शुकसप्ततिः /42
This page has been fully proofread twice.
ततः प्रभावती पतत्रिणमप्राक्षीत् । शुको ऽपि व्याहार्षीत् । देवि केलिकेव संकुचितावसरमपसारयितुं
पारयसि चेत्तदानीमभितिष्ठाभिसरणमिति विहगेनाभिहिते तद्वृत्तान्तविविदिषया प्रभावत्या पृष्टः
प्रत्याचष्टाण्डजः । शृणु मदनसेनमनोनन्दिनि । भीमरथ्यास्तीरे कस्मिंश्चिद्ग्रामे सापुलसंज्ञः कृषीवलः । तस्य
सहचरी केलिका । तत्तीरादितरस्मिंस्तीरे वाञ्छितार्थप्रदः सदा शिवः । तस्य पूजकेन समं स्वेच्छा -
चरणेन व्यभिचरति । इत्यमेकस्मिन्दिवसे पराह्णसमये पानीयानयनाय गर्गरीं गृहीत्वा तरङ्गिणीम -
गच्छत् । तथैव पानीयमानीय तस्य सिद्धेश्वरस्य पूजकमुपधवमद्राक्षीत् । तत्समीपान्निवर्तमाना धव -
मद्राक्षीत् । तर्हि प्रभावति त्वमपि चिन्तय । तत्र सा कमुपायमकल्पयत् । ततः प्रभावती विचारबला -
वलम्बनापि न कलयामासोपायविशेषम् । तदनु रात्रिरपि पर्यहीयत । ततस्तत्प्रश्नकरणाय शुका -
न्तिकमेति स्म । सो ऽप्यभिदधे सावधानाम् । तस्मात्तीरादायान्तीं तां तस्या भर्ता लक्षीचकार । ततः सा
वेगगतिर्जलपूर्णं कुम्भं गृहे समानीय तत्प्रातिवेशिनीपुरस्तात्संकेतं परिकल्प्य तदनु निजकुलदेवतायाः
स्नानादिकं विधाय पूजाप्रमुखोपचारषोडशकं समाप्य प्रार्थनां कर्तुं प्रवर्तते । देवि प्रार्थयेयम् । तदन्व -
पमृत्युव्यपोहनाय भवत्युपायं न्यरूपयत् । परस्मिंस्तीरे सिद्धेश्वरस्य पूजा विधातव्या गःसुकाश्च दाल -
यितव्या देवस्य । तर्हीदानीं गःसुकादालनं च कृत्वा समागता स्मेदानीं त्वदुपान्तम् । तर्हि भवदुपयाचितं
तत्सर्वमपि संपूर्णतया सिद्धं गतं न वेति अभिहिते तया तत्प्ररातिवेशिनी भाषते स्म । उपयाचितं
सर्वमपि संपूर्णगत्यावाप्तम् । अनेनैकचित्ततया भवद्विरचितेन नियमविशेषेण समस्तमप्युपयाचितं निष्प्र -
त्यूहतया संपन्नम् । भवद्भर्तुश्चायुर्वर्धते । भवत्या सिद्धेश्वरदेवस्य उपासना न चिहासितव्या । इत्थं तस्याः
पतिस्तयोः संवादं आकर्णयन्विद्यते । तन्मनसीत्थमभ्यधात् । इत्थं वराकी मम जाया निमित्तं शुभं
कुर्वाणास्ति । तदनु तां मानितवान् । स्तुत्यादिवचनपरंपरया तां समतोषयत् । तर्हि प्रभावति विचा -
ररचनां त्वं चातुर्येण प्रबध्नासि यदि तदानीमिदमादर्तव्यं स्वमीहितम् ॥
इत्येकोनत्रिंशती कथा ॥ २९ ॥
पुन:नः प्रभावती विनयकन्दर्पान्तिकगमनाय विहंगं जगाद सो ऽप्यवदत् । देवि मण्डोदरीवोत्तरवि -
निमयनिर्माणे निजां मतिं विशदयसि यदि तदाङ्गीकुरु । ततस्तद्वृत्तान्तमवजिगमिषुः प्रभावती शुक -
मनुयुनक्ति । तदावेदितुमाह शुकः । देवि प्रतिष्ठाननगरे यशोधनाभिधो वणिग्युवा । तस्य तनया
