This page has been fully proofread twice.

जलं तादृशेनैवाहमाप्लावयिष्यामि । इति निवारयति तस्मिन्कुम्भं गृहीत्वा निरगात्सा नीरानयनाय ।
भर्ता च कलितसकलप्रतीकः परिकर्तव्यः । सा च देवदत्तसंनिधिं गत्वा चेतःकाङ्क्षितममन्दानन्दसमुदयैः
क्षणं क्षणमपि सर्वस्वमकार्षीत् । ततः प्रभाते शुक्रोदयसमये उत्थाय वितर्कं कर्तुं प्रावर्तत । केनोपायेन
भर्तुः कोपः परिहर्तव्यः । तर्हि प्रभावति भवत्यभिवादीतु । केनोपायेन भर्तृकोपो निवारितः । प्रभावती
विचिन्तयत्यपि नाबुद्ध । ततः शुको बभाषे देवि अरुणोदये तु भवनसमये जलाभिसमये गर्गरीमुत्तानां
विधाय तदुपर्युरो निधाय भृशं सा पातनं चकार । तरोररघट्टमालारज्ज्वालम्बनेनातिष्ठत् । ततः
प्रकाशविशेषोपगमे मालिकस्तु ललनान्तिकमुपससाद । तदन्वरघट्टमालारज्ज्वालम्बिनीमयबन्धमालोक्य
बोधानिदमनूनुदत् । युवतिरेका जलगर्चे<error>र्त्रे</error><fix>र्ते</fix> निवसतीत्यावेदयन्मालिकः । मानुषाणि समवेतानि । ततस्तज्ज -
नसमूहकलकलं श्रुत्वा कर्णसिंहो मनसिकृत्य जगाद । यदि भवति तदा वैजिकैव जलगर्ते निपतिता ।
नात्र संदेहापातः । अत एव न रात्रौ गृहानागात् । इत्युक्त्वा धावमानः समापपात । तदा वैजिकां
जलगर्तवर्तिनीं निरीक्ष्य तां समाकर्षितवान् । ततस्तस्यां जीवतृणमचीकरत् । तर्हि प्रभावति त्वमित्थं
मतिविशदतां प्रगुणयसि चेत्तदा गच्छ

इति द्वाविंशती कथा ॥ २२ ॥
 
पुनर्विनयकन्दर्पोपसर्पणाय कौमुदी पतंगं व्याकोचयति स्म । शुको ऽप्युज्जगार गिरम् । देवि धनश्री -
रिवोत्तरं कर्तुं संबोभवीषि चेत्तदोरीकुरु । ततः प्रभावती तं जगदे । कथाश्रितया तया किमुत्तरमकारि
तच्चरितं ज्ञापयतु मां भवानिति निवेदिते शुकः प्रोवाच प्रभावतीम् । शृणु श्रवणातिविशदशतगुणोदये ।
पद्मावतीति प्रसिद्धा पुरी । तत्र सुवेष इति वणिगगणितवैभवः । तस्य पत्नी धनश्रीः । तयोर्द्वयोरतिशा -
यिनी प्रीतिः सुखेनास्त । ततः कदाचिद्धनार्जनाय सुवेषो ग्रामान्तरं गतवान् । धनश्रीस्तु गृह एवा -
तिष्ठत् । तदा पतिविरहवेदनया धनश्रीरवस्थाप्रदुःखकलुषितहृदया क्षणं युगान्तसंघातसममभिमनुते
स्म । ततो धनपालाभिधो राजपुत्रस्तामतिथित्वं नयति स्म दृशोः । सो ऽपि तद्दर्शनजनितमदनसेवनज -
नितानन्दादेव वदनदैन्योदित्वरदुरितजनितयुगपदापातसमाविष्टसर्वावस्थो रात्रिंदिवं तदेकतानता -
चिन्तासंतानप्रतानपरिकलाशेषतामनयत्स्वतनुम् । ततो ऽसौ दूतीमुखेन तां स्ववशे कृतवान् । इति तां
परस्पराकृतिसमाक्रमसमुन्मिषदभिनवरसविसरविकचहृदयकलितकुवलयौवनमनोरथसमुचितामनुभव -
मनैषीत् । इत्थं कस्मिंश्चित्समये तयोरेकत्र दीव्यतोर्धनश्रीर्विधेयविशेषविनिहितमानसा तद्विलासे विलम्बनं
कृतवती । तदा तदुपरीर्ष्यालुतया कृपाणिकया वेणीमच्छैत्सीत्तस्याः । स्वयं निर्गत्य गतवान् । तावता सुवेषो
द्रविणगणानार्जयित्वा निजं संवसथमासेदिवान् । तदाचक्ष्व कुमुदकोशनन्दिनि । संकुचितमतिविला -
सावसरे सा कं प्रकारं निजकालुष्यापनोदनायाजीघटत् । प्रभावती चतुरचेतःप्रसरापि तद्विचारचिन्ता -
मातन्वाना न स्म लक्षीकरोति समस्तरात्रिगमने ऽपि । ततस्तयानुयुक्तः प्रातः शुकः संशयशातनं तस्याः
कृतवानायासवचनविचारपरायाः । सा च भर्तारं बहिरागतमवमत्य संदेशं प्रजिघाय । क्षणमात्रमत्रैव
स्थातव्यं गृहीतोर्ध्वावस्थानावसरैरेव भवद्भिः । अहमक्षतपात्रहस्ता निर्वर्तितनिजनियमपरिकरा गच्छामि
ततः स्थालस्थापितप्रज्वलितमहलदीपाद्युपचारसंचया च वेणीं तदुपरि वर्तिनीं विधाय बहिर्निरयात् ।
तं दृष्ट्वा तदुपरि वेणीमुपाचालयत् । कुङ्कुमाक्षतान्कृत्वारुणो विकारश्चोपरि संभ्राम्य पाणिद्वये प्रा-
क्षिपत् । ततः सुवेषो धनश्रियं व्याजहार । ततः सा बहुलपरिसृते विलोचने विधाय तं प्रति वक्तुं
प्रावर्तत । मया दिनद्वयात्पूर्वं तवोपरि पञ्चत्वापादको दुःस्वप्नो वीक्षांचक्रे । तेन जीवो बहुधा शोक -
विकारव्याकुलितकराङ्कुरो ऽजायत । ततो ऽहं कुलदेवतायै समीहितवत्युपयाचितम् । मद्भर्ता यदि
निरामयशरीरो ग्रामादागमिष्यति तदाहं भवत्या उपरि स्वशिरस उद्भ्राम्य शिरोदण्डपुरःसरमुपया -
चितं समापयिष्यामि । इति मया देवतायै प्रत्यश्रावि । अत एवाहं वेणीमच्छेदयं भवत्सु चक्षुःप -