शुकसप्ततिः /38
This page has been fully proofread twice.
रिगृहीतेषु । सुखमिदानीमनुक्तमवर्तिष्ट । तदनु सुवेषस्तामङ्कपालीकृत्वा व्याहृतवांश्च<fix> </fix>भवत्सदृशी पतिव्रता
पुरातनसुकृतविसरैरेव लभ्यते । भवत्यां विद्यमानायां मम न कुतश्चन वैषम्यमापतिष्यति । इत्यभिधाय
तां परिष्कारैः परिष्कृतवान् । तर्हि प्रभावति जानासि चेदुपायरचनानि तदा साध्यतामिति ॥
इति त्रयोविंशतिकथा ॥ २३ ॥
पुनरुपरमणेन समं रिरंसुर्मदनसेनरमणी शुकं प्रति चक्षुश्चिक्षेप । सो ऽप्यनङ्गसेनेव बुद्धिवेवैशारद्यं परि -
चिनोषि चेदिदानीमुचितमनुसंधेहि । तर्हि प्रभावत्यपृच्छत्पतत्रिणम् । अनङ्गसेनाचरितं कीदृशम् । तदित्या -
वेदयतु नाम भवान् । ततस्तदाचरितं विवर्णयिषुः शकुन्तो बभाषे । मालापुराभिधाने नगरे महाधनना -
मा वणिक् । तस्यात्मजो गुणगौरवस्तस्य गृहिणी अनङ्गसेना । सा च भुजंगसंगतिव्यसनिनी । सर्वे तां
तथाविधां जानते तद्भर्तुरग्रे तच्चरितं ज्ञापयन्ति परं तस्याः प्रेमभारपरीणसे न कस्याप्यभिहिते
शृणोति । एकदा सा भुजंगसहिता सुरतमनुबोभवीति । तदा तस्याश्चरणगतयोर्नूपुरयोर्ध्वनिरुदभूत् ।
ततस्तु ध्वनिभीषितहृदया नूपुरे पृथगेकीकृत्य तदुपभोगसुखमन्वभूत् । तद्विलसितं तस्याः श्वशुरेणा -
द्राक्षि । स च प्रच्छन्नो भूत्वा तदुपान्तिकमागत्य नूपुरमेकमपनीय गतवान्यथागतम् । ततो ऽनङ्गसेना
विचारपरायणा प्रावर्तत । असावेतं वृत्तान्तं मद्भर्त्रे ज्ञापयिष्यति । तदहमेव मान्यतागलिता भविष्यामि
अधन्या च । तर्हि कथं नाम का बुद्धिरत्रानुसंधेया । इति चिन्तानिमग्नमानसा बभूव । तर्हि प्रभावति
त्वमपि व्याहरस्व । सा कमुपायं प्राकल्पयत् । तदा प्रभावती भावितविचारचित्ताभवत् । नाबोधि ।
तावता रात्रिरप्यत्यवर्तत । तदनु वरवर्णिनी पक्षिणमप्राक्षीत् । सो ऽप्युवाच । तदानीमनङ्गसेना निज -
रमणसंनिधानमियाय । तेन समं भावप्रेमविलसितं पूर्वाभिनयवैचित्रोरीप्रपञ्चपरिचयप्रदर्शनेन तं संतोष्य
ततस्तत्पुरस्तात्किमपि वक्तुं प्रक्रामति । पश्य कुतनयं भवतो ऽग्रे व्याजह्रे । अतिक्रान्ते ऽहनि मच्छूछ्वशुरपादा
मदीयशय्यासंनिधानमागत्य नूपुरमेकमपजह्रुः: । ईदृशो नु भवतो जनको जागर्ति । तन्निशम्य प्रेया -
नवदत्तस्याः । नूनं नूपुरं चेदग्रहीत् । तदा गृहीतं देहि । अहमितरं नूपुरं कारयिष्ये । स मत्पिता सर्वदा
तादृश एव । न कंचन द्रष्टुं शक्नोति त्वां तु विशेषतो न दिदृक्षति । तर्हि त्वं मौनावलम्बनेन स्थि -