मण्डोदरी । सा यशोधनाय जीवादप्यतिशायिनीं प्रीतिमावहति । ततस्तस्याः कृते जामातरमेकम -
मेलयत् । सा मण्डोदरी स्वभर्त्रा सहितानवरतं गृह एवोपभोगकौतुकमनुभवति । तदनु मण्डोदर्याः
सखी मकरन्ददंष्ट्रा राजकुल एवावतिष्ठते । ततः सा मकरन्ददंष्ट्रा राजपुत्रेण समं मण्डोदर्याः संगत -
मकारयत् । पश्चात्तस्य राजपुत्रस्य मण्डोदर्यां गर्भो ऽजायत । तदनु दौहृदावसरे मायूरमांसभक्षणा -
याकाङ्क्षा प्रावर्तिष्ट । ततः कस्मिंश्चिद्दिने राज्ञः क्रीडामयूरश्चरन्नास्ते । सा एकान्त एव सर्वेषामप्यपश्यतां
तन्मयूरं निहत्य तन्मांसं पक्त्वा स्वादितवती । तदनु मकरन्ददंष्ट्रायाः सख्याः पुरस्तान्मैत्रभावेन तयैकदा -
वादि । मया मयूरमांसभक्षणरूपसमुद्भुतदौहृदया राजकीयं क्रीडामयूरं निहत्य निजदौहृदपूरणम -
कारीति प्रीतिभावनतया न्यगदि । तदनु राजकीयः क्रीडामयूरः कुत्रापि गतवान्न च दृश्यते । राजा
तु तत्क्रीडामयूरदर्शनाय सो<error>ट्घो</error><flagix>द्घो</flagix>षमुदञ्चितवान्ध्वजपटम् । तदा मकरन्ददंष्ट्रा तमक्रोडत् । राजकीया
मकरन्ददंष्ट्रामप्राक्षुः । सावदत् । यशोधनविपणिनस्तनयया मयूरो मारितः । अहं तस्या एव मुखसंवादेन
भवतां प्रत्ययमुत्पादयिष्यामि । एकं नरं विश्वासभूतं मया समं प्रस्थापयिष्यन्त्वित्यभिधाय प्रच्छन्नमेव
मञ्जूषायां प्रक्षिष्प्य तां चैकस्य मूर्ध्न्यारोप्य मण्डोदर्या अभ्याशमसरत् । तत्र गत्वा मञ्जूषामवारोपयत् ।
तदनु मण्डोदरीं व्याहरति स्म । त्वं मदीयात्प्राणादप्यतिशायिनी । त्वां विना नान्या काचन मम
संनिधानपदवीमवगाहते । तर्हि मम यः कश्चन विद्यते सिचयभूषणादिवर्गस्तं सर्वमपि त्वत्सात्करवा -
पारयसि चेत्तदानीमभितिष्ठाभिसरणमिति विहगेनाभिहिते तद्वृत्तान्तविविदिषया प्रभावत्या पृष्टः
प्रत्याचष्टाण्डजः । शृणु मदनसेनमनोनन्दिनि । भीमरथ्यास्तीरे कस्मिंश्चिद्ग्रामे सापुलसंज्ञः कृषीवलः । तस्य
सहचरी केलिका । तत्तीरादितरस्मिंस्तीरे वाञ्छितार्थप्रदः सदा शिवः । तस्य पूजकेन समं स्वेच्छा
चरणेन व्यभिचरति । इत्यमेकस्मिन्दिवसे पराह्णसमये पानीयानयनाय गर्गरीं गृहीत्वा तरङ्गिणीम
गच्छत् । तथैव पानीयमानीय तस्य सिद्धेश्वरस्य पूजकमुपधवमद्राक्षीत् । तत्समीपान्निवर्तमाना धव
मद्राक्षीत् । तर्हि प्रभावति त्वमपि चिन्तय । तत्र सा कमुपायमकल्पयत् । ततः प्रभावती विचारबला
वलम्बनापि न कलयामासोपायविशेषम् । तदनु रात्रिरपि पर्यहीयत । ततस्तत्प्रश्नकरणाय शुका
न्तिकमेति स्म । सो ऽप्यभिदधे सावधानाम् । तस्मात्तीरादायान्तीं तां तस्या भर्ता लक्षीचकार । ततः सा
वेगगतिर्जलपूर्णं कुम्भं गृहे समानीय तत्प्रातिवेशिनीपुरस्तात्संकेतं परिकल्प्य तदनु निजकुलदेवतायाः
