This page has been fully proofread once and needs a second look.

347
 
ततस्तद्वचनावगमान्नरपति: पुष्पहासमुन्मोच् प्रधानमुद्राधिकारं च विधाय किमिति तदानीं न

त्वमहासीरिति तमन्वयुङ्क्त । तदानीं राजादेशमासाबाद्यामात्यो ऽप्यवादीत् । देव इत्यस्ति ।
 

 
सिद्धमन्त्रौषधं धर्मं ग्रहच्चिछिद्रं च मैथुनम् ।
 

बन्धनं चावकाशं च मतिमान्न प्रकाशयेत् ॥
 
-
 

 
देव एनमप्राचीक्षीत् । तदानीं रहस्यमपि वक्तव्यमेव । मनःसंमोहिनीनामधेया मदीया गृहिणी । सा जीवा - 6

दप्यत्यन्ततया प्रणयपात्रम् । तां विहाय कामपि कामिनीं न परिशीलयामि । किं तु । सापि व्यभिचरन्ती

मम दृगयनमाससाद । अत एव तदानींतनदिने मम मनसि न कञ्चन सुखलवाश्रयः । किं तु खैस्वैरोज्जा-

गरदुःखसागरान्तर्गतगुरुगरोद्गारकलितगाम्भीर्यं मम मानसं कंचन विशेषमध्यगच्छत् । तस्माच्चित्तं न

हास्ये सोत्साहे प्रत्यासक्तिमाबध्नाति । इति प्रधानवचः श्रवणान्महीभर्तुः हास्यमाविरासीत् । किं तु । तचाद्धा -
स्व

स्य
रसपरंपरापरिस्फूर्जदूर्जस्वलप्रतिहारप्रभावीवो महीभार्यावान्करस्थितेन बहुलपरिमल सद्गुणगणोदयकु - 10

सुमस्तबकेन कामकलिकां प्राणेश्वरीरीं प्रहृतवान् । तेन प्रहारेण मदकलितकपोला प्लवगजाक्षतनलिनीम -

वनीकारसोदरभाजा संमोहमहोर्मिगृहीतहृदया व्यरचि नरेन्द्रसहचरी । राजा च चेलाञ्चलेन तन्मूर्च्छीछा -

पगमाय पवनाहतिमातनोति । तत्समीच्क्ष्य पुष्पहासस्य सहसा हासः प्रावर्तिष्ट । सदस उपरि पुष्पासारः

प्रापतत् । तदालच्क्ष्य क्षितीश्वरः पुष्पहासमाससाद गिरा । पुष्पहास त्वमात्मानं स्वामिभक्तं ख्यापयसि ।

तर्हि मदीयायाः प्राणप्रियायाः प्राणस्थानसमानो यः क्षणः प्रतिक्षणं प्रवर्तमानो ऽस्ति मूर्च्छाछोल्ला - 15

सितैतादृशी कष्टा दशा प्रावरीवर्ति तद्धर्षोत्करेण हास्यं भवतः प्रासंजयत् । ततः पुष्पहासो जगाद

राजानम् । देव यद्यभयदानं दातुमीशिषे तदा वच्क्ष्यामि । वावदीहीति दत्तं मयाभयं तवेति नृप -

तिनाभिहितः पुष्पहासो बभाषे । देव त्वदीयेयं प्राणेश्वरी कामकलिका । अस्या गिरा मत्स्या अपि

मुमुदिरे । सेयं पतिव्रता त्रियामायां मन्दुरासु मान्दुरिकनिकटमटीकिष्ट । दुष्टाशया किमिति काला -

तिक्रममकार्षीस्त्वमिति अभिधाय मान्दुरिकस्ताडितवानेतां कशाभिः पृष्ठभागे । अतः परं त्वरितगत्या 20

तवान्तिकमागमिष्यामीत्यभिधायेदानींतनो ऽपराधः क्षन्तव्यस्त्वयेति चरणयोरपतदियम् । किं तत्प्रहा -

रैरेतस्या न कश्चिद्वाबाधाविर्भावः प्रावर्तत । इदानीं भवद्विलसनचित कुसुमस्तबकसंपर्कपराक्रान्तकर्कशक्र -

कचचक्रबावालक्रमा क्षणसंक्रान्तविक्रमोपक्रमातिक्रान्तघैर्यप्रक्रमा महतीं मूर्च्छा जगाहे । यद्येतन्मदभिहितं

प्रथते मिथ्यात्वाय तदानीमेव तस्याः पृष्ठभागे कशाताडनप्रतिफलनं लक्षणीयं देवेन । इत्यभिहिते

महीपतितिल कस्तत्कौतुकालोकनायेक्षितवांस्तस्याः पाश्चात्यापघनम् । तदा प्रहारप्रतिबिम्बान्यद्राचीत्। 25
क्षीत्।
तदालच्क्ष्य विक्रमादित्यो वैराग्यप्रकर्षं प्राप्तवान् । तर्हि प्रभावति बालसरस्वती यथा आत्मन आयासं

परस्योपरि प्राक्षिपदुपकाराविष्कारेण प्रधानमुन्मोचितवती इत्युपायचातुर्यं विशदयसि चेत्तदा -

नीमभिसर ॥
 

इति सप्तदशी कथा ॥ १७ ॥
 
-
 

पुनः प्रभावतो प्रदोषकाले विनयकन्दर्पोपान्तप्राप्तये पचिक्षिणं पप्रच्छ । सो ऽप्यवादीत् । देवि शृङ्गारवतीव 30

व्यसननिरसने प्रसृमरसंविद्रसानुसारिणी भवसि चेत्तदा याहीत्यभ्यधात् । किं तद्वृत्तान्तम् । वावदीतु

भवानिति तया नियुक्तः पक्षीन्द्रो वाचं विस्तारयति स्म । शृणु श्रवणालंकरणवाणि । राजपुराभिधा -

ने नगरे सलवणदेवाख्यः कृषीवलः । तस्य द्वे स्त्रियौ । एका शृङ्गारवती अन्या सुभगा च । ते द्वे अपि

व्यभिचारानुरक्ते संभूय व्यभिचरतः । कदाचित्सुभगा मन्दिरमध्यवर्तिनी उपपतिना समं विशेषसुखं

प्रचयन्ती पञ्चशरनरपतिचापविद्यासहचरी चरितार्थीथा वर्तते स्म । तावता तस्या भतीर्ता न्यग्रोधप्ररोह - 36

संभारं वृत्तिविभागग्रथनाय समानीतवान् । तर्हि व्याचक्ष्व प्रभावति । तस्मिन्समये कं नाम उपायं