तिमाप्नुहि । त्वं तस्य वृद्धस्य विरोधं मनसि गृह्णासि । त्वया मदीयमनसोनुसंधानं विरुद्धाध्यासस्य
द्रष्टव्यम् । इत्यभिधाय सांत्वयामास ताम् । प्रातस्तु तत्पिता नूपुरं नीत्वा तनयस्यसासांनिध्यमाजगाम ।
तस्य पुरस्तात्तमस्विनीसंगतं निखिलमावेदयांचकार । तदाकर्ण्य गुणगौरवो ऽप्याह गिरम् । याहि याहि
मत्पुरस्तात्साधु वक्तुं समागतो ऽसि । भवद्भिरेव नूपुरमपहृतम् । तथा विनिमयेन दोषासञ्चनेन तामेव
भाषयन्ति । एतावताभिहितेन तज्जनको मौनमवललम्बे । अनङ्गसेना पूर्वमेव भर्तारमजिज्ञपत् । तद् द-
वष्टम्भनेनासौ जनकवचनं सत्यतया नोरीकृतवान् । प्रभावति त्वमपीति मतिचातुर्यं परिशीलयसि
तदा सा ध्रुनुहि ॥
इति चतुर्विंशतिकथा ॥ २४ ॥
ततः पुनः कुमुदजा व्याहार्षीद्विहंगमम् । सो ऽप्यवादीत् । देवि मुग्धिकेवोपायप्रकथनाय प्रगल्भसे यदि
तदा यातु भवती । ततः प्रभावत्या पृष्टः पक्षीन्द्रो वाचयंस्तच्चरितं ज्ञापयितुमुवाच । मदनपुराभिधाने
नगरे जनवल्लभनामा वणिक् । तस्य वधूर्मुग्धिका । सा चानवरतपरपुरुषपतिका । भर्तुरुपरि प्रेमलवं
नाङ्गीकरोति। । सर्वदा भर्तारमवजानीते अगणयन्त्यपि । ततस्तेन तस्याः पितृप्रभृतिसोदराणामग्रे निजभा -
र्याया विधानमावेदितम् । नैषा मदीयमभिमतं कुरुते । रात्रौ सर्वदापि सर्वत्र भ्रमति । अहमेकाक्येव
गृहे स्वपिमि । इत्याकर्ण्य मुग्धिका वाचं प्रापञ्चयत् । अयमपदस्थः पापोपी निकृष्टञ्श्च । अहमेकाकिनी नित्यं
निवसामि । अयं प्रतिद्वारं पुरवासिनं जनं निद्रापयन्नास्ते । ततः संभूय तयोर्नियममकार्षुः । भवतोरु -
पुरातनसुकृतविसरैरेव लभ्यते । भवत्यां विद्यमानायां मम न कुतश्चन वैषम्यमापतिष्यति । इत्यभिधाय
तां परिष्कारैः परिष्कृतवान् । तर्हि प्रभावति जानासि चेदुपायरचनानि तदा साध्यतामिति ॥
इति त्रयोविंशतिकथा ॥ २३ ॥
पुनरुपरमणेन समं रिरंसुर्मदनसेनरमणी शुकं प्रति चक्षुश्चिक्षेप । सो ऽप्यनङ्गसेनेव बुद्धि
चिनोषि चेदिदानीमुचितमनुसंधेहि । तर्हि प्रभावत्यपृच्छत्पतत्रिणम् । अनङ्गसेनाचरितं कीदृशम् । तदित्या
वेदयतु नाम भवान् । ततस्तदाचरितं विवर्णयिषुः शकुन्तो बभाषे । मालापुराभिधाने नगरे महाधनना
मा वणिक् । तस्यात्मजो गुणगौरवस्तस्य गृहिणी अनङ्गसेना । सा च भुजंगसंगतिव्यसनिनी । सर्वे तां
तथाविधां जानते तद्भर्तुरग्रे तच्चरितं ज्ञापयन्ति परं तस्याः प्रेमभारपरीणसे न कस्याप्यभिहिते
शृणोति । एकदा सा भुजंगसहिता सुरतमनुबोभवीति । तदा तस्याश्चरणगतयोर्नूपुरयोर्ध्वनिरुदभूत् ।
