This page has not been fully proofread.

346
 
पुनरपि नृपतिस्तामानाव्य तिमिहसितहेतुमचीकणत् । सापि प्रासोष्ट वाचम् । भूपते किमित्याग्रहं चरीक-
रीषि । अतिशयं जहीहि महीपते । अत्याग्रहं कुर्वाणयोश्चिन्तामण्यमन्तयोः यथा द्वयोरप्यपाय: सम-
जायत तादृक्प्रकारः तवापि बोभविष्यति । ततो भूपालस्तयोश्चरितमावेदयतु भवतीति तामुदयोजयत् ।
सा चोवाच । शृणु श्रवणभूषणभूतकर्ते । श्रीमल्लिकार्जुनस्य वर्त्मनि अरमन्तको वृक्षोऽभूत् । स त्वेकेन
6 केनचित्पथिकेन साधुभावमापादितः । तत्स्कन्धे ऽधस्तादेकां वितर्दिकां विरचव्य उपरि वर्तुलं सर्वतः समं
स्थापितवान् । एकं भूरिसिन्दरपरिपूरितप्रतीकं प्रसूनपूजिततनुं च कृत्वा चिन्तामणिनामधेयं तस्य
चकार । इत्थं बहुभिरहोभिर्गतानुगतिकतया तस्य देवस्य साधीयसी प्रसिद्धिरजायत । प्रत्यहं तस्य
सिन्दरादिपूजानैवेद्यं वर्धते तथा चतुर्थीदिने मोदकपायसादिरचना । इत्यं महिमा तस्य बहुरभवत् ।
अन्यच्च पूर्व मार्गिताः अश्मन्तकस्य पर्णमेकैकं गृह्णन्ति सर्वे पथिकाः । तेन तस्याभिवृद्धिर्न बोभवीति ।
10 स तु चिन्तामणेरयमश्मन्त इति कृत्वा तदाप्रभृति न कश्चित्तं करेणापि परामृशति । तस्मादशक-
लितदलशरीरतया विस्तारसामग्रीमतिशायिनीं भजमानो ऽसौ स्थौल्यभावेन जरीजृम्भीति । इत्यं
बहुषु दिनेष्वतिवाहितेषु तयोरश्मन्तकचिन्तामण्योः कलहः प्रावर्तिष्ट । ततः परस्परमभाषेताम् । त्वं
मार्गसंगतो ऽश्मन्तकः सर्वेरपि पथिकैः गच्छद्भिस्त्रोटितदलो मूलावशेषीकृत एवास्थितोऽभूः । परं
चिन्तामणेरयमिति न कश्चिदपि तव दलविदलनं कुरुते पान्थः । तस्मान्मत्संबन्धेन वर्धितो भवान् ।
15 तर्हि मयैव समं विकाराङ्गीकारमाविष्करोषि । इति निशम्यारमन्तको ऽपि चिन्तामणिं व्याहरति
स्म । त्वयि किं नाम चिन्तामणिः । मच्छायासमाश्रयं कृतवान्मदाश्रयबलेन तव गरीयान्महिमा प्रा-
दुरासीत् । नैवेद्याद्यभ्यवहारतो भवतो ऽङ्गानि समूलानि जातानि । अहं त्वदनुभूतान्द्वादशापि मासा-
न्करवाणि । त्वं सर्वस्मिन्क्षेत्रे तिष्ठसि । सर्व: कोपिकर्षको हारासञ्जनाय लाङ्गलस्योपरि स्थापयति
त्वां नवीरचितदृढरज्ज्वा लाङ्गलस्योपरि उत्तम्भनं त्वां बध्नाति । इदानीं मदाश्रयेणैव भवतो भूरिभा
20 ग्याभ्युदयः समजनि । इत्थं तयोरितरेतरं विरोधः प्रावर्तत । ततो ऽश्मन्तकः चिन्तामणिमभाणीत् । त्वया
विना मम किं नाम हीयते । त्वं किमिति न यास्यसि । तदानीं स चिन्तामणिर्वेदिकां तां विहाय
परतो गतवान् । चिन्तामणिरहितः स तरुबीधामन्वभवत् । अन्यस्मिन्दिने जन एक आगत्यारमन्तकस्य
त्वचो बन्धविधानाय समाकृष्टवान् । अपर आगत्य मेदिनीखननाय स्कन्धत एवानुचिच्छेद । इति
प्रकारस्तस्य प्रावर्तत। चिन्तामणिस्तु कण्टकघटितप्रतितलकृतावस्थितिरुष्णांपूष्मणा पाण्डुरधूसरवर्णता-
25 माददे । तदुपरि पक्षिण अजहुः । स त्वेकेन जनेन परवल्गुगुल्फान्तः परिक्षेपाय प्राप्त इति दूरतः
पर्यस्तः । इति प्रकारानुभवः तयोरुभयोरप्यजायत । तर्हि राजेन्द्रातिशयं कुर्वणस्य भवतो ऽपि प्रका
रपात उदेष्यति । अद्यतनं दिनं चारुगत्या विचारय । यदि न जानीषे तदानीं प्रातरावेदयिष्या-
मि भवते मत्स्यहास्यकारणम् । इति व्याहृत्य बालसरस्वती निजमन्दिरं गतवती ॥
इति षोडशी कथा ॥ १६ ॥
 

 
30 तदनु दिनान्तरे धरातुराषाढालसरस्वतीमानाव्य तिमिहसितकारणमन्वयुत । तदाकर्ण्य बालसरस्वती
ससर्ज वाचम्।आकर्णय विक्रमादित्य । एतत्कारणमावेदयामि । परमेका विज्ञप्तिरस्ति । भवत्प्रधानमुख्यः
पुष्पहासो ऽयं भवता कस्मान्निगृहीतः । तच्छ्रुत्वा राजा व्याहार्षीत् । यदा हसति तदान परिषद
उपरि बहुलपुष्पासाराभिसारो भवति । एवंविध एतदीयो गुणः । इत्यं परमजनपदपरिवृढस्य शिष्टाः
समीपमागता अभूवन् । तेभ्यः कौतुकं दर्शनीयमिति धिया अहमेनमजहसम् । किं तदानीमभिहितो
85 Sपि नासावहासीत् । तद्रोषपरवशो ऽहमेनं निगृहीतवान् । इति निशम्य बालसरस्वती धराधिनाथं
गिरा जग्राह । स तु कुसुमहासो देवेन निगलादुन्मोचनीयः । साधुतया मानयित्वा तदान किं
दिनद्वये हास नाकार्षीस्त्वमिति देवेन प्रष्टव्यः । तदनु मत्स्यहास्यहेतुजिज्ञासार्थमपि स एवानुयोक्तव्यः ।