा मण्डोदरी तद्वचनप्रणयिनी तां गोष्ठीमुत्पादयितुं प्रावर्तिष्ट । ततः सा मकरन्ददंष्ट्रा वाक्यावसाने
चष्टे हुंकारमुच्चरति पेटां चपेटयति शनैः शनैरिति विदधानां तां समीक्ष्य मण्डोदरी शङ्कामियाय ।
मकरन्ददंष्ट्रा प्रतिक्षणं पेटां चपेटया ताडयति । तर्हि धनस्याभिलाषेण साष्टोलीमत्रोटयत् । राजकीयं
मानुषं पेटसंपुटमध्यवर्तिनं विधाय समागता कितवाग्रेसरा । तर्हि किमतः परं विधातव्यम् । अहमपि
समस्तं मायूरं वृत्तान्तं तस्याः दुष्टाशयायाः पुरस्तादस्ताशङ्कं व्याहार्षम् । इति परां चिन्ताकोटीमा
टीकमाना वर्तते । तर्हि प्रभावति तदानींतने तादृशे समये कमुपायमकल्पयत्सा । ततः प्रभावत्यपि
शुकवचनानुसारिणी तद्विचारपरा तां रात्रिमतीत्य दिनस्योदये विद्रावितनिद्रामुद्रं पत्त्ररथं पप्रच्छ
सो ऽभ्यधाच्च । आकर्णय प्रभावति । ततः सा मण्डोदरी तस्याः पुरस्ताद्वार्त्तां व्याहरमाणा वाचंयमा
बभूव । तदनु मकरन्ददंष्ट्रा पुरस्तात्किमजायतेति मण्डोदरीमन्वयुङ्क्त । तदा मण्डोदरी जगाद । तथैव
प्राभातिकः समयः प्रादुरासीत्सूर्यो ऽप्युदयमापेदिवान् । तर्हि मकरन्ददंष्ट्रे त्वमप्यभिधेहि । स्वप्नो ऽयं
किंरूपः । एतदीयं फलं भव्यमभव्यं वेति जानीषे । अत एव भवत्याः पुरतो ऽयमभिहितः । तन्निशम्य
पेटासंपुटान्तःस्थितो ऽमात्यो बहिर्निरगात् । गत्वा च राज्ञे निवेदयामास । मण्डोदरी मकरन्ददंष्ट्राया
अग्रे स्वप्नमुज्जगार । इयं चास्माकमग्रे मण्डोदरी मयूरं न्यवधीदित्यभ्यधात् । तदनु निशम्य मकरन्ददंष्ट्रायै
राजा अक्रुध्यत् । तर्हि प्रभावत्येतादृशमुपायविशेषं परिकल्पयसि चेत्तदानीमादृतादरा भव ॥
इति त्रिंशती कथा ॥ ३० ॥
तर्हि प्रभावती शुकं प्रश्नीकरोति स्म । सो ऽप्यवोचत् । देवि मतिचकोरस्तस्कर आत्मनो विनाशमनीनशत् ।
तथा बुद्धिविधानमनुबध्नासि चेत्तदानुसर । ततः प्रभावती भारतीमहापयत् । मतिचकोरोदन्तमुदञ्चयेति ।
ततस्तथाभिहितो विहगस्तदुदन्तावेदनायासृजद्गिरम् । अवधेहि प्रभावति । गुर्जरजनपदे भृगुक्षेत्राभिधानं
नगरम् । तत्रैको ब्राह्मणः । स तु वैधेयशकल एव अतीव दैवविरहितः । स तु देवनाय प्रावर्तत । तदनु
शनैस्तस्करमतमन्वभवत् । तदा कुत्रापि खतपतितभित्तिविभागे दस्युरसौ विधृतः । राज्ञः समीपे निन्यु
स्तम् । राजा प्रत्यादिष्टवान् । चोरस्य दण्डो भवति यस्तमेतस्य कुर्वन्तु ।
यत ऊचुः । चोरदण्डः शिरश्छेदो विद्वद्दण्डस्त्वगौरवम् ।
भार्यादण्डः पृथक्छय्या मित्रदण्डस्त्वभाषणम् ॥
इत्यभिधाय तं मारयितुमनयत् । तर्ह्याचक्ष्व प्रभावति । मतिचकोर एतावत्समयसमासक्तौ तदा प्रतारकं
कमकरोत् । ततः प्रभावती विचारचातुर्यमनुभूयापि तदविषयन्ती विहंगमं व्याजहार । तया पृष्टः
शुको ऽपि तस्याः संदेहापनुदं जगाद । प्रभावति शृणु । तदा तस्करो राजानं व्यजिज्ञपत् । देव
विज्ञप्तिरेकास्ति । अहं किमपि चूडामणिसमहितं ज्ञानं करतलकलितमविकलमाकलयामि । तर्हि
भविष्यतः समयस्य कमपि ज्ञानप्रकारमभिधास्यामि । तदनु भूपालो ऽप्यवदत् । व्याहरस्वेति । ततो
ऽसौ जगाद । देव एतत्त्वं बाधाराहित्येन निर्णयकटाक्षितमेव जानीहि । एकस्मात्प्रहरादुपरि समस्तो
ऽपि सर्गो ऽन्यथैव भविष्यति । अन्धकारः प्रवर्तिष्यते महाभयानकः । तर्ह्येवंविधस्यातिगरीयसो जगदु
पद्रवस्य शान्तिकरणाय त्वय्याकाङ्क्षा वरीवर्ति यदि तदानीं कुरु तत् । इतरथैतत्सर्वमपि परिसमा
प्तमेवेत्यहं पश्यामि । तदनु मेदिनीनाथो गिरमसृजत् । तर्ह्येतस्योपद्रवस्य कथं शान्तिर्भवतीत्याच
ष्टाम् । तदा राजाज्ञामासाद्य सो ऽप्युवाच । त्वमेव तदुपद्रवस्य शान्तिं करिष्यसीत्