This page has been fully proofread once and needs a second look.

350
 
कुम्भकारः समागच्छत्तावता तं बुर्बुरद्रुममधिरूढं दृष्टवान् । तदनु तं व्याहरति स्म । त्वं को भवसि रे।

ततो ऽसौ न वक्ति च । ततः कान्तिमती गिरः प्राकाम्यमाकाङ्क्षति स्म । एतत्पृष्ठे वैरिणः परिगृहीतवन्तो

व्यापादनाय । कारणेन तेनायं बिभ्यत्पलायमानो द्रुममेनमध्यारुक्षत् । कालकलितवैकल्यो भ्राम्यन्म -

तिजीवश्चरन्दृढ स्थानावलम्बनो जनितवचनविस्मरण आदित्योदयादत्रैवावतिष्ठते । इत्याकर्ण्य कुम्भका -
5

रस्तमारूढद्रुमं व्याजहार । रे पिशाचन<flag>म</flag>काय तरीरोरवरोह । तदनु तरोरवरोहति । तमालक्ष्य तस्मै वसनं
दत्त्वा चेक्षेमादिकं निर्माय निर्मत्सरस्तं प्राहिणोत् । तादृशी प्रज्ञा तव पोस्फुरीति चेत्तदानीं व्रज ॥

इति विंशो कथा ॥ २० ॥
 

 

 
* * * * * ततः प्रभावती वितर्कचिकीर्षितं पप्रच्छ पक्षिणम् । ततः सो ऽप्यवादीत् । विद्यापुरं नाम

नगरम् । तत्र वितर्क: केशवश्च द्वौ विद्यार्थिनीनौ अध्ययनं कुर्वाते द्वावप्यतिधूर्तौ । एवं गच्छति काले
10

केशवः संध्यावन्दनाय जलाशयं गतो ऽभूत् । तदानीं वणिग्गृहिण्येका पानीयानयनाय तत्रागमत् ।

सा च शिरोऽधिरोहणाय गर्गरीं करेणोदञ्चयेति केशवं वरीवर्ति । ततस्तस्या वचनात्केशवो
ऽपि
करेणोद्धृत्य तस्याः शिरसि घटमारोपयामास । तथा तां सुवदनामभिमुखीं च वीच्क्ष्याधरदंशनं च

कृतवान् । तच्चरितं दूरतः पश्यंस्तगतीद्भर्ता सर्वमप्यद्राक्षीत् । ततो ऽसावागत्य केशवं गृहीतवान् । जनसमूहो

ऽप्यमिलत्तैः केशवं राजभवनं नेतुं प्रारम्भिते वितर्कस्तां वातीर्तामश्रौषीत् । धावमानस्तदुपान्तमायात् ।
15

ततस्ते नृपतिमन्दिरमानेतुं प्रयतन्ते । तर्हि प्रभावति केनोपायेनोन्मुक्तो भवति । ततः प्रभावती गृहोतहीत -

चिन्तापरिकरा बभूव । तदापि नाज्ञासीत् । ततः सा शुकं जजल्प । शुको ऽप्यगिरद्गिरम् । तदा तं

केशवं विधृतमालच्क्ष्य वितर्को भाषिष्ट केशवम् । त्वं चुचुम्ब इत्येवानुकुरुष्व । एतादृश एव शब्द उच्चा -

रणीयः । नान्यत्किमपि व्याहर्तव्यम् । तत उपरिष्टादधस्ताच्च कन्धरामन्यामानय वीप्साम् । तत उत्तरम -

भिधास्ये । ततः केशवो ऽपि तथैवानुसंदधानो व्याहरमाणो ऽवतिष्ठते । ततो ऽसौ राजकुलं प्रापितः ।
20

ततो राजाधिकृतास्तं प्रष्टुमुपचक्रिरे । को दोषो ऽस्येति । अनेन परललनाचुम्बी त्यावेदिते राजाधिकृतः

स केशवं प्राचीक्षीत् । ततो सावध उपरि कन्धरां कर्तुं प्राक्रमत् । चुचुम्ब इति शब्दं पौन:पुन्यगत्या -

वादीत् । नान्यत्किमपि भाषते । तदानीं वितर्को राजाधिकृतं बभाषे । देव तस्य ब्राह्मणस्य भूतसंचार:

समासक्तो ऽस्ति । तदानीमारभ्य एतस्य कन्धरा कम्पते तथैतादृशमेव शब्दं ध्वनति । एतदस्मिन्पैशा -

च्मासञ्जि । इदमेव तद्गतं पैशाच्यं सर्वे ऽपि जानते । तदानीं विचिन्त्य राजैवं व्याजहार । यदि अर्थमेव
25

शब्दं व्याहरति अत एव सर्वेषां चेतसि चुम्बनभ्रमं प्रवर्तते । सर्वे भवन्तो जोषमाध्वमित्यभिधाय वणिजं

प्रास्थापयत् । केशवमप्युन्मोच् प्रस्थापितवान् । तर्हि प्रभावति ईदृग्विधमुपायं कलयसि चेत्तदा याहि ॥

इति एकविंशती कथा ॥ २१ ॥
 

 

तदनु दिनान्तरे प्रभावती नुनोद कीरम् । सो ऽप्यवदत् । देवि वैजिकेव भर्तुः कोपं परिहृतवती यदि

तदा स्वकार्यमपि साधय । इत्युपायविशेषप्रसञ्जनं जानीषे चेत्तदा याहि । ततः प्रभावती वैजिका -
30

वृत्तान्तं पतत्रिणमप्राचीक्षीत् । सो ऽपि ब्रूते स्म । नन्दनवाटिका नाम नगरी । तत्र कर्णसिंहनामा राजपुत्रः ।

तस्य भार्या वैजिका । सा कौमार एव वयसि सती व्यभिचारं परिचिनोति । परं भर्तुर्मनसि जीवा -

दप्यतिशयेन प्रेमास्पदोदयं भजते । एकस्मिन्दिने भर्तुरभ्यञ्जनमासञ्जितं भर्तुः शिरसि प्राक्षिपत् । तदानीं

द्वारि भूत्वा गतवान्तदुपपति: संकेतवितरणेन तामप्युपाहितवान् । तदन्वतिव्यभिचरन्ती सा जारान्तिकं

टीकते स्म । तत्रस्थितं सर्वमपि जलमत्युष्णमिति भतारमवोचत् । अत्यौष्ण्येनासहिष्णुजलस्य सहिष्णुता
35
-
करणाय शीतलं न वार्यस्ति । चुल्लिपरिस्थितजलं वाहूवह्नितप्तमस्ति । तदन्तर्मिश्रणाय कलशं गृहोहीत्वा जला -

हरणाय गमिष्याम्यहम् । ततो ऽसौ ब्रवीति । एतावति तमसि संध्यासमये न गन्तव्यम् । यादृगस्ति