शुकसप्ततिः /41
This page has not been fully proofread.
355
भवेय । भवन्तो मन्मारणनिमित्तं यथाकथंचन कुर्वन्तु परं नाहं म्रिये । तदानीं विस्मयो राज उदियाय ।
राजा तमप्राचीत । भवदमरणे किं कारणम् । तदन्ववदत्सो ऽपि । ज्ञानशीलिनः पुमांसो बालकगले
र चामभिलक्ष्य मन्त्रसंस्कृतान्सर्षपान्दीयन्तां समस्तापि डाकिनीभूतप्रेतपिशाचजनितबाधा बाधिता
भवति न कश्चिदप्युपद्रवः प्रभवति पीडयितुम् । मम गले सर्षपभार एतावान्संस्थितोऽस्ति । ततः
केन विशेषेण मयि मरणोद्भावनं विकचयन्ति हन्त । इत्याकर्ण्य महीन्द्रो व्याहार्षीत् । तं मोचयध्वम् ।
तर्हि कुमुदनन्दिनि एतावदुपायपरिशीलनं भवती वेत्ति चेत्तथा विधेहि विधेयविशेषणम् ॥
इति सप्तविंशती कथा ॥२७॥
5
ततः प्रभावती भुजंगसंगतं चिकोर्षन्ती वयसि वाचां विलासं प्रकाशयति स्म । ततस्तया पृष्टः शुकः
शान्तिकादेवी ह्यात्मनो भतीरं विषमावस्थापन्नं मतिसमुन्मेषाभिव्यञ्चनेनोदमोचयत् । तादृशं बुद्धि-
विधानं जानासि चेत्तदानीं याहीत्यवादीत्ताम् । तदनु तद्वृत्तान्तं जिज्ञासमानया तथा प्रभावत्या 10
पृष्टः शुकस्तामवदत् । पृथुप्रथिमभाजि करभापुरे गुणगौरवो नाम वणिगग्रगण्यः । तत्सहधर्मचारिणी
शान्तिकादेवी । स तु गुणगौरवः प्रतिदिनं नगरबहिर्गतकेतनां यक्षिणीं नमस्कुरुते नियमितमानसः । स
त्वेकदा रजन्यां यक्षिणीदेवालये नमस्कारणायोदचलत् । तदनुसारिणी काचन धर्षिणी निरयासीत् ।
तत्र तयोर्द्वयोः संगतमजायत । स तु तामात्मन उपभोगाय बलादेवाभ्यर्थयामास । तौ द्वावपि प्रासा-
दमध्ये तिष्ठतः । तावता सदीपका यामिका: प्रासादमध्यं दिदृक्षवः तदन्तर्वर्तमानचोरादिशङ्का निरा- 15
करिष्णवः समागमन् । तौ द्वावपि अन्तर्वर्तिनौ दृग्विषयीकृतौ । तदनु प्रासादमभितो रचणमुद्दिश्य
रचकान्प्राचिपत्प्रातरेती द्वावपि क्षोणीरचकस्य चक्षुर्विषयतामापादयिष्यामीत्यभिधाय स्वविधेयविशेषं
निरवर्तयद्यामिकाधिपः । ततः शान्तिकादेवी च तां वातामश्रीषीत् । तत्प्रभावति केनोपायविधानेन
स्वपतिं निरमोचयत्सा । ततः प्रभावती बहुधा विचारनिर्माणपरा नाविन्दत्तदुपायम् । ततः प्राभा-
तिके समये शुकमजल्पत्कृशोदरी । शुकः प्राचीकटत् शान्तिकादेवीबुद्धिविलासम् । प्रभावति सा शा- 20
न्तिकादेवी निजं भतीरं देवागारे राजभटै: प्रासादमध्य एव रचितमवगत्य स्वयं भोजनमभिमतं
विधाय पुरस्तान्मृदङ्गवादन कारयन्ती कल्पितप्रबहून्नपाका समस्तोपचारप्रपञ्चनपरा यक्षिणीप्रासा-
दमाससाद । तदा रक्षणनिमित्तं द्वारि स्थितान्भटानद्राचीत् । ते न कस्याप्यन्तःप्रवेशं ददति । तदनु
सा तदभिमुखमागतवती द्वारपालानवदत् । परमेश्वर्यः पूजायुपचारपरिचरणं विहाय मम पारणा-
विधिर्न फलति । अद्य भवद्भिरस्मदोये मन्दिरे ऽभ्यवहृतिरभ्यसनीया । तावता ताम्बूलं नयन्त्वित्यभि- 25
धाय करस्थितं कङ्कणं यामिकानां करे व्यसृजत् । अहमेकाक्येवान्तर्गत्वा देवतां चोपचारविशेषैरभ्यर्च्य
नियमं निर्मायेदानीमेव व्यावृत्यागमिष्यामीत्यभिधाय प्रासादान्तः प्राविशत् । तत्र गत्वा स्वकीयवसना-
भरणादिकं व्यभिचारिण्यै दत्त्वा तन्मिषेण तां बहिरचीकरत् । स्वयं तु तत्रैवातिष्ठत् । प्रातस्तु तद्वृत्तान्त
यामिका भूपालाय न्यवेदयन । देव धनभूतिनामा विपणिः परपुरंध्रीसहितो बहिर्देवप्रासादे निरुद्धस्था-
पितो ऽस्ति । देवेनात्मीया जनास्तदवलोकनाय प्रस्थापितव्याः । तदनु तस्य तथोचितदण्डविधानेनोक्तव्यो 30
ऽसौ । ततस्तेषां वचनाद्राजा निजजनान्प्रस्थाप्य तद्दर्शनमचीकरत् । ततस्ते जनाः प्रासादं गत्वा स्वसीम
न्तिनीसमन्वितं धनभूतिं लक्षयन्ति स्म । राजापि तज्जनावेदितं श्रुत्वा तथा स्वभार्यानुगतं धनभू-
तिमन्तःस्थितमवगत्य यामिकानामुपरि भूरिकोपान्निगलं विधाय स्वपत्नीयुतं धनभूतिं प्रास्थापयत् ।
तर्हि प्रभावतीदृग्विधालीकत्वापाते ऽपि युक्तिविशेषानुकरणेन यदि स्वयं कर्तुमीशिषे तदा स्वेप्सितं
साधय ॥
इत्यष्टाविंशती कथा ॥ २८ ॥
35