ततस्तु ध्वनिभीषितहृदया नूपुरे पृथगेकीकृत्य तदुपभोगसुखमन्वभूत् । तद्विलसितं तस्याः श्वशुरेणा
द्राक्षि । स च प्रच्छन्नो भूत्वा तदुपान्तिकमागत्य नूपुरमेकमपनीय गतवान्यथागतम् । ततो ऽनङ्गसेना
विचारपरायणा प्रावर्तत । असावेतं वृत्तान्तं मद्भर्त्रे ज्ञापयिष्यति । तदहमेव मान्यतागलिता भविष्यामि
अधन्या च । तर्हि कथं नाम का बुद्धिरत्रानुसंधेया । इति चिन्तानिमग्नमानसा बभूव । तर्हि प्रभावति
त्वमपि व्याहरस्व । सा कमुपायं प्राकल्पयत् । तदा प्रभावती भावितविचारचित्ताभवत् । नाबोधि ।
तावता रात्रिरप्यत्यवर्तत । तदनु वरवर्णिनी पक्षिणमप्राक्षीत् । सो ऽप्युवाच । तदानीमनङ्गसेना निज
रमणसंनिधानमियाय । तेन समं भावप्रेमविलसितं पूर्वाभिनयवैचित्
ततस्तत्पुरस्तात्किमपि वक्तुं प्रक्रामति । पश्य कुतनयं भवतो ऽग्रे व्याजह्रे । अतिक्रान्ते ऽहनि मच्
मदीयशय्यासंनिधानमागत्य नूपुरमेकमपजह्रुः
नवदत्तस्याः । नूनं नूपुरं चेदग्रहीत् । तदा गृहीतं देहि । अहमितरं नूपुरं कारयिष्ये । स मत्पिता सर्वदा
तादृश एव । न कंचन द्रष्टुं शक्नोति त्वां तु विशेषतो न दिदृक्षति । तर्हि त्वं मौनावलम्बनेन स्थि
तिमाप्नुहि । त्वं तस्य वृद्धस्य विरोधं मनसि गृह्णासि । त्वया मदीयमनसोनुसंधानं विरुद्धाध्यासस्य
द्रष्टव्यम् । इत्यभिधाय सांत्वयामास ताम् । प्रातस्तु तत्पिता नूपुरं नीत्वा तनयस्य
तस्य पुरस्तात्तमस्विनीसंगतं निखिलमावेदयांचकार । तदाकर्ण्य गुणगौरवो ऽप्याह गिरम् । याहि याहि
मत्पुरस्तात्साधु वक्तुं समागतो ऽसि । भवद्भिरेव नूपुरमपहृतम् । तथा विनिमयेन दोषासञ्चनेन तामेव
भाषयन्ति । एतावताभिहितेन तज्जनको मौनमवललम्बे । अनङ्गसेना पूर्वमेव भर्तारमजिज्ञपत् । त
वष्टम्भनेनासौ जनकवचनं सत्यतया नोरीकृतवान् । प्रभावति त्वमपीति मतिचातुर्यं परिशीलयसि
तदा सा
इति चतुर्विंशतिकथा ॥ २४ ॥
ततः पुनः कुमुदजा व्याहार्षीद्विहंगमम् । सो ऽप्यवादीत् । देवि मुग्धिकेवोपायप्रकथनाय प्रगल्भसे यदि
तदा यातु भवती । ततः प्रभावत्या पृष्टः पक्षीन्द्रो वाचयंस्तच्चरितं ज्ञापयितुमुवाच । मदनपुराभिधाने
नगरे जनवल्लभनामा वणिक् । तस्य वधूर्मुग्धिका । सा चानवरतपरपुरुषपतिका । भर्तुरुपरि प्रेमलवं
नाङ्गीकरोति
र्याया विधानमावेदितम् । नैषा मदीयमभिमतं कुरुते । रात्रौ सर्वदापि सर्वत्र भ्रमति । अहमेकाक्येव
गृहे स्वपिमि । इत्याकर्ण्य मुग्धिका वाचं प्रापञ्चयत् । अयमपदस्थः पा
निवसामि । अयं प्रतिद्वारं पुरवासिनं जनं निद्रापयन्नास्ते । ततः संभूय तयोर्नियममकार्षुः । भवतोरु