शुकसप्ततिः /39
This page has been fully proofread twice.
भयोर्मध्ये यो ऽद्य तमस्विन्यामेक एव स्थास्यति स एव सत्यवक्ता । यस्तु बहिर्भविष्यति सो ऽलीक
इति नियमं कृत्वा गृहे गत्वोभावप्यभ्यवहृत्य निदद्रियेताम् । तदनु जनवल्लभस्य स्वरूपसुखपर्यायना -
मधेयसाधारणीं सकलहृदयवैधुर्यनिद्राविद्राविणीं निद्रामुद्राङ्कितद्रुमंचतां भर्तुर्निरीक्ष्य नीरजाक्षी
समुत्थाय मुग्धिका गृहाद्वबहिर्निरगात् । ततः सो ऽपि प्रबुध्य सहचरीं यावच्छयने पश्यति तावन्न
तत्रास्ति । आपन्नधैर्ययावस्थेति पश्चादुत्थाय कवाटं प्रादाद्भर्ता । सा तु स्वविधेयमविशेषयित्वा यदा -
गच्छति तावत्कवाटं पिहितमस्ति । तर्ह्यभिधेहि प्रभावति । सा तत्र कमुपायं प्राकल्पयत् । ततः प्रभावती
तद्विचाररचितचिन्तापि तमुपायं न गोचरीकुरुते स्म । तदनु त्रियामामतिक्रम्य तमेवोपायं शुकमन्वयुङ्क्त ।
तदासाववादीत् । शृणु श्रवणगुणगणे । सा कवाटं तत्प्रतिक्षिप्तं परिज्ञाय देहलीसमीपे निलीय यथासौ
जनवल्लभः शृणोति तथैकाकिन्येव वाचं वक्तुं प्रावर्तत । किमेवं कृतं मया । ज्वलत्विदमस्मदीयं जीवितम् ।
अहं तथैव बहिर्निरगाम् । प्रातः पितृभ्रातॄणां मध्ये मदीयं मन्दाक्षमालिन्यं मन्देतरमाविर्भविष्यति। ।
तर्हि केन प्रकारेण जीवत्यागं करोमि न वा । इति संदेहे सा पद्यमिदमकार्षीत् ।
वरं प्राणपरित्यागो न मानपरिखण्डनम् ।
मरणे क्षणिकं दुःखं मानभङ्गे दिने दिने ॥
तस्मादिदानीं प्रमीयते । इत्यंथं भर्तरि शृण्वति सति सा निश्चित्याहार्यनिश्चयेव गृहनिकटस्थितजलगर्ते
पतिष्यामीत्युक्त्वा गत्वा च जलगर्तसमीपं कूपस्योपरि वर्तिनीं शिलां गृहीत्वा कूपस्यान्तः प्राक्षिपत्। ।
स्वयं चागत्य द्वारशाखान्तिके न्यलीयत । शिला तु जलमध्यमापातयन्ती ठठात्कारेण महतानाद्यत ।
तद्धध्वनेर्बिभ्यदसौ प्रवेपमानो वेगेन विहाय शयनीयं कवाटं विघाटयन्बहिरागत्य कूपोपकण्ठं गत्वा
तत्संनिधायिन्यौ श्रुती विधायान्तः पतितवधूध्वनिविशेषाकर्णनाय प्रगुणोणीभवति स्म । तस्मिन्नवसरे सा
गृहान्तरं प्रविश्य कवाटं कृपीटयोनिमानसा समजीघटत्कपटोपायप्रकटितमतिः कुलटाकुलदेवता ।
सो ऽपि कूपमध्ये कमपि ध्वनिमनाकर्णयन्पुनरागत्य यावता प्रविविक्षति तावता पिहितकवाटद्वारं
लक्षितवान् । तदनु मनसि ध्वनति स्म । तद्विधेयवैशिष्ट्यं मुग्धिकया एवेत्यभिधाय द्वारि स्थितः मुग्धिका -