स्नानादिकं विधाय पूजाप्रमुखोपचारषोडशकं समाप्य प्रार्थनां कर्तुं प्रवर्तते । देवि प्रार्थयेयम् । तदन्व
पमृत्युव्यपोहनाय भवत्युपायं न्यरूपयत् । परस्मिंस्तीरे सिद्धेश्वरस्य पूजा विधातव्या गःसुकाश्च दाल
यितव्या देवस्य । तर्हीदानीं गःसुकादालनं च कृत्वा समागता स्मेदानीं त्वदुपान्तम् । तर्हि भवदुपयाचितं
तत्सर्वमपि संपूर्णतया सिद्धं गतं न वेति अभिहिते तया तत्प्
सर्वमपि संपूर्णगत्यावाप्तम् । अनेनैकचित्ततया भवद्विरचितेन नियमविशेषेण समस्तमप्युपयाचितं निष्प्र
त्यूहतया संपन्नम् । भवद्भर्तुश्चायुर्वर्धते । भवत्या सिद्धेश्वरदेवस्य उपासना न चिहासितव्या । इत्थं तस्याः
पतिस्तयोः संवादं आकर्णयन्विद्यते । तन्मनसीत्थमभ्यधात् । इत्थं वराकी मम जाया निमित्तं शुभं
कुर्वाणास्ति । तदनु तां मानितवान् । स्तुत्यादिवचनपरंपरया तां समतोषयत् । तर्हि प्रभावति विचा
ररचनां त्वं चातुर्येण प्रबध्नासि यदि तदानीमिदमादर्तव्यं स्वमीहितम् ॥
इत्येकोनत्रिंशती कथा ॥ २९ ॥
पु
निमयनिर्माणे निजां मतिं विशदयसि यदि तदाङ्गीकुरु । ततस्तद्वृत्तान्तमवजिगमिषुः प्रभावती शुक
मनुयुनक्ति । तदावेदितुमाह शुकः । देवि प्रतिष्ठाननगरे यशोधनाभिधो वणिग्युवा । तस्य तनया
मण्डोदरी । सा यशोधनाय जीवादप्यतिशायिनीं प्रीतिमावहति । ततस्तस्याः कृते जामातरमेकम
मेलयत् । सा मण्डोदरी स्वभर्त्रा सहितानवरतं गृह एवोपभोगकौतुकमनुभवति । तदनु मण्डोदर्याः
सखी मकरन्ददंष्ट्रा राजकुल एवावतिष्ठते । ततः सा मकरन्ददंष्ट्रा राजपुत्रेण समं मण्डोदर्याः संगत
मकारयत् । पश्चात्तस्य राजपुत्रस्य मण्डोदर्यां गर्भो ऽजायत । तदनु दौहृदावसरे मायूरमांसभक्षणा
याकाङ्क्षा प्रावर्तिष्ट । ततः कस्मिंश्चिद्दिने राज्ञः क्रीडामयूरश्चरन्नास्ते । सा एकान्त एव सर्वेषामप्यपश्यतां
तन्मयूरं निहत्य तन्मांसं पक्त्वा स्वादितवती । तदनु मकरन्ददंष्ट्रायाः सख्याः पुरस्तान्मैत्रभावेन तयैकदा
वादि । मया मयूरमांसभक्षणरूपसमुद्भुतदौहृदया राजकीयं क्रीडामयूरं निहत्य निजदौहृदपूरणम
कारीति प्रीतिभावनतया न्यगदि । तदनु राजकीयः क्रीडामयूरः कुत्रापि गतवान्न च दृश्यते । राजा
तु तत्क्रीडामयूरदर्शनाय सो<error>ट्घो</error><f
मकरन्ददंष्ट्रामप्राक्षुः । सावदत् । यशोधनविपणिनस्तनयया मयूरो मारितः । अहं तस्या एव मुखसंवादेन
भवतां प्रत्ययमुत्पादयिष्यामि । एकं नरं विश्वासभूतं मया समं प्रस्थापयिष्यन्त्वित्यभिधाय प्रच्छन्नमेव
मञ्जूषायां प्रक्षि
तदनु मण्डोदरीं व्याहरति स्म । त्वं मदीयात्प्राणादप्यतिशायिनी । त्वां विना नान्या काचन मम
संनिधानपदवीमवगाहते । तर्हि मम यः कश्चन विद्यते सिचयभूषणादिवर्गस्तं सर्वमपि त्वत्सात्करवा