This page has been fully proofread once and needs a second look.

348
 
प्रकल्प्य तस्मात्संकोचातिशयादात्मानमुदवहत् । भवत्याः सख्यो भवती वाभिदधातु । ततः प्रभावती
तञ्

तच्
चिन्तनानुसंधानावधानदत्तचित्ता निशीथिनीमनीनयत्तमुपायं नावगच्छत् । ततः पतत्रिणमनुयुनक्ति

स्म । प्राह च सो ऽपि । आकर्णय प्रभावति । गृहान्तर उपधवसहितां विलासरसिकां सुभगां जगाद

सा । भतीर्ता समेष्यति । त्वं देहल्या उपरि गलितबन्धनं कचकलापं विधाय भ्राम्यन्मस्तका व्याजृम्भमा -
6

णवदना घूर्णीणायमानाङ्गा भव । तदन्वहमुत्तरं रचयिष्यामि । ततः सुभगा तथैव व्यवसितमादृतवती ।

तदा सलवणदेवः शृङ्गारवतीमवादीत् । एतस्याः किमेतदजायत । ततः साभिवीच्क्ष्य तं व्याचष्ट । ज्वा -

लयन्तु भवन्तः स्वसमीहितम् । वराक्या एतस्या उपरि परिभ्राम्यङ्ग्द्भ्रमविभ्रमाविर्भावापातनाय प्रबद्ध -

प्रयत्ना वर्तन्ते । तन्निशम्य सो ऽप्यधात् । किमहमकार्षं कस्मान्मह्यं क्रुध्यसि । ततः साभ्यधात् । भवन्त

एतान्वटप्ररोहान्समानिन्थियिरे । एतस्मिन्वटे वटयक्षिणी निवसति । तर्हि तज्जनिता बाधा पीडयतीमाम् ।
10

अत एतान्प्ररोहान्नीत्वा तत्रैव स्थापयन्तु । इतरथा एतस्याः प्रतिक्षणं बाधाधिक्यं भविष्यति । तारुण्य -

सौन्दर्यसौभाग्यपरिकलितशरीरसंपदियम् । यदि तथाविधः स को पि भूतविशेष एतस्याः शरीरमा
-
विश्य स्थास्यतीति कदाचन ततः पुनः किं करिष्यते । इत्यभिधाय रोधनं विदधाना विकृतवाक्यानि

व्याहरन्ती अधिष्ठितस्कन्धप्ररोहदशवटप्ररोहमाभारं पूर्वस्थानमगमयत् । तस्मिन्यते सति निरकासयदेवदत्तं

गृहमध्यात् । तर्हि प्रभावति प्रतिभापरिकल्पितोत्तरविशेषा प्रभवसि चेत्तदा साधय ॥
 

इत्यष्टादशी कथा ॥ १८ ॥
 
15
 

 
अन्यस्मिन्दिने कुमुदकोशनन्दिनी विनयकन्दर्पस्य संकेतनिकेतनगमनाय शुकं वक्ति स्म । सो ऽप्यवादीत् ।

मदनवतीवोत्तरवितरणे प्रभुतामालम्बसे चेत्तदानीं व्रज । ततस्तच्चरितावगमाय प्रभावतीभावितप्रश्नः

पक्षीन्द्रो ऽप्याददे वाचम् । आकर्णय । कौमुदीदंहिनी नाम ग्रामः । तत्र त्रिलोचनसंज्ञीञो रावुत्तः । तस्य

सहचरी मदनवती।सा चातीव सौन्दर्यभाववती व्यभिचारचातुर्यविरचनाप्रपञ्चान्वितपरिचयापि परं
20

प्रसङ्गं न प्राप्नोति स्म परितो रक्षकमनुष्यनिषिद्धबहिर्गमना । इत्मतिक्रामति काले पर्वविशेषेक -

स्मिन्गङ्गावगाहाय भर्त्रानुज्ञातगमना गृहीतोपचारपरिकरा चेटीद्वितीया प्रकटितभवभक्तिधूर्जटिट्टदृ -

ष्टिनिकटीकरणाय समाटीकते स्म शिवालयम् । सा च विलासाभिव्यक्तिपटीयसी तरंगितापाङ्गतटीका -

भिनयप्रवर्तित्रुटी स्थगितद्विपटी प्रपञ्चितारभटी स्फुटीभवति समकुटीचरोच्चाटीकरणमूर्तिस्तदनु मद -

नाधिदेवतेव मूर्तिमती तस्मात्करटिचर्मकुटनिकटाग्राद्व्याघुय्ट्य पर्यटन्ती खण्डपरशुभयपरित्यक्तकार्मुकं
25

काममिवापरं वाडवं मध्येपथमद्राक्षीत् । सा तं दृष्टिदूतीबोधितसंकेतं कलाकलापकोविदानामग्रगण्यं

तद्दूक्पलवितमदनदावपावकं तदभिप्रायावबोधदत्तावधानं निजपरिसरमानिनाय मानिनी ।
 
30
 

 
उदीरितो ऽर्थः पशुनापि गृह्यते वहन्ति नागाश्च हयाश्च चोदिताः ।

अनुक्तमप्यूहति पण्डितो जनः परेङ्गितज्ज्ञानफला हि बुद्धयः ॥

आहारनिद्राभयमैथुनं च सामान्यमेतत्पशुभिर्नराणाम् ।
 

ज्ञानं नराणामधिको विशेषो ज्ञानेन हीनः पशुभिः समानः ॥
 
-
 

 
ततस्तदुपकण्ठमागत्य प्रयुङ्गे स्ववाचम् । त्वं कस्मान्मां समानैषीः । तदभिधेहि प्रयोजनम् । ततस्तया

व्याहारि । मम त्वदीयाभिलाषः समुपनीपन्नः । तर्हि त्वया मदीयमगारमागन्तव्यम् । मदीयो भती
र्ता
त्वया संगन्तव्यः । अहं मत्पतिमभिधास्यामि । मदीयो मातृष्वस्रीयो भ्रातासाविति । भवतापि तु

मद्वचनानुसरणमनुकर्तव्यम् । इत्थमनया रीत्या कानिचिहिद्दिनानि साटोपभोगावगाहनपरिनिष्ठितकर -
36

णगणानिरस्तसारं संसारं कलितसारं कुर्वीमहि । ततो ऽसौ तद्वचनाद्ब्राह्मणस्तद्गृहानाजगाम । तस्य

भर्तारं त्रिलोचनं चचुक्षुर्विषयीकृतवान् । नमञ्श्चकार त्रिलोचनम् । स तस्मिन्समय उत्स्मयते स्म । कुत्र -