मभ्यधात् । वयं भवत्याश्चातुर्येण समुन्मिषितप्रतिभाः स्वमनसि परां संतुष्टिमाबिभ्राणा वर्तामहे । तदानीं
निशम्य कवाटमुदजीघटत् । द्वयोरपि प्रेमप्रकर्षः प्रादुरभूत् । तर्हि प्रभावति त्वमपीत्थमुपायविशेषं
प्रगुणयसि चेत्तदानीमादर्तव्यं स्वसमीहितमिति ॥
इति पञ्चविंशती कथा ॥ २५ ॥
पुनः प्रभावती पप्रच्छ पक्षिणम् । गुणाढ्यब्राह्मणवद्यदि संकीर्णसमयं नेतुं पारयसि तदादर्तव्यमिति
सो ऽप्यवादीत्ताम् । तद्वृत्तान्तं व्याहरतादिति प्रभावत्या पृष्टः पक्षी प्रत्याह । विशालपुराभिधाने नगरे
गुणाढ्यनामाग्रजन्मा । स धनार्जनमुद्दिश्य देशान्तरमशिश्रियत् । तदनु पथि गच्छन्नगरमेकमाससाद ।
तत्र स्थित्वा समानलोके किं करवाण्यत्रेति न कमप्युद्यममाप्नुते स्म । तदनु गोष्ठे गत्वा निरुद्यम -
श्चिन्तयति स्म । तदा बृहत्तनुं प्रलम्बगलकम्बलं जराशिथिलितस्त्रानायुं वृषमेकं गोष्ठे लक्षीचकार । ततः
स गुणाढ्यो ऽनुदिनं तदभ्यग्रमागत्य करोरीषशकलेन वृषभस्याङ्गानि कण्डूयति तृणकणादि ग्रासाय
प्रयच्छति । इति प्रत्यहं परिशीलनेन स तं वृषभं स्ववशीचकार । इत्थं स प्रत्यहमागत्य रज्ज्वा निबध्य
यत्र क्वापि गच्छति तत्र निषधो ऽसौ गच्छति शृङ्गचालनेन रौद्रतां दर्शयति । तत एकस्मिन्दिवसे
वृषभे पर्याणं निक्षिप्य प्रदोषसमये कस्याश्चन पण्यगणिकाया गृहानगच्छद्वृषभमारुह्य । तस्याः कुट्टिनीं
प्रति गिरं नयति स्म । वयं व्यवहारिणः । अस्मदीया वस्तुपूर्णा अनड्वाहः पृष्ठतः समायान्ति । प्रातस्त्वा -
गमिष्यन्ति । अहं त्वत्र गत्वार्थनिर्णयायाग्रत एव समागममिदानीम् । पश्चान्निवेशितसंनिधानं या-
इति नियमं कृत्वा गृहे गत्वोभावप्यभ्यवहृत्य निदद्रियेताम् । तदनु जनवल्लभस्य स्वरूपसुखपर्यायना
मधेयसाधारणीं सकलहृदयवैधुर्यनिद्राविद्राविणीं निद्रामुद्राङ्कितद्रुमंचतां भर्तुर्निरीक्ष्य नीरजाक्षी
समुत्थाय मुग्धिका गृहाद्
तत्रास्ति । आपन्नधैर्
गच्छति तावत्कवाटं पिहितमस्ति । तर्ह्यभिधेहि प्रभावति । सा तत्र कमुपायं प्राकल्पयत् । ततः प्रभावती
तद्विचाररचितचिन्तापि तमुपायं न गोचरीकुरुते स्म । तदनु त्रियामामतिक्रम्य तमेवोपायं शुकमन्वयुङ्क्त ।
तदासाववादीत् । शृणु श्रवणगुणगणे । सा कवाटं तत्प्रतिक्षिप्तं परिज्ञाय देहलीसमीपे निलीय यथासौ
जनवल्लभः शृणोति तथैकाकिन्येव वाचं वक्तुं प्रावर्तत । किमेवं कृतं मया । ज्वलत्विदमस्मदीयं जीवितम् ।
