शुकसप्ततिः /40
This page has been fully proofread once and needs a second look.
मश्चत्तदानीं दिवसो ऽपि समानं नावसानभावं भजते । अद्यतनं दिवसमत्रैवास्मिन्निवासाय सौकर्यं
कुर्वन्तु । यद्याचिष्यन्ते तदहं वितरिष्यामि । ततस्तन्निशम्य कुट्टिनी प्रकटीचकार वाचम् । ईदृशं सामा -
न्यजनस्वभावासन्नं च किमिति व्यवहरन्ति भवादृशाः । भवन्तः किमन्यलोकसामान्याः । गृहमिदं यौष्मा -
कीणमेव।अत्र सुखेनागन्तव्यमुषितव्यं च । भवत्सदृशाः समायान्ति यस्मिन्दिने तदेव सुदिनम् । इतराणि
दुर्दिनानीति । तथैवमस्मदीया तनया रथ्यापण्याङ्गना । भास्वत्कपर्दकं गृहीत्वा पानीयं पायय ता -
दृक्क्लमभावोद्भाविनी न भवति । ततः कपटविपणी वाणीं प्राणैषीत् । धनं मदीयो ऽयं बलीवर्दो
दूरतरं गच्छति । द्वारि स्थापयितुं न युज्यते । अयमन्तःशालायां प्रबद्धव्य इत्यभिधाय तत्र स्थितवान् ।
अङ्गमर्दनप्लवनाद्यजायन्त । रात्रौ तया सह न्यवात्सीत् । प्रत्यासन्ने प्रातस्तनसमये समुत्याय वेश्यायाः
सकलमलंकारं गृहीत्वा गतवान् । वृषभं च तत्रैवावस्थापयत् । तदनु दिनोदये दासी बहिर्निरगात् ।
वृषभं निबद्धमद्राक्षीत् । तावता जरन्तं विश्वंभरास्पृशत्सास्नं रोरूयमाणमभिवीक्ष्य ककुद्मन्तं दासी
शम्भलीं बभाण । कस्यायं बहिर्निबद्धो वृषभ इति । ततः शम्भली तस्यास्तदभिहितमाकर्ण्य त्वरितग -
तिरुदतिष्ठत् । वृषभं चापश्यत् । पश्चात्कुट्टिनी जगाद । पश्य रे शर्वरीसमागतो गृहान्तरे स्थितवान्वा ।
यावतासौ वीक्षांचक्रे तावतासावलंकारान्गृहीत्वा निरगात् । पश्चाद्वृषभमुदमोचयत् । तदा कुट्टिनी
तदात्मनो निकरणं प्रख्यापयसि चेत्तदा समग्रपण्याङ्गनावर्गमध्ये ऽपहासास्पदाभिमुख्यतामभजाव ।
इति मत्वा मौनमेवावलम्बितवती । तदन्वतिक्रान्तैर्बहुभिर्दिनैः स गुणाढ्यः कुट्टिन्या दृग्विषयीकृतः ।
मदीयसमस्तवस्तुलुण्ठको ऽयमित्यभिधाय विधृतस्तया । सा तं राजभवनं नेतुमुद्युनक्ति स्म । तर्हि प्रभा -
वति त्वमपि भाषस्व । एतावति संकुचितसमयातिपाते ऽपि कमुपायमजीघटत् । तदा प्रभावती विचा -
रचतुरचिन्तापि न स्म प्रतिभामत्यर्थं करोति । तदा दिनारम्भे निद्राविमुद्रितं पक्षीन्द्रं पप्रच्छ । शुकः
प्रगल्भते स्म गिरोत्सर्गाय । यावता सा तं धृत्वा नृपतिमण्डलमुद्दिश्य नेतुं प्रववृते तावतासौ सिंवो
सिंवोलीति क्रियासमभिहारेण शब्दं व्याहर्तुं प्रचक्रमे । ततस्तथाविधं चण्डालजात्यभिव्यञ्जकं तस्य शब्दं
निशम्य शम्भली सहसाभैषीत् । तमस्विनीमेकां मत्तनयां संनिधर्षितवानिति चेत्तदास्माकं राजदण्ड
आपतिष्यतीति विमृश्य तं प्रास्थापयत् । इतो याहीत्यभिधाय । तदासाववादीत् । मदीयस्त्वरितग -
तिरनड्वान्भवतां समीपे तिष्ठति । स दातव्यः । नो चेदयाहमावेद्य राजकुले भवतीं दण्डयिष्यामि ।
मातङ्गस्योपभोगमकार्षीदियमित्यभिधाय यास्यामि । तदनु कुट्टिनी विहाय तस्मै किमपि दत्त्वा प्रस्था -
पयामास । तत्तर्हि प्रभावति एतावती संकीर्ण समयमेतादृशेन बुद्धिवैभवबलेन व्यपोहितुं पारयसि
चेत्तदानीं प्रवर्ततां नाम ॥
इति षड्विंशती कथा ॥ २६ ॥
ततः प्रभावत्युपरमणनिवासमियासुः पतंगपुंगवं गिरा संगतोत्तरगिरं चकार । देवि सर्षपस्तेनवदात्मनो
वैषम्यापनयनं निर्मातुं प्रभवसि चेत्तदा व्रज । ततस्तत्पृष्टः शुकः प्रभावतीं तद्वृत्तान्तमश्रावयत् । शृणु
श्रवणानन्द प्रदायिमत्पदचरिते । प्रतिष्ठानपुरे को ऽपि दस्युर्न्यवात्सीत् । स तु द्यूते सर्वमपि धनं परा -
जीयत । तदनु यामिन्यां कस्यचिद्वणिजो गृहे भित्तिं विभिद्यान्तः प्राविशत् । तद्गृहमध्ये न किमपि
नयनविषयीकृतवान् । तत एकस्मिन्भाण्डे सर्षपानपश्यत् । तान्गृहीत्वा वस्त्रेण बद्धा बहिर्निरगच्छत्।
तावता राजभटा आज्ञासिषुः । स तैर्विधृतः तद्वद्धसर्षपवस्त्रं तद्गले बद्धा राज्ञः समीपं प्राप्तः । राजापि
तान्भटानेवमवादीत् । गच्छतैनं गृहीत्वा मारयतेत्युक्ते प्रभावति त्वमपि विचार्य मह्यमावेदय । इत्थं
केनोपायबलेन रचितवानसावात्मानमिति । प्रभावती विचारचातुर्यं नाटयन्ती न वेत्ति तत्प्रश्नम् ।
तदनु प्रभातं संजातमवगत्य पतंगश्रेष्ठमनुयुयोज । सो ऽप्यवादीत् । आकर्णय प्रभावति । राजा तं व्या -
पादनायानाययत् । ततो मलीमसो मलिम्लुचो महीपालं जगाद । अहं भवदुचितप्रयत्नशतैर्न हिंस्यो