अहं तथैव बहिर्निरगाम् । प्रातः पितृभ्रातॄणां मध्ये मदीयं मन्दाक्षमालिन्यं मन्देतरमाविर्भविष्यति
तर्हि केन प्रकारेण जीवत्यागं करोमि न वा । इति संदेहे सा पद्यमिदमकार्षीत् ।
वरं प्राणपरित्यागो न मानपरिखण्डनम् ।
मरणे क्षणिकं दुःखं मानभङ्गे दिने दिने ॥
तस्मादिदानीं प्रमीयते । इत्
पतिष्यामीत्युक्त्वा गत्वा च जलगर्तसमीपं कूपस्योपरि वर्तिनीं शिलां गृहीत्वा कूपस्यान्तः प्राक्षिपत्
स्वयं चागत्य द्वारशाखान्तिके न्यलीयत । शिला तु जलमध्यमापातयन्ती ठठात्कारेण महतानाद्यत ।
तद्
तत्संनिधायिन्यौ श्रुती विधायान्तः
गृहान्तरं प्रविश्य कवाटं कृपीटयोनिमानसा समजीघटत्कपटोपायप्रकटितमतिः कुलटाकुलदेवता ।
सो ऽपि कूपमध्ये कमपि ध्वनिमनाकर्णयन्पुनरागत्य यावता प्रविविक्षति तावता पिहितकवाटद्वारं
लक्षितवान् । तदनु मनसि ध्वनति स्म । तद्विधेयवैशिष्ट्यं मुग्धिकया एवेत्यभिधाय द्वारि स्थितः मुग्धिका
मभ्यधात् । वयं भवत्याश्चातुर्येण समुन्मिषितप्रतिभाः स्वमनसि परां संतुष्टिमाबिभ्राणा वर्तामहे । तदानीं
निशम्य कवाटमुदजीघटत् । द्वयोरपि प्रेमप्रकर्षः प्रादुरभूत् । तर्हि प्रभावति त्वमपीत्थमुपायविशेषं
प्रगुणयसि चेत्तदानीमादर्तव्यं स्वसमीहितमिति ॥
इति पञ्चविंशती कथा ॥ २५ ॥
पुनः प्रभावती पप्रच्छ पक्षिणम् । गुणाढ्यब्राह्मणवद्यदि संकीर्णसमयं नेतुं पारयसि तदादर्तव्यमिति
सो ऽप्यवादीत्ताम् । तद्वृत्तान्तं व्याहरतादिति प्रभावत्या पृष्टः पक्षी प्रत्याह । विशालपुराभिधाने नगरे
गुणाढ्यनामाग्रजन्मा । स धनार्जनमुद्दिश्य देशान्तरमशिश्रियत् । तदनु पथि गच्छन्नगरमेकमाससाद ।
तत्र स्थित्वा समानलोके किं करवाण्यत्रेति न कमप्युद्यममाप्नुते स्म । तदनु गोष्ठे गत्वा निरुद्यम
श्चिन्तयति स्म । तदा बृहत्तनुं प्रलम्बगलकम्बलं जराशिथिलितस्
स गुणाढ्यो ऽनुदिनं तदभ्यग्रमागत्य क
प्रयच्छति । इति प्रत्यहं परिशीलनेन स तं वृषभं स्ववशीचकार । इत्थं स प्रत्यहमागत्य रज्ज्वा निबध्य
यत्र क्वापि गच्छति तत्र निषधो ऽसौ गच्छति शृङ्गचालनेन रौद्रतां दर्शयति । तत एकस्मिन्दिवसे
वृषभे पर्याणं निक्षिप्य प्रदोषसमये कस्याश्चन पण्यगणिकाया गृहानगच्छद्वृषभमारुह्य । तस्याः कुट्टिनीं
प्रति गिरं नयति स्म । वयं व्यवहारिणः । अस्मदीया वस्तुपूर्णा अनड्वाहः पृष्ठतः समायान्ति । प्रातस्त्वा
गमिष्यन्ति । अहं त्वत्र गत्वार्थनिर्णयायाग्रत एव समागममिदानीम् । पश्चान्निवेशितसंनिधानं या-